________________
४७०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुककुन्दि काकुन्दकि ॥ १० ॥ शत्रुन्तपि सार्वसेनि बिन्दु तुलभा मौञ्जायन औदमेघि औपबिन्दि सावित्रीपुत्र ( कौण्ठोपरथ कौण्डोपरथ ?) कौण्ठारथ ॥२०॥ दाण्डकि क्रौष्टकि जालमानि जारमाणि ब्रह्मगुप्त ब्राह्मगुप्त जानकि इति दामन्यादयः सप्तदश ॥ "श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभिजितो गोत्रेऽणो य” (७।३।६८) । शखजीविसङ्घादिति निवृत्तम् । एभ्यः ५सप्तभ्यो गोत्रेभ्यो गोत्रे योऽण् , तदन्तेभ्यः स्वार्थे यञ् स्यात् , स च द्रिः । श्रुमतोऽपत्यमग् तदन्ताद्यञ्-श्रीमत्यः श्रीमत्यौ औमताः । श्रीमच्छब्दादपि केचिदिच्छन्ति-मत्यः अमत्यौ त्रैमताः । शामीवत्यः २ शामीवताः । शैखावत्यः २ शैखावताः । शालावत्यः २ शालावताः । और्णावत्यः २ और्णावताः । वैदभृत्यः २ वैदभृताः । आभिजित्यः २ आभिजिताः । गोत्रग्रहणं किम् ? श्रुमत इदं श्रीमतम् ।
आभिजितो मुहूर्तः । अपत्यप्रत्ययान्तात्स्वार्थिकोऽपत्य एव वर्तते इति तदाश्रयः प्रत्ययो भवति । १० नौमत्यस्यापत्यं युवा श्रीमत्यायनः; अत्र “यमित्रः" (६।१।५४ ) इत्यायनण् । श्रीमत्यस्यायं श्रीमतकः
"गोत्राददण्ड ०" (६।३।१६९) इत्यादिनाकम् । श्रीमतानां समूहः श्रीमतकम्-गोत्रोक्ष.” (६।२।१२) इत्यादिनाकन् । श्रीमत्यस्य सङ्घादि श्रीमतम्-अत्र "सङ्घघोषाङ्कलक्षणेऽब्यबिनः" (६।३।१७२) इत्यण् । “प्रायो" (७।२।१५५)। अतुप्रत्ययान्तात् स्वार्थे एतौ स्याताम् । यावन्मात्रमिति एवं तावहयसम् , तावन्मात्रम्, एतावहयसम्, एतावन्मात्रम्, क्रिययसम्, कियन्मात्रम् । प्रायोग्रहणं १५प्रयोगानुसरणार्थम् ॥ १३४ ॥
तीयाट्टीकण न विद्या चेत् ॥ १३५ ॥ [सि० ७।२।१५३] तीयान्तात् खार्थे टीकण् वा स्यात् । द्वैतीयीक तार्तीयीकी । विद्या तु द्वितीया ॥ "वर्णाsव्ययात्स्वरूपे कारः” (७१२।१५६)। ककारः ॥ "रादेफः” (७२।१५७)। रेफः॥
“नामरूपभागाद्धेयः" (७१२।१५८) नामधेयम् ॥ “देवात्तल” (७।२।१६२)। देवता ॥ २० "भेषजादिभ्यष्ट्यण” (७।२।१६४)। भैषज्यम् ॥ “प्रज्ञादिभ्योऽ” (७।२।१६५) प्राज्ञः
वाणिजः ॥ "वाच इकण्" (७।२।१६८)। सन्दिष्टे । वाचिकम् । “उपायावश्च" (७।२।१७०) *उपायादिकण्, हवश्चास्य । औपयिकम् । “विनयादिभ्यः” (७।२।१६९)। इकण वा भवति । वैनयिकम् । इति तद्धितदिग्मात्रम् ॥ १३५॥ ॥ इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलधुप्रक्रियायां
प्रथमवृत्तिः समाप्ता॥ ॥ हैमलघुप्रक्रियाव्याकरणे पूर्वार्द्ध समाप्तम् ॥ "तीया०" । द्वितीयमेव द्वैतीयीकं कुलम् । तृतीयैव तार्तीयीकी शाटी । एवं द्वैतीयीकः पुमान् । तीयान्तस्य यदि विद्याभिधेया भवति तदायं न स्यात् , तथा चाह-विद्या तु द्वितीयेति । टकारो ड्यर्थः । णकारो वृद्ध्यर्थः । मुखतीयः पार्श्वतीय इत्यादौ तीयस्यानर्थकत्वान्न स्यादिति ।। आदिशब्दात् ३०"निष्फले तिलात्पिञ्जपेजौ” (७।३।१५४) । निष्फलस्तिलस्तिलपिञ्जः तिलपेजः । “वर्णा"
वर्णेभ्योऽव्ययेभ्यश्च स्वरूपार्थवृत्तिभ्यः स्वार्थे कारः प्रत्ययो भवति । अकारः इकारः ककारः खकारः। ककारादिष्वकार उच्चारणार्थः । अव्यय. कारः स्वाहाकारः स्वधाकारः वषट्कारः हन्तकारः नमस्कारः चकारः इतिकारः हुङ्कारः फुत्कारः पूत्कारः सीत्कारः सूत्कारः । ननु यथा हुऋतिः शत्कृतिः ३४सुत्कृतं सीत्कृतमिति भवन्ति, तथा कारशब्देन घबन्तेन समासे ओकारादयो भविष्यन्ति । सत्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org