________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"कुत्सिताल्पाज्ञाते" (७३३३) । कुत्सितं निन्दितम्, अल्पं महत्प्रतियोगि, अज्ञातं प्रकृत्युपात्तधर्मव्यतिरेकेण केनचित्खत्वादिना धर्मेणानिश्चितम् , सर्वथा त्वज्ञाते प्रयोगायोगात् । अश्वक इतिकुत्सितोऽल्पोऽज्ञातो वाऽश्वोऽश्वकः । कुत्सादीनां भेदोपपत्तेः कुत्सादिभ्योऽपि कुत्सितादौ प्रत्ययः स्यात्कुत्सितकः अल्पकः अज्ञातकः प्रकृष्टतर इत्यादौ प्रकर्षभेदे तरबादिवत् ।। अिनुकम्पायामिति, अत्र ५सूत्रम्-"अनुकम्पातधुक्तनीत्योः” (७।३।३४) । अनुकम्पा कारुण्येन परस्यानुग्रहः । तया युक्ता नीतिः सामादिप्रयोगस्तत्रानुकम्पायां सामदामे एव, न भेददण्डौ; तयोरनुकम्पाया अयोगात् । अनुकम्पायां तयुक्तायां नीतौ च गम्यायां यथायोगं कबादयः स्युः । अनुकम्पा तन्नीतिश्च प्रयोक्तधर्मों ज्ञेयौ। पुत्रकः, बालकः, वत्सकः, बुभुक्षितकः, ज्वरितकः, शनकैः, तूष्णीकाम् , स्वपितकि, स्वपिषकि, जल्प
तकि, एहकि । अनुकम्पमान एवं प्रयुके पुत्रक एहकि उत्सङ्गे उपविश, कर्दमकेनासि दिग्धकः, कण्ट१० कस्ते लमकः, वत्सक तूष्णीकां तिष्ठ, ओदनं भोज्यसे हन्त, ते गुडकाः हन्त, ते धानकाः अद्धकि,
अत्र उपविश असि तिष्ठ ओदनं भोक्ष्यसे हन्त ते इत्येतेष्वनभिधानान्न भवति । यत्र त्वनभिधानं तत्र भवति । नक त्वकं पुत्रकं पश्यसकि । असको काकको वृक्षके उच्चकैः प्रणिलीयते । अनुकम्पायां प्रत्यासत्तेरनुकम्प्यमानादेव स्यात् , नान्यस्मादुत्सङ्गादेस्ततोऽपि यथा स्यादिति तद्युक्तनीतिग्रहणम् ॥ आदिशब्दात् “अजातेनानो बहुखरादियेकेलं वा” (७।३।३५) । तयुक्तनीताविति न वर्तते । १५ अनुकम्प्यादेव प्रत्ययविधानात् । बहुखरान्मनुष्यनाम्नोऽनुकम्पायां गम्यायां इय-इक-इल इत्येते प्रत्ययाः
स्युः । अजाते:-न चेन्मनुष्यनाम जातिशब्दो भवति । अनुकम्पितो देवदत्तो देवियः देविकः देविलः । वावचनात् कबपि. देवदत्तकः । अजातेरिति किम् ? महिषकः वराहकः शरभकः सूकरकः, गर्दभका; एते जातिशब्दा मनुष्यनामानि च । अजातेरिति प्रायिको निषेध इत्यन्ये । व्याघ्रिलः सिंहिलः इति हि दृश्यते । तन्मते बहुस्वरादित्यपि प्रायिकम् ॥ "वोपादेरडाको च” (७।३।३६)। उपपूर्वादजातिरू२०पान्मनुष्यनाम्नो बहुवरादनुकम्पायामड-अक, चकारात्प्रागुक्तात्रयश्चेति पश्च स्युः । अनुकम्पित उपेन्द्रदत्त उपडः उपकः उपियः उपिकः उपिलः । वावचनात् पक्षे कबपि-उपेन्द्रदत्तकः ॥ "ऋवर्णोवर्णात् स्वरादेरादेलक प्रकृत्या च” (७।३।३७)। ऋवर्णान्तादुवर्णान्ताच्च परस्यानुकम्पायां विहितस्य खरादेः प्रत्ययस्यादेर्लुक् स्यात्, तच्च ऋवर्णोवर्णान्तं लुकि प्रकृत्या तिष्ठति, न विकारमापद्यते ।
अनुकम्पितो मातृदत्तः मातृयः मातृकः मातृलः । एवं पितृयः पितृलः पितृकः । अनुकम्पितो वायु२५ दत्तः वायुयः वायुकः वायुलः । प्रकृतिभावाद्रेफाऽवादेशौ ['ऋतो रस्तद्धिते' (१।२।२६)] इति, अपदान्ते वर्त्तमानस्य "अस्वयम्भुवो" (७।४।७०) इति च न स्याताम् ॥ "लुक्युत्तरपदस्य कप्न" (७।३।३८)। नृनानो यदुत्तरं पदं तस्य "ते लुग्वा" (३।२।१०८) इति लुकि सति ततः कम्प्रत्ययः स्यात् । अनुकम्पायां गम्यायाम् । कबादीनामपवादः-देवदत्तो देवः-अत्र ते लुग्वेत्युत्तरपदलोपः ।
अनुकम्पितो देवो देवकः । पकारः पुंवद्भावार्थः । नकार "इच्चापुंसोऽनित्क्याप्परे" (२।४।१०७) इत्यत्र ३० पर्युदासार्थ:-अनुकम्पिता देवी देवका-अत्र कप्नि सति पित्त्वात्पुंवद्भावे नित्त्वादाप्परेऽपि ककारे इत्वं न
भवति । उत्तरपदस्येति किम् ? देवदत्ता दत्ता-अत्र "ते लुग्वेति" पूर्वपदस्य लुक् । अनुकम्पिता दत्ता दत्तिका-पूर्वेण कप् ॥ लुक चाऽजिनान्तात्" (७३।३९)। अजिनशब्दान्तानाम्नोऽनुकम्पायां कप्, तत्सनियोगे उत्तरपदस्य च लुक् स्यात् । अनुकम्पितो व्याघ्राजिनो व्याघ्रमहाजिनो वा नाम मनुष्यो व्याघ्रकः । एवं सिंहकः शरभकः । अनुकम्पिता व्याघ्राजिना व्याघमहाजिना वा व्याप्रकार,
"आतो नेन्द्रवरुणस्य" (७।४।२९) इति ज्ञापकादकृतसन्धेरेषोत्तरपदस्य लुक्॥"षड्वर्जेकखरपूर्व३६पदस्य खरे" (७।३।४०) षट्शब्दवर्जमेकखरं पूर्वपदं यस्य तत्सम्बन्धिन उत्तरपदस्यानुकम्पायां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org