________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अनुकम्पाद्यर्थाः
४६५ विहिते स्वरादौ प्रत्यये लुक् स्यात् , उत्तरसूत्रस्यापवादः । अनुकम्पितो वागाशीर्वाग्दत्तो वागाशीर्दत्तो वा वाचियः, वाचिकः वाचिलः । षड्वर्जेकस्वरपूर्वपदस्येति किम् ? अनुकम्पित उपेन्द्रदत्त उपडः०, उत्तरेण लुक् । षड्वर्जेति किम् ? अनुकम्पितः षडङ्गुलिः षडियः षडिकः षडिल:-अत्रोत्तरेण द्वितीयस्वरादूर्व लोपः । तथा च "अवर्णवर्णस्य” (७४।६८) इत्यल्लुचः स्थानिवद्भावात्पदत्वस्यानिवृत्तेस्तृतीयत्वं न निवर्त्तते । षड्वर्जनादेव च पदत्वे सन्धिविधावप्यल्लुकः स्थानित्वनिषेधो न भवति ।५ खर इति किम् ? वागाशीकः ॥ “द्वितीयात्वरादूर्द्धम्” (७।३।४१) । अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेर्द्वितीयात् स्वरादूर्वं शब्दस्वरूपस्य लुक् स्यात् । अनुकम्पितो देवदत्तो देविका देवियः देविलः । एवं उपडः ५ । पितृय ३ । वायुयः ३ । ऊर्द्धग्रहणं सर्वलोपार्थम् ॥ "सन्ध्यक्षरात्तेन" (७।३।४२)। अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेर्द्वितीयात्सन्ध्यक्षररूपात्स्व. रादूर्द्ध शब्दस्य तेन द्वितीयेन सन्ध्यक्षरेण सह लुक् स्यात् । अनुकम्पितः कुबेरदत्तः कुबियः कुबिकः १० कुबिलः । अनुकम्पितः कहोडः कहियः कहिकः कहिलः । एवं लहोडः लहियः ३ । कपोतरोमा कपियः ३ । अमोघः अमोघदत्तः अमोघजिह्वा वा अमियः ३ । सन्ध्यक्षरादिति किम् ? अनुकम्पितो गुरुदत्तः गुरुयः गुरुकः गुरुलः ॥ शेवलाद्यादेस्तृतीयात्” (७।३।४३)। शेवलादिपूर्वपदस्य नृनाम्नोऽनुकम्पाविहिते स्वरादौ प्रत्यये परे तृतीयात्स्वरादूर्द्ध लुक् स्यात् । अनुकम्पितः शेवलदत्तः शेवलियः शेवलिकः शेवलिलः । एवं सुपरिदत्तः सुपरियः ३ । विशालदत्तो विशालियः ३ । वरुण-१५ दत्तो वरुणियः ३ । अर्यमदत्तः अर्यमियः ३ । अत्राप्यकृतसन्धेरेव लोपः-शेवलेन्द्रदत्तोऽनुकम्पितः शेवलिक इति यथा स्यात्, शेवयिक इति मा भूत् ॥ केचित्तु विशाखिल कुमारिल इत्यत्रापीच्छन्ति ॥ "कचित्तुर्यात्' (७।३।४४) यथालक्ष्यम् , अनुकम्पितो बृहस्पतिदत्तः बृहस्पतिशर्मा वा बृहस्पतियः ३ । एवं प्रजापतियः ३ । अकृतसन्धेरेव लुगिति प्रजापत्याशीर्दत्तोऽनुकम्पितः प्रजापतिक इत्येव स्यान्न तु प्रजापत्यिक इति । कचिद्हणादिह न स्यात्-अनुकम्पित उपेन्द्रदत्तः उपडः उपकः २० उपियः ॥ “पूर्वपदस्य वा” (७।३।४५) अनुकम्पाविहिते स्वरादौ प्रत्यये पूर्वपदस्य लुग्वा स्यात् । अनुकम्पितो देवदत्तः दत्तियः ३ । वावचनाद्यथाप्राप्तं देवियः ३ । “द्वितीयात्स्वरादूर्द्धम्” (७३।४१) इति लुक् ।। "हखे” (७।३।४६) दीर्घप्रतियोगि ह्रस्वम्, हस्खेऽर्थे वर्तमानाच्छब्दरूपाद्यथायोगं कबादयः स्युः । ह्रस्वः पटः पटकः । हस्खं पचति पचतिकः । ह्रस्वकालयोगाक्रिया हवेत्युच्यते । हवाः सर्वे सर्वके । विश्वके, उच्चकैः, नीचकैः, तूष्णीकाम् । संज्ञायामपि ह्रखत्वयोगात् कप् , स ह्रस्व इत्ये-२५ व सिद्धः । वंशकः, वेणुकः, नरकः, ललकः, वरकः ॥ "कुटीशुण्डाद्रः” (७३।४७) हवे । कपोऽपवादः । हस्खा कुटी कुटीरः, शुण्डारः । केचित्तु कुटीस्थाने कुदी पठन्ति कुदीरः ॥ "शम्या रुरौ” (७३।४८) तथा । हस्खा शमी शमीरुः शमीरः ॥ "कुत्वा डुपः” (७।३।४९) कुतूशब्दाद्भस्वे डुपः स्यात् । ह्रखा कुतूः कुतुपः । कुतूश्चर्ममयं स्नेहपात्रं "कुतुपस्तु तदल्पकम्” इति कोषः॥ "कासूगोणीभ्यां तरट्" (७।३।५० ) उक्तार्थे स्यात् । हस्खा कासूः कासूतरी, गोणीतरी ।३० पुंल्लिङ्गमपि दृश्यते-कासूतरः गोणीतरः । कासूः शक्तिर्नामायुधम् । गोणी धान्यावपनम् ॥ "वत्सोक्षाश्वर्षभाद् हासे पित्" (७३५१) शब्दप्रवृत्तिनिमित्तस्य स्वार्थस्य हासे गम्ये एभ्यश्चतुर्यस्तरट् स्यात्, स च पित् । ह्रसितो वत्सो वत्सतरः । वत्सः प्रथमवयस्को गौस्तस्य ह्रासो द्वितीयवयःप्राप्तिः । हसित उक्षा उक्षतरः, उक्षा द्वितीयवयास्तरुणस्तस्य ह्रासस्तृतीयवयःप्राप्तिः । ह्रसितोऽ-३४
१ लोहादिकं हस्खं च महच सम्भवतीति महत्प्रतियोगीति 'अल्पे' इति न सिध्यति । २ ये हि संज्ञायां कप्प्रत्ययं विदधति तेऽपि हस्खयोपाधिकायां संज्ञायामिति व्याख्यानयन्तीति संज्ञायामप्यनेनैव कप सिद्ध इत्यर्थः ।
है. प्रका• पूर्वा० ५९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org