________________
'स्वार्थिकाः प्रत्ययाः केचिदेवं लेशेन दर्शिताः । लभते तद्धितस्यान्तं कश्छेकोऽप्युदधेरिव ॥ १ ॥ अत्र च प्रन्थकारो 'विनयादिभ्य' इति सूत्र निर्देशेन विनयस्य सर्वगुणप्रधानत्वान्महामङ्गलं स्वनाम - ५ सङ्केतितं च विनयशब्दं निर्दिशन् तद्धितस्य तत्समाप्तिसमाप्तायाः प्रथमवृत्तेश्च पर्यन्तमङ्गलं प्रक्रियाग्रम्थस्य च मध्यमङ्गलं रचितवान् । तच्च शास्त्रस्य स्थैर्याद्यर्थम् - तथाहुः - श्री जिन भद्रगणिक्षमाश्रमणपूज्या विशेषावश्यकाऽपरपर्याये महाभाष्ये ।
१०
४७२
महामहोपाध्याय श्री विनयविजयगणिविरचिते खोपज्ञ हैमलघु
"सस्नो प्रशस्ते" (७/२/१७२ ) । प्रशस्तेऽर्थे वर्त्तमानान्मृच्छब्दात् सन्नौ वा स्याताम् । रूपप्प्रत्ययापवादः । प्रशस्ता मृत् मृत्सा मृत्स्ना । केचिद्रूपमिच्छन्ति प्रशस्ता मृद् मृदूपा ॥
१५
तं मंगलमाईए मज्झे पजंतए अ सत्थस्स । पढमं सत्थत्थाविग्घपारगमणाय निहिं ॥ १ ॥ तस्सेवय थेरत्थं मज्झिमयं अन्तिमंपि तस्सेव । अन्वोच्छित्तिनिमित्तं सिस्स पसिरसा इवंसस्स ॥ २ ॥ प्रथममङ्गलं तावच्छास्त्रार्थस्याविघ्नेन पारगमनाय, शास्त्रस्य स्थैर्यार्थं मध्यमङ्गलम् निर्दिष्टम्, शिष्यप्रशिष्यादिवंशे शास्त्रार्थस्याव्यवच्छेदनिमित्तं चरममङ्गलमिति । तच्च वक्ष्यते इति ॥ १३५ ॥
यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्म्मणे राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः ।
तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तौ तद्धित एष सद्धितपटुः सम्पूर्णतामाश्रयत् ॥ १ ॥ श्रीरस्तु ॥
॥ सम्पादककृता प्रशस्तिः ॥
5 विजयन्तु तपोगच्छनभोमणयः श्रीविजयदानसूरीन्द्राः 5 आत्मारामेतिख्यातानां विजयानन्दसूरीणाम् । पश्चनददेशजन्मा चारित्रविजयोऽन्तिषत् ॥ १ ॥ यो गुरुचर्या रसिकचारित्रगुणभूषितः । ऋजुता दिगुणख्यातो निस्पृहानां शिरोमणिः ॥ २ ॥ गुरुशिष्य भूतपूर्वकद्वण्डकौ । शुद्धं धर्मं प्रपेदाते संविज्ञगुरुसन्निधौ ॥ ३ ॥ इतश्च - जोधराजस्य सत्पुत्रो नवलाकुक्षिहंसकः । अचलदासाभिधानः, चाणोदग्रामभूषणः ॥ ४ ॥ चारित्रविजयर्षीणां पार्श्वे दीक्षां ललौ मुदा । श्रीजामनगरे रम्ये सौराष्ट्र मुखमण्डने ॥ ५ ॥ यस्य दृष्टिः सुधावृष्टिः सर्वकार्यप्रसाधिनी । अमीविजयनामानं नमामि तं गुरुं मुदा ॥ ६ ॥ मरुदेशोद्भवेनापि येन मेघायितं सदा । धर्मोपदेशधाराभिस्त मै श्रीगुरवे नमः ॥ ७ ॥ पाषाणसदृशं शिष्यं द्रव्यदेवं विधाय माम् । प्राप्तः स्वर्गिपदं पाल्यां यस्तस्मै गुरवे नमः ॥ ८ ॥ साधिकवर्षमात्रेऽपि ग्रन्थस्यास्य प्रकाशनम् । यत्प्रभावेन सम्पूर्णम्, तं गुरुं हि नमेन्न कः ? ॥ ९ ॥ वृद्धस्तपस्वी गीतार्थो मुनिगणसुशासकः । विजयतु सिद्धिसूरीन्द्रो मम सुप्रतिदायकः ॥ १० ॥ मोहमय्यां लालबागे श्रीमत्पार्श्वप्रसादतः । प्रारब्धं पूर्तिमगमत् मोतिशाहस्य मन्दिरे ॥ ११ ॥ ऋषभदेवाधिष्ठिते भायखलाशुभस्थले । उपधानपूर्यत्र सरे पार्श्वजन्मसुवासरे ॥ १२ ॥ गुणभक्तिभावभरितो लाभमाणिक्यसत्कृतः । मुनिसमुदयो विजयते गुरुगौरवशंसकः ॥ १३ ॥ पंन्यास मोति विजया मूलचन्द्रप्रशिष्यकाः । तेषां शिष्यः सुसान्निध्यः श्रीसुमति विजयाभिधः ॥ १४ ॥ मोहनहीरालाल संघवी जीवानगीनकौ । यथायोगमकुर्वन्, साहाय्यमपि श्रावकाः ॥ १५ ॥ विरचितेयं प्रशस्तिः पंन्यासपदधारिणा । क्षमाविजयगणिना सम्पूर्त्तिहर्षसूचिका ॥ १६ ॥
१ पाली (मारवाड) २ प्रातः स्मरणीय श्री विजयदान सूरीश्वरराज्ये पूनमचन्द गोमाजी बेड। निवासिका पिते वि० संवत् १९९२ । ३ पोसवदि दशमी । ४-५-६ विजयोत्तरपदा मम सतीर्थ्याः । ७-८ विजयोत्तरपदौ मम शिष्यौ । ९ श्रीमुक्तिविजयगणिनः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org