________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । किञ्चितूनार्थाः ४६३ अतमबादेरीषदसमाते कल्पप् देश्यप् देशीयर् ॥ १२९ ॥ [सि०७३।११]
तमवाद्यन्तवर्जाच्याद्यन्तामानश्च किञ्चिद्नेऽमी त्रयः स्युः । पचतिकल्पं पचतिदेश्यं पचतिदेशीयम् । पटुकल्पा पटुदेश्या पटुदेशीया ॥ "नानःप्रारबहु” (७३।१२)। किश्चिदने । बहुपटुः, पटुकल्पः । *कुत्सिताल्पाज्ञातादिषु यथार्ह कवादयो वाच्याः। अश्वकः । अनुकम्पायां पुत्रक एहकि ॥ “एकादाकिन् चाऽसहाये” (७।३।२७) एकाकी एककः ॥ १२९ ॥ ५
अत० । किञ्चिदूने इति-पदार्थानां सम्पूर्णता समाप्तिः, सा किश्चिदूना ईषदसमाप्तिस्तद्विशिष्टेऽर्थे वर्तमानात्त्याद्यन्तानाम्नश्चामी त्रयः प्रत्ययाः स्युः । पचतिकल्पमित्यादि-एवं पचतः कल्पं ३ । पचन्तिकल्पं ३ । पक्ष्यतिकल्पं ३ । अपाक्षीत्कल्पं ३ । पूर्ववन्नपुंसकत्वैकत्वे । इदमेव त्यादिग्रहणं ज्ञापकम् , शेषस्तद्धितो नाम्न एव भवतीति । पटुकल्पेति-ईषदसमाप्ता पट्वी पटुकल्पा ३, प्रत्ययस्य पित्त्वात् पुंवद्भावः । एवं कारककल्पः ३ । कृतकल्पं भुक्तदेश्यं पीतदेशीयम् । ईषदसमाप्तो गुडो गुडकल्पा द्राक्षा १० ३ । चन्द्रकल्पं मुखम् , तैलकल्पा प्रसन्ना । गुडादिधर्माणां माधुर्यादीनां द्राक्षादिष्वीदसमाप्तत्वेनेषदसमाप्ता द्राक्षादय एवमुच्यन्ते । कल्पबाद्यन्तमुपमेये वर्तमानमुपमेयलिङ्गसङ्ख्यम् । बहुप्रत्ययपूर्व तु प्रकृतिलिङ्गसङ्ख्यम् । स्वभावात् शब्दशक्तिरेषा यदुत स्वार्थिकाः केचित्प्रकृतिलिङ्गान्यतिवर्तन्ते, यथा कुटीरः शुण्डारः शमीरुः शमीरः दैवतं औपयिक औषधं वाचिकमिति । केचित्तु नातिवर्त्तन्ते-यावकः मणिकः बृहतिका मृत्तिका कासूतरी गोणीतरी व्यावक्रोशी व्यावहासीति । अतमबादेरिति किम् ? यदा १५ प्रकर्षादिविशिष्टस्येषदसमाप्तिविवक्षा भवति, तदा तमबादिभ्यः कल्पबादयः प्राप्नुवन्त्यतस्ते मा भूवन् । यदा त्वीषदसमाप्तस्य प्रकर्षादयो विवक्ष्यन्ते, तदा कल्पबाधन्तेभ्यस्तमबादयो भवन्त्येव । पटुकल्पतमः ३ । पकारौ पुंवद्भावार्थों । दर्शनीयकल्पा । केचिद्देश्यं पितं नेच्छन्ति, तन्मते दर्शनीया देश्येत्येव भवति । देशीयरिति रेफो “रिति” ( ३।२।५८) इत्यत्र विशेषणार्थ:-पञ्चमदेशीया ॥ "नान.." किश्चिदूने इति-ईषदसमाप्तेऽर्थे वर्तमानान्नानो बहुप्रत्ययः स्यात् , स च प्राक् पुरस्तादेव न परस्तात् । २० बहुपटुरिति-एवं बहुभुक्तम् , बहुपीतम् , बहुगुडा द्राक्षा, बहुतैलं प्रसन्ना, बहुपयो यवागूः, बहुचन्द्रो मुखम् , नामग्रहणं त्याद्यन्तनिवृत्त्यर्थम् , त्याद्यन्तेषु सावकाशाः कल्पबादयो बहुना मा बाधिषतेति वावचनम् , तेन पक्षे तेऽपि भवन्ति । अत्र विशेषश्चायम्-"न तमयादिः कपोऽच्छिन्नादिभ्यः" ( ७।३।१३)। छिन्नादीन्वर्जयित्वान्यस्माद्यः कप्प्रत्ययस्तदन्तात्तमबादिर्न स्यात् । एषामनयोर्वायं प्रकृष्टः पटुक इत्येव । प्रकर्षादिमतः कुत्सितत्वादिविवक्षायां तमबाद्यन्तेभ्यः कप् भवत्येव-प्रकृष्टः पटुः २५ कुत्सितः पटुतमकः । (अयमनयोः) पटुतरकः । पटुकल्पकः । पटुदेश्यकः । पटुदेशीयकः । अच्छिन्नादिभ्य इति किम् ? कुत्सितोऽल्पोऽज्ञातो वा च्छिन्नछिन्नकः । प्रकृष्टः च्छिन्नकः च्छिन्नकतमः । छिन्नकतरः छिन्नकरूपः । छिन्नककल्पः ३ । छिन्नादयः प्रयोगगम्याः ॥ "अनत्यन्ते" (७।३।१४)। अनत्यन्तेऽर्थे यः कप् तदन्तात्तमबादिर्न स्यात् । छिन्नाद्यर्थ वचनम् । अनत्यन्तं छिन्नं छिन्नकम् । भिन्नकम् । प्रकृष्टं छिन्नकं भिन्नकमित्येव । यदा तु प्रकर्षवतोऽनत्यन्तविशिष्टविवक्षा, तदा तमबायन्तात् ३० "क्तात्तमबादेश्वाऽनत्यन्ते" (७।३।५६ ) इति कप भवत्येव । छिन्नकतमकं भिन्नकतमकम् ।
अथ कवादिस्वार्थिकप्रत्ययप्रकरणं सङ्केपेण सङ्ग्रहाति-कुत्सितेत्यादि वार्तिकम् । अथात्र सूत्राणि"प्राग्नित्यात्कप्" ( ७।३।२८) नित्यशब्दसङ्कीर्तनात् प्राग् येऽर्थास्तेषु द्योत्येषु कप्प्रत्ययोऽधिकृतो ज्ञेयः । (कुत्सितोऽल्पोऽज्ञातो वा अश्वः अश्वकः । गर्दभकः ) । पकारः पुंवद्भावार्थः । कुत्सिता दरदारविका । प्राग नित्यादित्यवध्यर्थम् , अन्यथापवादबाधितो नोत्तरत्रानुवर्तेत । परतोऽपि चानुवर्त्तते ॥३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org