Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 528
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । मानाद्यर्थाः ४४१ तस्य मात्रडादेरसंशये गम्यमाने लुप् स्यात् । हस्तः प्रमाणमस्य हस्तः। वितस्तिः पटः ॥ शमश्चतुर्विंशतिरङ्गुलानि । असंशय इति किम् ? शमः प्रमाणमस्य स्यात् शममात्रम् । केचित्तु मानमात्रान्मात्रटं तस्यासंशये लुपविकल्पं चेच्छन्ति-प्रस्थः प्रस्थमात्रो वा व्रीहिः, हस्तो हस्तमानं वा काष्ठम् । पलं पलमात्रं वा सुवर्णम् । शतं शतमात्रा वा वृषाः ॥ "द्विगोः संशये च” (७।१।१४४ )। मानादिति वर्त्तते । तेन च मीयतेऽनेनेति मानमिति प्रमाणं परिमाणमुन्मानमुपचरितमनुपचरितं सङ्ख्या ५ चेह गृह्यते "ऊर्ध्व मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् , सङ्ख्या बाह्या तु सर्वतः" ॥ १ ॥ ततश्च मानान्ताहिगोरसंशये च प्रस्तुतप्रत्ययस्य लुप् स्यात् । द्वौ शमौ प्रमाणमस्य स्यादिति वा द्विशमः । द्विहस्तः, द्विकारडा क्षेत्रभक्तिः । द्विकाण्डी रजः-"काण्डात्प्रमाणादक्षेत्रे" (२।४।२४) इति प्रत्ययलुपि डीः । “पुरुषाद्वा" (२।४।२५) इति विकल्पेन ङीः द्विपुरुषी द्विपुरुषा खाता । द्विहस्तिनी त्रिहस्तिनी । एवं द्वौ प्रस्थौ मानमस्य स्यादिति वा द्विप्रस्थः । एवं द्विपलम् , १० द्विशतः । अन्ये तु रूढप्रमाणान्तादेव द्विगोरिच्छन्ति, तन्मते द्विप्रस्थमानं द्विपलमात्रं द्विशतमात्रं स्यादित्यादौ लुब् न स्यात् । आदिशब्दात् “मात्रट्" (७।१।१४५)। मानात् संशय इति वर्तते । प्रस्थो मानमस्य स्यात् प्रस्थमात्रं धान्यम् , प्रस्थमात्रा बीयः। कुडवमात्रम्, पलमात्रम्, पञ्चमात्राः, दिष्टिमात्रम् । मात्रदनद्वयसानि नामान्यपि सन्ति, अनुबन्धासञ्जनार्थं तु प्रत्ययविधानम् ; तेन च स्त्रियां विशेषः । “शन्-१५ शद्विशतेः" (७।१।१४६) । एभ्यो मानवृत्तिभ्यः संशये गम्ये मात्रट् स्यात् । डिनोऽपवादः । दश मानमेषां स्यात् दशमात्राः । त्रिंशन्मात्राः, विंशतिमात्राः ॥ "डिन्” (७।१।१४७ ) । संशय इति निवृत्तम् । सङ्ख्यामानवृत्तेः प्रागुक्तशनादित्रयात् डिन् स्यात् । पञ्चदशाहोरात्रा मानमस्य पञ्चदशी पक्षः । पञ्चदशिनौ, पञ्चदशिनः पक्षाः । एवं त्रिंशी मासः त्रिंशिनौ त्रिंशिनः । त्रयस्त्रिंशिनो देवविशेषाः । विशिनो भवनेन्द्राः ॥ "इदं.” प्रथमान्तादिदम्शब्दात्किम्शब्दाच्च षष्ठ्यर्थे मेये अतुः स्यात् ।२० उकारो दीर्घत्वाद्यर्थ इत् । तत्सन्नियोगे चानयोरिय-किय इत्यादेशौ स्याताम् ॥ “यत्त०" अत्र डावादिरित्येतदन्तं सूत्रम्, अतुरित्येतावान् वृत्त्यंशः । तस्य च यदादिभ्यस्त्रिभ्यः प्रथमान्तेभ्यः षष्ठ्यर्थे मेये डावाविरतुः स्यादित्यर्थः । यावानिति यत्प्रमाणमस्य यावान् । ननु मात्रडादयोऽपि दृश्यन्ते, इदं प्रमाणमस्य इदमानं किंमानं यन्मानं तन्मात्रं एतन्मानं यद्दघ्नं यहयसं इत्यादि । सत्यम् । स्वविषये मानविशेषे प्रमाणे मात्रडादयो भवन्येव, मानसामान्ये तु अतुरेवेति विभागः ॥ १०३ ॥ २५ यत्तत्किमः सङ्ख्याया डतिर्वा ॥१०४॥[सि० ७१।१५०] सङ्ख्यारूपमानवाचिभ्यः एभ्यः सङ्ख्येये डतिर्वा स्यात् । यति यावन्तः । तति तावन्तः । कति कियन्तः ॥ १०४॥ “यत्त०" । वेति-पक्षे यथाविहितोऽतुः । या सङ्ख्या मानमेषां यति यावन्तः । मानादिति सङ्ख्याया विशेषणं किम् ? क्षेपे मा भूत् । का सङ्ख्या एषां दशानाम् ॥ १०४ ॥ ३० अवयवात्तयत् ॥ १०५॥ [सि०७।१।१५१] अवयववृत्तेः सङ्ख्यार्थादवयविनि तयट् स्यात् । पञ्च अवयवा अस्य पञ्चतयो यमः । चतुष्टयी गतिः॥ "द्वित्रिभ्यामयड् वा” (७।१।१५२) । अवयवे । द्वयं द्वितयम् । त्रयं त्रितयम् ॥ १०५॥ है. प्रका० पूर्वा० ५६ ३४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560