________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । स्वार्थाः
४७१
किंतु ओङ्कारमुच्चारयति वषट्कारमभिधत्ते हुङ्कारं करोतीत्यादि न सिद्ध्यति । स्वरूप इति किम् ? अः विष्णुः, इः कामः कः ब्रह्मा, खं आकाशम्, ब्रह्म; वषडिन्द्राय स्वाहा अग्नये स्वधा पितृभ्यः, इत्यर्थपरतायां न भवति । प्रायोऽनुवृत्तेरन्यत्रापि भवति-मन एव मनस्कारः, अहमेवाहङ्कारः । " ०" र - शब्दात् स्वरूपे स्वार्थे एफः, प्रायो वचनाद्रकार इत्यपि ॥ आदिशब्दात् " मर्त्तादिभ्यो यः” (७।२।१५९) । स्वार्थे । मर्त्त एव मर्त्यः | सूर एव सूर्यः । एवं क्षेम्यः, यविष्यः, भाग्यम् अपराध्यम् ५ रत्र्यम् लव्यम् | मर्त्तादयः प्रयोगगम्याः || "नवादीनतननं च नू चास्य" ( ७|२| १६० ) । नवशब्दात् स्वार्थे ईन-तन-त्नाः चकाराद्यश्च प्रत्यया वा स्युस्तत्सन्नियोगे च नवशब्दस्य नू इत्यादेशः स्यात् । नवमेव नवीनं नूतनं नूनं नव्यम् || "प्रात्पुराणे नश्च” (७।२।१६१) । प्रशब्दात्पु वर्त्तमानात् स्वार्थे नः स्यात् चकारादीन-तन-नाश्च । प्रगतं कालेनेति प्रशब्देन पुराणमुच्यते । प्रणं प्रीणं प्रतनं प्रत्नम् ॥ " नाम०" नामन् रूप-भाग इत्येतेभ्यः स्वार्थे धेयः स्यात् - नामैव नामधेयम्, रूपमेव १० रूपधेयम्, भाग एव भागधेयम् || "देवात्तल्” (७/२/१६२) । स्वार्थे । देव एव देवता, लित्करणं रुयर्थम् ॥ "भेष०" भेषजमेव भैषज्यम् । अनन्त एव आनन्त्यम् । आवसथ एव आवसध्यम् । इतिह एव ऐतिह्यम्, इतिहेति निपातसमुदाय उपदेशपारम्पर्ये वर्त्तते । चत्वार एव वर्णाश्चातुर्वर्ण्यम्, चातुराश्रम्यम् । चत्वारो वेदाश्चतस्रो विद्या वा चातुर्वैद्यम्, एवं त्रैवैद्यम् । अनुशतिकादित्वादुभयपदवृद्धिःत्रैलोक्यं ऐकभाव्यं द्वैभाव्यं त्रैभाव्यं आन्यभाव्यं सार्ववैद्यं षाड्गुण्यं सार्वलौक्यम् । शीलमेव शैलीय - १५ माचार्यस्य । भैषज्यानन्त्यावसथ्यैतिह्यशब्दा यदि स्त्रियां स्युस्तदाजादिषु द्रष्टव्याः । भैषजादयः शिष्टप्रयोगगम्याः ॥ “प्रज्ञा०" । प्रज्ञ इत्यादिभ्यः स्वार्थेऽण् स्यात् । प्रजानातीति प्रज्ञः, प्रज्ञ एव प्राज्ञः । प्राज्ञी कन्या । प्रज्ञास्या अस्तीति णे प्राज्ञा कन्या । वणिगेव वाणिजः । प्रज्ञ वणिज् उशिज् प्रत्यक्ष विद्वसू विदत् विदन्त द्विद्वत् षोडत् विद्या मनस् ॥ १० ॥ जुह्वत् चिकीर्षत् ( चिकीर्षति ? ) वसु मरुत् (वसुमत् ?) सत्त्वस् सत्त्वंतु (सम्वतु ?) सर्व दशार्ह कुब्ज वयस् || २० || रक्षस् असुर शत्रु चोर योध चक्षुस् २० पिशाच अशनि कर्षापण देवता ॥ ३० ॥ बन्धु अनुजा वर अनुषुक् चतुष्प्रास्य रक्षोघ्न वियात विकृत विकृति व्याकृत वरिवस्कृत ॥ ४० ॥ अमायण अग्रहायण संपतन मधुप द्विता चण्डाल गायत्री उष्ण अनुष्टुभ् बृहती पति ॥ ५० ॥ त्रिष्टुभ् जगती ॥ ५२ ॥ इति प्रज्ञादयो द्विपञ्चाशत् ॥ बहुवचनादाकृतिगणः - तेनानी आग्नीधा वा शाला । साधारणी साधारणा वा भूमिरित्यादि सिद्धम् ॥ आदिशब्दात् "श्रोत्रौषधि कृष्णाच्छरीर भेषजमृगे" ( ७।२।१६६ ) | श्रोत्रादिभ्यस्त्रिभ्यः शरीरादिष्वर्थेषु २५ वर्त्तमानेभ्यः स्वार्थेऽण् वा स्यात् । श्रोत्राच्छरीरे-श्रोत्रमेव श्रौत्रं शरीरम्, श्रोत्रमन्यत् । ओषधेर्भेषजे ओषधिरेव औषधं भेषजम्, ओषधिरेवान्या । कृष्णान्मृगे. कृष्ण एव काष्र्णो मृगः कृष्ण एवान्यः ॥ "कर्मणः सन्दिष्टे” ( ७।२।१६७ ) अन्येनान्योऽन्यस्मै यदाह त्वयेदं कर्त्तव्यमिति तत्सन्दिष्टं कर्म, कर्मैव कार्मणं करोति, सन्दिष्टं कर्म करोतीत्यर्थः । वशीकरणमपि वृद्धपरम्परोपदेशात् क्रियते इति कार्मणमुच्यते । सन्दिष्ट इति किम् ? कर्म करोति । सत्यपि महावाधिकारे विशिष्टोऽर्थः प्रत्ययम - ३० न्तरेण न प्रतीयत इत्यस्मिन्विषये नित्य एव प्रत्ययः ॥ "वाच०" । सन्दिष्टे इति - अन्येनान्योऽन्यस्मै यामाहा सन्दिष्टा वाकू, वागेव वाचिकम् । अत्रापि पूर्ववन्नित्यो विधिः । " उपा०" । अस्मादिकण् तत्सन्नियोगे चास्य ह्रस्वः । उपाय एव औपयिकम् ॥ " विनया०" | स्वार्थे । विनय एव वैनयिकम् । विनय समय समाय कथञ्चित् अकस्मात् उपचार व्यवहार समाचार सम्प्रदान समुत्कर्ष ॥ १० ॥ सङ्गति सङ्ग्राम समूह विशेष अव्यय अत्यय अनुगादिन् इति विनयादयः सप्तदश ।। १७ ।। बहुवचनादाकृतिगणः || "मृदस्तिकः” (७/२/१७१) । मृच्छब्दात् स्वार्थे तिकः स्यात् । मृदेव मृत्तिका ॥ ३६
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org