Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 525
________________ ४३८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुगरुडः, सिंहः, तालः; एते ध्वजाः । चित्र. दुर्योधनः, भीमसेनः; एते चित्राणि ॥ "अपण्ये जीवने” (७।१।११०) जीवन्त्यनेनेति जीवनम् , पण्यं विक्रेतव्यम् , ततोऽपण्ये जीवने को न स्यात् । वासुदेवः शिवः स्कन्दः; देवलकानां जीविकाः प्रतिकृतयः । अपण्य इति किम् ? हस्तिकान विक्रीणीते । जीवन इति किम् ? क्रीडने निषेधो मा भूत्-हस्तिकः ॥ “देवपथादिभ्यः” (७।१।१११) ५एभ्यः संज्ञाप्रतिकृत्योः को न स्यात् । देवपथस्य तुल्यः देवपथः । देवपथ, हंसपथ, अजपथ, चारिपथ, राजपथ, शतपथ, शङ्कुपथ, (स्थलपथ) सिन्धुपथ, उष्ट्रग्रीवा, वामरज्जु, (हंस ?) हस्त, इन्द्र, दण्ड, (पथ्य ?) पुष्प, मत्स्य १६ इति देवपथादयः षोडश । बहुवचनमाकृतिगणार्थम् । पूर्वयोगावस्यैव प्रपञ्चः ॥ "वस्तेरेयम्” (७।१।११२) तस्य तुल्ये । संज्ञाप्रतिकृत्योरिति तु निवृत्तम् ( प्रत्ययान्तरोपादानात् ) । वस्तेस्तुल्या वास्तेयी प्रणाली ॥ "शिलाया एयच” (७।१।११३)। चकारा१० देयमपि । शिलायास्तुल्यं शिलेयं दधि शिलेयी इष्टका । शैलेयं दधि शैलेयी इष्टका । एयच्च इत्यत्र चकार "अणजेयेकण्०” (२।४।२०) इति एयस्य सामान्यग्रहणाविघातार्थः अन्यथा ह्यस्यैव स्यात् । अन्ये तु द्रव्यशब्दवद् (यथा द्रो व्ये इति तुल्यार्थे ये द्रव्यशब्दो नियतं लिङ्गमाह, एवं शिलेयमिति ।) यजन्तं खियां नास्तीत्याहुः ॥ "शाखा०” । एभ्यस्तस्य तुल्ये यः स्यात् । पुरुषस्कन्धस्य वृक्षस्कन्धस्य वा तिर्यक् प्रसृतमङ्गं शाखेत्युच्यते । (तद्यथा शाखा पार्शयता तथा ) कुलस्य यः पार्थायतोऽङ्गभूतः १५स शाखायास्तुल्यः शाख्यः । मुख्यः, जघन्यः । शाखा, मुख, जघन, स्कन्द, स्कन्ध, मेघ, शृङ्ग, चरण, शरण, उरस् , शिरस् , अग्र, इति शाखादयो द्वादश १२ ॥ "द्रोर्भव्ये” (७।१।११५)। यः । विशिष्टेष्टपरिणामेन भवतीति भव्यमभिप्रेतानामर्थानां पात्रम् । द्रोस्तुल्यः द्रव्यमयमाणवकः । द्रव्यं कार्षापणम् , यथा द्रु अग्रन्थि अजिमं दारु उपकल्प्यमानं विशिष्टेष्टरूपं भवति, तथा माणवकोऽपि विनीयमानो विद्यालक्ष्म्यादिभाजनं भवतीति द्रव्यमुच्यते । कार्षापणमपि विनियुज्यमानं २० विशिष्टमाल्याद्युपभोगफलं भवतीति द्रव्यमुच्यते । हरिव द्रव्यं राजपुत्रः । यथा द्रुमः पुष्पफलादिभिरर्थिनः कृतार्थयति एवमन्योऽपि यः सोऽपि द्रव्यमुच्यते । भव्य इति किम् ? द्रुतुल्यो न चेतयते ॥ "कुशा." कुशाग्रस्य तुल्यं कुशाग्रीयं शस्त्रम् । तदाकारत्वात् । कुशाग्रीया मतिः तीक्ष्णत्वात् ।। "काक०" एते ईयप्रत्ययान्तास्तस्य तुल्ये निपात्यन्ते । काकश्च तालश्च काकतालम् ; यथा कथंचिद्रजतः काकस्य निपतता तालेनातर्कितोपस्थितश्चित्रीयमाणः संयोगो लक्षणयोच्यते, तत्तुल्यं काकताली२५ यम् । एवं खलतिबिल्वीयम् , अन्धकश्च वर्तिका च अन्धकवर्त्तिकम्-अत्रान्धकस्य वर्तिकाया उपर्य तर्कितः पादन्यास उच्यते । अन्धकस्य बाहूत्क्षेपे वर्तिकायाः करेनिलयनं वा तत्तुल्यमन्धकवर्तकीयम् । अजया पादेनावकिरत्यात्मवधाय कृपाणस्य दर्शनमज़ाकृपाणम् , तत्तुल्यमजाकृपाणीयम् । एवंविधचित्रीकरणविषयाः काकतालीयादयः । निपातनं रूढ्यर्थम् । बहुवचनादन्येऽपि अर्द्धजरतीयघुणाक्ष रीयादयो ज्ञेयाः ॥ "शर्करादेरण्” (७।१।११८) तुल्ये । शर्करायास्तुल्यं शार्करं दधि-मधुरत्वात् । ३० शार्करी मृत्तिका-कठिनत्वात् । शर्करः, कपालिका, ककम्बाष्टिका ( कम्बाष्टिका ) गोपुच्छ, गोलोमन् , पुण्डरीक, शतपत्र, नराची, नकुल, सिकता, कपाटिका इति शर्करादय एकादश ।। अत्रादिशब्दस्मरणात् "अ: सपन्याः ” (७।१।११९) तुल्ये । सपनयास्तुल्यः सपत्नः ॥ “एकशालाया इकः” (७।१।१२०) । तुल्ये । एकशालायास्तुल्यमेकशालिकम् । “गोण्यादेश्चेकण्” (७।१।१२१)। गोण्यादिभ्य एकशालायाश्च तुल्ये इकण स्यात् । गोण्यास्तुल्यं गौणिकम् । एक३५शालाया ऐकशालिकम् । गोणी, अङ्गुली, भरुजा, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुली, हरि, मण्डु, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560