________________
४६६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुश्वोऽश्वतरः, अश्वेनाश्वायां जातोऽश्वस्तस्य ह्रासो गर्दभपितृकता । आशुगमनाद्वाश्वस्तस्य ह्रासो गमने मन्दता । सर्वथाऽश्वतरशब्दो जातिशब्दः । ह्रसित ऋषभ ऋषभतरः, ऋषभोऽनड्वान् बलीयान् तस्य ह्रासो भारवहने मन्दशक्तिता । प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तस्य हासे भवति, इह मा भूत-कृशो वत्सो वत्सतर इति । पित्करणं पुंवद्भावार्थम् , ह्रसिता वत्सा वत्सतरी ॥ "यावादिभ्यः कः" ५(७।३।१५)। स्वार्थे । याव एव यावकः । याव मणि अवि अस्थि लान पात्र पीत स्तब्ध ज्ञात १० पुण्य नित्य सत्वत् दशार्ह वयस् चन्द्र जानु भूत भिक्षु ॥ १९ ॥ इति यावादय एकोनविंशति बहुवचनादाकृतिगणः, तेनाभिन्नतरकं बहुतरकमित्यादि सिद्धम् ॥ "कुमारीकीडनेयसो" (७।३।१६) । कुमारीणां यानि क्रीडनानि तद्वाचिभ्य ईयसुप्रत्ययान्तेभ्यश्च स्वार्थे कः स्यात् । कन्दुरेव
कन्दुकः, उत्कण्टकः । श्रेयानेव श्रेयस्कः ज्यायस्कः ॥ "लोहितान्मणौ” (७।३।१७) । कः । १० लोहित एव लोहितको मणिः । लिङ्गविशिष्टस्यापि ग्रहणात् लोहिन्येव लोहिनिका मणिः । लोहितैव
लोहितिका मणिः । मणेविशेषणमेतदित्येके । नामधेयमित्यन्ये । वाधिकारान्न भवत्यपि-लोहितो मणिः । मणाविति किम् ? लोहिता गौः ॥ "रक्तानित्यवर्णयोः" (७।३।१८)। लाक्षादिना रक्ते अनिये च वर्ण वर्तमानालोहितशब्दात्कः स्यात् । रक्ते-लोहित एव लोहितकः पटः । लिङ्गविशिष्टस्यापि ग्रहणात् लोहिनिका लोहितिका शाटी । अनित्यवणे. लोहितकमक्षि कोपेन, लोहिनिका २ कन्या कोपेन । वाधि१५ कारान्न भवत्यपि-लोहिता लोहिनी वा कन्या कोपेन । नित्योऽपि रक्तो वर्णोऽस्ति यथा कृमिरागादिरक्ते पट इति रक्तग्रहणम् । अनित्यग्रहणं किम् ? लोहितः, इन्द्रगोपकः । सत्येवाश्रयद्रव्ये योऽपयाति स इहानित्य उच्यते; अन्यथा रक्तग्रहणस्याऽनर्थक्यात् । वर्णग्रहणं द्रव्यनिवृत्त्यर्थम् । असति वर्णग्रहणे स्त्रीणामार्त्तवे द्रव्ये स्यात् । तद्धि सत्येवाश्रये स्त्रियां कदाचिन्न भवति [लोहितशब्दवाच्यं च ] ॥
"कालात्" (७।३।१९) । उक्तार्थयोः कः । कजलादिना रक्तः काल एव कालकः पटः । अनित्य२० वर्णे. कालकं मुखं वैलक्ष्येण । वाधिकारान्न भवत्यपि-कालः पटः, कालं मुखम् ॥ "शीतोष्णाहतौ” (७।३।२०)। कः । शीत एव शीतकः; उष्णक ऋतुः । ऋताविति किम् ? शीतो वायुः ।। "लूनवियातात्पशौ” (७।३।२१) । कः । लून एव लूनको वियातको धृष्टः पशुः । पशाविति किम् ? लूनो यवः, वियातो बटुः । विहानशब्दादपीच्छन्त्येके-विहानकः पशुः, विहान एवान्यत्र ॥
"लाताद्वेदसमाप्तौ” (७।३।२२)। कः । वेदं समाप्य स्नातः स्नातको द्विजः, अन्यत्र तीर्थे २५सातः ॥ "तनुपुत्राणुबृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्ते" ( ७।३।२३)। एभ्यः पञ्चभ्य एषु पञ्चस्वर्थेषु वर्तमानेभ्यः स्वार्थे कः स्यात् । तनुकं सूत्रम् , भङ्गादिमयं कल्पादि च । कृत्रिमः पुत्रः पुत्रकः काष्ठादिमयः । निपुणो निष्णातोऽणुः अणुकः । बृहतिका आच्छादनविशेषः, प्रत्ययमन्तरेणार्थानवगमाग्नित्य एवायं विधिः । धनप्रज्ञादिना शून्य एव शून्यको रिक्तश्चेत् , अन्यत्र शुने हितं शुन्यम् । अन्ये तु सूत्रादयोऽर्थाः प्रत्ययं विना न प्रतीयन्ते इति तद्विषये तन्वादिभ्यो नित्य ३० एव प्रत्ययविधिरिति मन्यन्ते । एवं पूर्वसूत्रेऽपि ॥ "भागेऽष्टमाञः (७।३।२४) । अष्टम एव
आष्टमो भागः, अन्यत्र अष्टम एव ॥ “षष्ठात्” (७।३।२५) तथा । षष्ठ एव षाष्ठो भागः । अन्यत्र षष्ठ एव ॥ "माने कश्च" (७।३।२६)। मीयते येन तन्मानम् , तस्मिन् माने भागे वर्तमानात् षष्ठशब्दात्कश्चकारात् अश्व प्रत्ययः स्यात्, वा । षष्ठ एव षष्ठकः पाष्ठो भागः, मानं चेत् । मान ३४ इति किम् ? पाष्ठो भागोऽन्यः ॥ "एका०” (७३।२७) । असहायार्थवाचिन एकशब्दादाकिन् ,
१ इन्द्रगोपकाभावे लोहितत्वनिवृत्तावपि नानित्यवमपि । २ आच्छादनरूपस्यार्थस्यानवगमात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org