Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 531
________________ ४४४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुऐत्यम् , शैत्यम् । तद्धितस्वर. भवत्या इदं भावत्कम् , भवदीयम् , इयमासामतिशयेन पट्वी पटिष्टा पटीयसी॥ जातितद्धितय. । दरदोऽपत्यं स्त्री अण् लुप् दरद् तस्यां साधुः दारद्यः (एवम् , औशिज्यः) पुंवद्भावादणो लुब् निवर्त्तते । तद्धितस्वर. गाायण्याः कुत्सितमपत्यं गार्ग्यः, गार्गिकः । हस्तिनीनां समूहो हास्तिकम् । जातिग्रहणं जातिलक्षणप्रतिषेधनिवृत्त्यर्थम् ; सति तस्मिंश्चकारोऽन्यार्थः । जाति. परतः ५स्त्री अन्या च परतः स्त्री पुंवद्भवतीत्यर्थः । अकृते हि चकारे जातेरेव पुंवद्भावः स्यात् । कथं यौवतम् ? भिक्षादौ युवतीति स्त्रीलिङ्गपाठात् । कौण्डिन्य इति तु "कौण्डिण्यागस्त्ययोः०" (६।१।१२७) इति निर्देशेनं पुंवद्भावस्यानित्यत्वात् । अत एव च मानाय्य इत्यत्रापि न भवति । सापत्न इत्यपि "सपत्यादौ” (२।४।५०) इति सूत्रे सपत्नीति समुदायनिपातनात् , अत एव सपत्नीभार्य इत्यत्रापि न भवति (सपत्नस्यायं सापत्न इति वा भविष्यति ) । तद्धितस्वर इति विषयसप्तम्याश्रयणं किम् ? पढ्वया भावः १० पाटवम् , अत्र प्रत्ययोत्पत्तेः पूर्वमेव पुंवद्भावे लध्वादित्वात् "टवृवर्णालध्वादेः” (७१।६९) इत्यण् भवति । परसप्तमीसमाश्रयणे तु पट्वीशब्दस्य लध्वादित्वाभावादण् न स्यादिति ॥ “एयेऽग्नायी" (३। २।५२) पुंवत्स्यात् । अग्नाय्या अपत्यं आमेयः "कल्यग्नेरेयण्” (६।१।१७)। अनायी देवताऽस्य आग्नेयः स्थालीपाकः। पूर्वेण सिद्धे नियंमार्थमिदम् , तेन श्यैनेयः, रौहिणेयः, इत्यादौ पूर्वेणापि पुंवद्भावो न स्यात् ॥ *यावतिथ इति यावतां यावतीनां सङ्ख्यापूरणः यावतिथः “यत्तदेतदो डावादिः” (७१। १५१४९) अतुरित्यतुप्रत्ययः ॥ “षट०” एभ्यस्त्रिभ्यः पूरणे थट् स च पित् । षण्णां पूरणः षष्ठः षष्ठी। कतीनां पूरणः कतिथः कतिथी । कतिपयानां स्त्रीणां पूरणी कतिपयथी “षष्ठी वाऽनादरे" (२।२। १०८) "चतुर्थी” (२।२।५३) इत्यादिना सूत्रनिर्देशात् थटि "नामसिदय्व्यञ्जने" ( १।१।२१) इति पदत्वं न भवति ॥ "चतु.” (चतुर्णा पूरणः चतुर्थः) चतसृणां सङ्ख्यापूरणी चतुर्थी । योगवि. भाग उत्तरार्थः । “येयौ०" । चलुक् इति-चतुर्शब्दस्येत्यर्थः ॥ २० "देस्तीयः"। (७।१।१६५)। द्वितीयः ॥ "त्रेस्तु च” (७१।१६६ )। त्रेस्तीयस्तृत्वं चास्य । तृतीयः॥ "द्वेस्त०" "०" । द्वे अपि सूत्रे स्पष्टे ॥ ११० ॥ पूर्वमनेन सादेश्चेन् ॥ १११ ॥ [ सि० ७१।१६७ ] द्वितीयान्तात्सपूर्वात् केवलाच पूर्वशब्दात्तृतीयार्थे इन् स्यात् । कृतं पूर्वमनेन कृतपूर्वी कटम् , २५ पीतपूर्वी पयः॥ १११॥ १'वर्णदृढादिभ्यः' व्यण । २ वशक्० वष्टि न्यायं वशेः कित् इज् ‘वशेरयलि' वृत्, उशिजोऽपत्यं 'पुरुषमगध'इत्यण "देरज'-लोपः । उशिजि साधुः। ३ 'वृद्धस्त्रियाः क्षेपे णेकणौ' ततः पुंवत्त्वे 'तद्धितयखरेऽना'. इति यलोपः । गर्गादित्याद यभि, पुंवद्भावे तु 'नोऽपदस्य'-इत्यन्त्यस्वरादिलोपे कौण्ड्य इति स्यात् । ५ अनित्यखादेवेत्यर्थः ६ मनोर्भार्या 'मनोरौ च वाली ऐश्च । मनाय्या अपत्यं 'गर्गादेर्य' मानाय्यः । ७ सपन्या अपत्यं 'शिवादेरण' सापत्नः । ननु मनायीशब्दस्य गर्गादिपाठात् स्वयमेव न भविष्यति, यथा यौवतमित्यत्र भिक्षादिपाठात्स्त्रीलिङ्गस्य युवतिशब्दस्य पुंवद्भावो न भवति एवमत्रापि । उच्यते । गोंदिगणेऽणेकणोः प्राप्तावस्य पाठ इति तत्राप्युक्तम्, ततश्च पुंवद्भावः प्राप्नोति स मा भूदिति कौण्डिन्यनिर्देशात्पुंवद्भावो न भवतीत्युक्तम् । ८ सपत्नशब्दश्च सपन्यास्तुल्यः 'अः सपल्याः' ण औणादिको वा। ९ अत्र हाण्विषये पुंवद्धावस्ततोऽण । १० विपरीतनियमस्तु न भवति प्रतिषेधाधिकारेऽऽन्याय्यनेये इत्यकरणात् । अत्रेव वा आग्नेय यनिपातनात् । विपरीतनियमे हि अनाय्यै हितः 'तस्मै हिते' इतीये 'जातिश्च'-इत्यनेनापि पुंवत् न स्यात्, ततश्चानायीय इति स्यात् : स्थिते त्वमीय इत्येव भवति । ११ 'द्विखरादनद्याः'। १२ 'त्याप्यूटः' इति एयण् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560