________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । असहायार्थाद्याः
४६७ चकारात् कश्च स्यात् । एक एव एकाकी एककः । असहाय इति किम् ? एके आचार्याः । एको द्वौ बहवः॥ १२९ ॥
त्यादिसर्वादेः खरेष्वन्त्यात्पूर्वोऽक् ॥ १३०॥ [सि० ७।३।२९ ] त्याद्यन्तात्सर्यादेश्वान्त्यखरात्पूर्वोऽक् स्यात् , कुत्सितादिषु । पचतकि, सर्वके इति ॥ १३०॥
"त्यादि." अन्त्यस्वरादिति, अयमर्थः-त्याद्यन्तस्य सर्वादीनां च खरेषु स्वराणां मध्ये योऽन्त्यः ५ स्वरः तस्मात्पूर्वोऽक् स्यात् । "प्रागनित्यात्कपो"( ७।३।३८)ऽपवादोऽयमक् । कुत्सितमल्पज्ञातं वा पचति पचतकि । एवं पचतकः पचन्तकि;। कुत्सिताल्पाज्ञाताः सर्वे सर्वके, एवं विश्वके । सर्वकस्मै । यकत्पिता । तकत्पिता । त्वकत्पिता । मकत्पिता ॥ परमसर्वके. तदन्तस्यापि सर्वादित्वात् ॥ स्वरेष्वन्त्यादिति किम् ? त्याद्यन्तात्सर्वादेश्व पूर्व मा भूत् । पूर्व इति किम् ? परो मा भूत् ॥ १३० ॥
युष्मदस्मदोऽसोभादिस्यादेः ॥ १३१ ॥ [सि० ७॥३॥३०] १० सकारादि-ओकारादि-भकारादिवर्जितस्याद्यन्तयोर्युष्मदसदोरन्त्यस्वरादेः पूर्वोऽक् स्यात् । त्वयका मयका । सकारादिवर्जनात्-युष्मकासु असकासु, युवकयोः आवकयोः, युवकाभ्याम् आवकाभ्याम् ॥ १३१॥
"युष्म०" सकारादीत्यादि, युष्मदस्मदोः स्वरेष्वन्त्यात्पूर्वस्यापवादः । त्वयका मयकेति-एवं त्वयकि मयकि, युष्माककं अस्माककम् , परमत्वयका परममयका । युष्मदस्मद इति किम् ? तकया, १५ यकया, सर्वकेण, इमकेन, भवकन्तौ, भवकन्तः । केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यान्त्यस्वरात् पूर्वमकमिच्छन्ति; तन्मते भवतका भवतके भवतकीत्यपि भवति । सकारादिवर्जनादिति, सकारादि-ओकारादि-भकारादि-स्याद्यन्तयोस्तु युष्मदस्मदोरेवान्त्यस्वरात्पूर्वोऽक् स्यादित्यर्थः । युष्मकास्विति-एवमस्मकासु, युवकयोः आवकयोः, युवकाभ्यामावकाभ्याम् , युष्मकाभिः अस्मकाभिः ॥ १३१ ॥
अव्ययस्य कोद् च ॥ १३२॥[सि० ७।३।३१] अस्यान्त्यवरात्पूर्वोऽक्, तद्योगे कोद् च । कुत्सितायुच्चैरुच्चकैः । धिक् धकिन् । “वैकादद्वयोर्निर्धायें डतरः” (७३५२)। एकतर एकको वा भवतोः कठः पटुः ॥ १३२॥
"अव्य.” अस्येति-प्राङ्नित्याद्येऽर्थास्तेषु द्योत्येष्वव्ययस्यान्त्यखरात्पूर्वमक् स्यात्तत्सन्नियोगे यत्ककारान्तमव्ययं तस्य दकारोऽन्तादेशो भवति । कपोऽपवादः । कुत्सितादीति, कुत्सितमल्पमज्ञातं वोच्चैः उच्चकैः । एवं नीचैस् नीचकैः । धिक् धकिदिति । एवं हिरुक् हिरकुद् । पृथक् पृथकद् । चकारोऽन्वा-२५ चये, तेन सर्वस्याव्ययस्याक् भवति । ककारान्तस्य त्वक् दोऽन्तादेशश्च । योगविभागस्त्यादेर्दादेशाभायार्थः । 'शकुंट शक्तौ' यङ्लुप् दिव् , अशाशक्; अकि अशाशकक् ।। आदिशब्दात् "तूष्णीकाम्" (७।३।३२) । तूष्णीमोऽव्ययस्य मकारात्पूर्व का इत्यागमो निपात्यते प्राङ् नित्यात् । अकोऽपवादः । कुत्सितमल्पमज्ञातं वा तूष्णीं तूष्णीकामास्ते । “वैका." । समुदायादेकदेशो जातिगुणक्रियासंज्ञाद्रव्यैर्निष्कृष्य बुद्ध्या पृथक्रियमाणो निर्धायः । द्वयोर्मध्ये निर्झर्येऽर्थे वर्तमानादेकशब्दात् डतरो३० वा स्यात् । कठः पटुरिति-एवं गन्ता देवदत्तो दण्डीति क्रमेण जातिगुणक्रियासंज्ञाद्रव्यैर्बुद्ध्या पृथक्रियमाणोदाहरणानि । वावचनमगर्थम् , तथा च उदाहृतम् ; एकक इति-महावाधिकारान्न भवत्यपि । एको भवतोः कठः पटुरिति । द्वयोरिति किम् ? एकोऽस्मिन् प्रामे प्रधानम् । निर्झर्य इति किम् ? एकोऽनयोमियोः स्वामी ॥ १३२ ॥
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org