________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । स्वार्थाः
४६९
वर्त्तते । मिन्. साकौटिनं सांराविणम् । साम्मार्जिनम् । “विसारिणो मत्स्ये" (७३।५९)। स्वार्थेऽण् । विसरतीति विसारी-ग्रहादित्वात् णिन् मत्स्यश्चेत् , वैसारिणः । मत्स्य इति किम् , विसारी देवदत्तः ॥ “पूगादमुख्यकाञ्यो द्रिः” (७।३।६०)। नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तद्वाचिनः स्वार्थे न्यः स्यात्, स च द्रिसंज्ञः; न चेत्पूगवाचिनाम “सोऽस्य मुख्य" (७१।१९०) इति विहितं कप्प्रत्ययान्तं भवति-लोहध्वजाः पूगाः । लौहध्वज्यः लौहध्वज्यौ लोह-५ ध्वजाः । शैब्यः शैब्यौ शिबयः । वातक्यः वातक्यौ वातकाः। द्रित्वात् "बहुध्वस्त्रियाम्" (६।१।१२४) लुप्। अमुख्यकादिति किम् ? देवदत्तो मुख्योऽस्य देवदत्तकः पूगः॥"वातादस्त्रियाम्” (७।३।६१)। नानाजातीया अनियतवृत्तयः शरीरायासजीविनः सङ्घा प्राताः । ब्रातजीविनोऽस्त्रियां वर्तमानात् स्वार्थे भ्यः स्यात्, स च द्रिः । कापोतपाक्यः कापोतपाक्यौ कपोतपाकाः । अलियामिति किम् ? कपोतपाका व्रीहिमता स्त्री ॥ "शस्त्रजीविसङ्घायड् वा” (७३।६२) । शस्त्रजीविनां यः सङ्घस्तद्वाचिनः १० खाथें न्यड् वा स्यात्, स च द्रिः । शबराः शस्त्रजीविसङ्घः, शाबर्यः शाबरों शबराः । पौलिन्द्यः पौलिन्छौ पुलिन्दाः । कुन्तेरपत्यं बहवो माणवकाः कुन्तयः, ते शस्त्रजीविसङ्घः, कौन्त्यः कौन्त्यौ कुन्तयः। पक्षे शबरः पुलिन्दः । शत्रजीविग्रहणं किम् ? मल्लाः सङ्घः । मल्लः मल्लौ मल्लाः । सङ्घादिति किम् ? सम्राट् । वागुरः वागुरौ वागुराः । नैते श्रेणिबद्धा इति न सङ्घः । टकारो ड्यर्थः-शाबरी पौलिन्दी कौन्ती ॥ "वाहीकेष्वब्राह्मणराजन्येभ्यः" (७३।६३)। वाहीकेषु यः शखजीविसङ्घो ब्राह्म-१५ णराजन्यवर्जितस्तद्वाचिनः स्वार्थे नित्यं न्यट् स्यात् , स च द्रिः । कुण्डीविशाः शस्त्रजीविसङ्घः, कौण्डीविश्यः कौण्डीविश्यौ कुण्डीविशाः । क्षौद्रक्यः क्षौद्रक्यौ क्षुद्रकाः। मालव्यः मालव्यो मालवाः । वाहीकेध्विति किम् ? शबरः शबरौ, पुलिन्दः पुलिन्दौ । अब्राह्मणराजन्येभ्य इति किम् ? गौपालिः गौपाली; शालकायनः शालकायनौ, राजन्यः राजन्यौ, काम्बव्यः काम्बव्यौ । स्त्रियां राजन्या काम्बव्या । व्यटि तु डीः स्यात् । ब्राह्मणप्रतिषेधे ब्राह्मणविशेषप्रतिषेधः, नहि ब्राह्मणशब्दवाच्यो वाहीकेषु शस्त्रजीविस-२० सोऽस्ति । राजन्ये तु स्वरूपस्य विशेषस्य च प्रतिषेधः तदर्थमेव बहुवचनम् ॥ "वृकाण्य" (७।३।६४) । अस्माच्छखजीविसादयं स्यात् स्वार्थे, स च द्रिः । वार्केण्यः वार्केण्यौ वृकाः । टकारो ज्यर्थ:-वार्केणी स्त्री । शस्त्रजीविसङ्घादित्येव-कामक्रोधौ मनुष्याणां खादितारौ वृकाविव । वाहीकत्वे नित्यं अवाहीकत्वे तु विकल्पेन ब्यटि प्राप्ते वचनम् । एवमुत्तरसूत्रत्रयमपि ॥ "यौधेयादेरम्" (७३।६५)। एभ्यः शस्त्रजीविसङ्घवाचिभ्योऽब् स्यात् , स च द्रिः। युधाया अपत्यं बहवः कुमारास्ते २५ शस्त्रजीविसङ्घः, यौधेयः यौधेयौ यौधेयाः । एवं शौभ्रेयः शौक्रेयः धार्तेयः ज्यावनेयः । अब्वचनं "सघोषाङ्कलक्षणेऽध्यबिम" ( ६।३।१७२) इत्यणर्थम् , तेन यौधेयस्य सङ्घादियौधेय इति भवति । ननु यौधेयादयः सङ्घवचनाः कथं गोत्रं भवन्ति । उच्यते । भर्गाद्यन्तर्गणो यौधेयादिस्तत्र येऽपत्यप्रत्ययान्तास्ते गोत्रं भवन्ति औपगवादिवत् । अपत्यं हि गोत्रमपत्यप्रत्ययान्ताच स्वार्थिकोऽप्यपत्यग्रहणेन गृह्यते । अत्र चेदमेवाभवचनं लिङ्गम् ॥ "पोदेरण" (७।३।६६ ) । प्राग्वत् । पर्शोरपत्यं बहवो ३० माणवकाः पर्शवः-द्विस्वरत्वादण् लुप् , ते शस्त्रजीविसङ्घः; पार्शवः पार्शवौ पर्शवः । राक्षसः राक्षसौ रक्षांसि । स्त्रियां तु "द्रेरमणोऽप्राच्यभर्गादेः” ( ६।१।१२३) इति लुप् पधुः । अणो लुपि "उतो प्राणिन०” (२।४७३) इत्यूङ् । पशु रक्षस् असुर वह्निक वयस् मरुत् सत्त्वन् सत्त्वन्तु, दशाई, पिशाच, अशनि, कार्षापण इति पादयो द्वादश ॥ १२ ॥ "दामन्यादेरीयः” (७।३।६७)। प्राग्वत् । दमनस्यापत्यं बहवः कुमारास्ते शस्त्रजीविसङ्घः, दामनीयः दामनीयौ दामनयः । औलपीयः औलपीयौ औलपयः । दामनि औलपि औपलि वैजवापि औदकि आच्युतन्ति काकन्दि काकन्दकि ३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org