________________
४६८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
यत्तकिमन्यात् ॥ १३३ ॥ [ सि० ७।३५३] एभ्यो द्वयोरेकसिनिर्धार्ये डतरः स्यात् । यतरो भवतोः कठादिस्ततर आगच्छेत् ॥ १३३॥ __ "यत्त.” महावाधिकारात्प्रत्ययो न भवत्यपि-यो भवतोः पटुः स आगच्छतु । द्वयोरित्येव-योऽस्मिन्प्रामे प्रधानं स आगच्छतु । निर्झर्य इत्येव-योऽनयोामयोः स्वामी स आगच्छतु ॥ १३३ ॥
बहुना प्रश्ने डतमश्च वा ॥ १३४॥[सि०७४३१५४] यदादिभ्यो बहूनां मध्ये निर्धार्यार्थेभ्यः प्रश्ने डतमो डतरश्च वा स्यात् । यतमो यतरो वा भवतां कठादिस्ततमस्ततरो वा यातु । एवं कतमः कतरः । अन्यतमः अन्यतरः । पक्षे यको यो वेत्यादि ॥ “वैकात्” (७३।५५) । तमप्तथा-एकतमः एककः एको वां भवतां कठादिः ।
"प्रायोऽतोद्वयसमात्रट्” (७।२।१५५)। स्वार्थे-यावदेव यावद्वयसम् । यावन्मात्रम् ॥१३४॥ १० "बहू०" । कतम इति, प्रमाणान्तरात्प्रतिपत्तौ बहूनामप्रयोगेऽपि भवति-यथा बहुष्वासीनेषु कश्वि
कश्चित् पृच्छति कतमो देवदत्तः ? अन्यतम इति । "शुचिवल्कवीतवपुरन्यतमस्तिमिरच्छिदामिव गिरौ भवत ।” इति किरातार्जुनीये । वृद्धस्तु व्याधितो वा राजा मातृबन्धुकुल्यगुणवत्सामन्तानामन्यतमेन क्षेत्रे बीजमुत्पादयेत् । वावचनमगर्थम् , तथैवाह-पक्षे यको यो वेत्यादि । अत्रादिशब्दात् यको
भवतां कठादिः सक आगच्छतु । अन्यक एषां कालापः । किमस्तु साकः कादेश उक्तः । महावाधिका१५रात्प्रत्ययो न भवत्यपि-यो भवतां कठादिः स आगच्छतु । बहूनामिति किम् ? योऽस्मिन् ग्रामे कठः स
आगच्छतु । प्रश्न इति किम् ? क्षेपे मा भूत्-को भवतां कठादिः, कुत्सित इत्यर्थः । प्रश्नग्रहणं किमो विशेषणम् , नान्यस्य, असम्भवात् । अन्ये त्वाहुः-यत्तत्किंभ्यो जातावेव डतमः, डतरस्तु बहूनां निर्भार्ये किम एव, न यत्तद्भयाम् , स च जातावेव; अन्यशब्दादपि बहुविषये डतम एव न तु डतरः, डतर
डतमौ च निर्झर्येऽन्यशब्दात् नित्यावेव नाक्, नापि केवलस्य प्रयोगः । एके त्वविशेषणेत्यत्राभिधानम२० नुसतव्यम् । “वैका०" डतमस्तथेति-एकशब्दादहूनामेकस्मिन्निर्झर्येऽर्थे वर्तमानात् डतमो वा स्यात्। एकतमो भवतां कठादिरिति, कठः पटुर्गन्ता देवदत्तो दण्डी । वावचनादक्-एककः । महावाधिकारान भवत्यपि-एको भवतां कठः । पृथग्योगो डतरनिवृत्त्यर्थः ॥ आदिशब्दसंसर्गात् "क्तात्तमबादेश्चानत्यन्ते" (७।३।५६) । क्तान्तात्केवलात्तमबाद्यन्ताच्चानत्यन्तेऽर्थे वर्तमानात्कप् स्यात् । क्रियायाः
खेनाश्रयेण साकल्येनानभिसंबन्धोऽनत्यन्तता । अनत्यन्तं भिन्न भिन्नकम् , छिन्नकम् , भिन्निका घटी, २५ छिन्निका रजुः, समबाद्यन्तात् क्तात्, अनत्यन्तं भिन्नतमं भिन्नतमकम् , एवं भिमतरकम्, भिन्न
कल्पकम् , तमबायन्तेषु क्तान्तता नास्तीति तमवादिग्रहणम् । असमासस्तमबादेरित्यत्रापि क्तादित्यस्य सम्बन्धार्थस्तेनेह न भवति-अनत्यन्तं शुक्लं शुक्लतमम् ॥ "न सामिवचने" (७।३।५७) । सामि अर्द्धः । सामिवचने उपपदे अनत्यन्तेऽर्थे वर्तमानात् क्तान्तात् केवलात्तमबाद्यन्ताच कप् न स्यात् । सामि अनत्यन्तं भिन्नम् । एवं कृतं भुक्तं पीतं भिन्नतमं भिन्नतरम् । वचनग्रहणं पर्यायार्थम्, ३० अर्द्धमनत्यन्तं भिन्नम् , एवं नेमं शकलमित्यादि । अन्ये तु समास एवोदाहरन्ति-सामिकृतं अर्द्धकृतमिति । ननु साम्यादिभिरेवानत्यन्तताया अभिहितत्वादुक्तार्थत्वेन कप न प्राप्नोतीति व्यर्थः प्रतिषेधः । उच्यते । साम्यादिभिः समुच्चयविषयक्रियाया एवानत्यन्तता प्रतीयते न स्वविषये, तत्रानत्यन्तविव
क्षायां कम् प्राप्नोतीति प्रतिषेधवचनम् ॥ "नित्यं अजिनोऽ(७।३।५८) । अभिन इत्येत्प्रत्यया२४न्तात् स्वार्थे नित्यमण् स्यात् । नित्यग्रहणान्महाविभाषा निवृत्ता । व्यावक्रोशी व्यावलेखी व्यावहासी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org