Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 532
________________ ४४५ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्विताः । प्रथमान्तात्तृतीयार्थाद्याः "पूर्व." द्वितीयान्तादिति, अत्रायमभिप्राय:-पूर्वमिति क्रियाविशेषणानिर्देशादेव द्वितीयान्तात्केवलात्सादेः सपूर्वाच्चानेनेति तृतीयार्थे कर्तरि इन् स्यात् । केवलात्. पूर्वमनेन पूर्वी, पूर्विणो, पूर्विणः । अनेनेति कर्तृपदं कृतं भुक्तमित्यादिकां काञ्चित् क्रियामपेक्षते, क्रियां विना कर्तुरभावात् ; विशेषावगमस्तु अर्थात्प्रकरणाच्छब्दान्तरसन्निधेर्वा स्यात् । पूर्वी कटम् , पूर्वी ओदनम् , पूर्वी पयः । सादेः. कृतं पूर्वमनेन कृतपूर्वी कटं भुक्तं पूर्वमनेन भुक्तपूर्वी ओदनम् , पीतं पूर्वमनेन पीतपूर्वी पयः, कृतपूर्वा-५ दिसमासात्प्रत्ययः क्तान्तं येनैव समानाधिकरणम् , तस्यैव कर्मतां वक्ति; न च वृत्तौ क्तान्तं कटादिना समानाधिकरणमिति कटादिगतं कर्मानुक्तमित्यतो द्वितीया ॥ १११ ॥ इष्टादेः॥ ११२ ॥ [सि०७।१।१६८1 एभ्यः प्रथमान्तेभ्यस्तृतीयार्थे कर्त्तरि इन् स्यात् । इष्टो यज्ञोऽनेन इष्टी यज्ञे । अधीतस्तर्कोऽनेन अधीती तर्के ॥ ११२ ॥ "इष्टा०" । इष्टी यज्ञे इत्यादौ "व्याप्ये तेनः" (२।२।९९) इति कर्मणि सप्तमी । इष्ट, पूर्त उपपादित, उपसादित, उपासित, निगदित, परिगदित, निकटित, सङ्कलित; परिकलित, १० संरक्षित, परिरक्षित, अर्चित, अगणित, अवगणित, अवकीर्ण, अवमुक्त, आयुक्त, गृहीत, अधीत, २० आनात, श्रुत, आसेवित, अवधारित, अवकल्पित, (कृत ?) निराकृत, उपकृत, उपाकृत, अनुयुक्त, ३० अनुगुणित, अनुगणित, (गणित ?) परिगणित, अनुपठित, निपठित, पठित, व्याकुलित, उद्ग-१५ हीत, कथित, ४० निकथित, निषादित, इति इष्टादयो द्विचत्वारिंशत् ॥ ४२ ॥ अत्रादिशब्दसंसर्गात् "श्राद्धमद्यभुक्तमिकेनौ” (७।१।१६९)। प्रथमान्तात् श्राद्धशब्दादद्यभुक्तमित्युपाधिकात्तृतीयार्थे कर्तरि इक इन् इत्येतौ स्याताम् । श्राद्धशब्दः कर्मवाची तत्साधने द्रव्ये वर्तित्वा प्रत्ययमुत्पादयति-श्राद्धमनेनाद्य भुक्तं श्राद्धिकः, श्राद्धी । अद्यग्रहणादद्य भुक्ते श्राद्धे श्वश्राद्धिकः, श्राद्धी इति न भवति ॥ "अनुपद्यन्वेष्टा" (७।१।१७०) । अनुपदीति इन्नन्तं निपात्यते, अन्वेष्टा २० चेत्प्रत्ययार्थः स्यात्, अनुपदमन्वेष्टा अनुपदी गवाम् ॥ "दाण्डाजिनिकायःशूलिकपार्श्वकम्" (७।१।१७१) । एषु आद्यौ द्वौ इकण्प्रत्ययान्तौ, तृतीयश्व कप्रत्ययान्तो निपात्यते; यो मिथ्याप्रती परप्रसादार्थं दण्डाजिनमुपादायार्थानन्विच्छति स दाम्भिको दाण्डाजिनिक उच्यते । निपातनं रूढ्यर्थम् , तेन शैवभागवतादौ न भवति ॥ तीक्ष्ण उपायो यः शूलसाम्यादयःशूलम् , तेनान्वेष्टा आयःशूलिकः । यो मृदुनोपायेनान्वेष्टव्यानर्थान् तीक्ष्णोपायेनान्विच्छति रामसिकः स एवमुच्यते ॥ केचिदाभ्यामिक-२५ मेवाहुः-दण्डाजिनिकः दण्डाजिनिका । अयःशूलिकः अयःशूलिका ॥ पार्श्वमनृजुरुपायो लञ्चादिस्तेनान्वेष्टा पार्श्विकः । ऋजूपायेनान्वेष्टव्यानर्थाननृजुनोपायेन योऽन्विच्छति स पार्श्वक उच्यते । यस्तु राज्ञः पार्श्वनार्थानन्विच्छति स राजपुरुषस्तत्र न भवति ।। "क्षेत्रेऽन्यस्मिन्नाश्ये इयः” (७।१।१७२) । अन्योपाधिकात् क्षेत्रात् नाश्ये इयः स्यात् । क्षेत्रियो व्याधिः-अन्यस्मिन् क्षेत्रे जन्मान्तरशरीरे नाश्योऽसाध्य इत्यर्थः । क्षेत्रियं विषम् , तद्धि स्वशरीरादन्यस्मिन्क्षेत्रे परशरीरे सङ्कमय्य किंचिन्नाश्यं ३० (चिकित्स्यं ) भवति । क्षेत्रियानि तृणानि. तानि हि सस्थक्षेत्रेऽन्यस्मिन्नुत्पन्नानि नाश्यान्युत्पाद्यानि भवन्ति । क्षेत्रियः पारदारिकः स हि अन्यस्मिन् क्षेत्रे परदारेषु वर्तमानो नाश्यो निग्राह्यो भवति; दाराः क्षेत्रम् ॥ “छन्दोऽधीते श्रोत्रश्च वा” (७।१।१७३)। द्वितीयान्तात् छन्दस्शब्दात् अधीते इत्यर्थे इयस्तद्योगे चास्य श्रोत्रादेशः स्यात् ॥ छन्दोऽधीते श्रोत्रियः; पक्षे "तद्वेत्त्यधीते" (६।२।११७ ) इत्य' छान्दसः ॥ "इन्द्रियम्” (७।१।१७४) । इन्द्रशब्दादियः प्रत्ययो निपात्यते । निपातनं रूढ्य-३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560