________________
४३८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुगरुडः, सिंहः, तालः; एते ध्वजाः । चित्र. दुर्योधनः, भीमसेनः; एते चित्राणि ॥ "अपण्ये जीवने” (७।१।११०) जीवन्त्यनेनेति जीवनम् , पण्यं विक्रेतव्यम् , ततोऽपण्ये जीवने को न स्यात् । वासुदेवः शिवः स्कन्दः; देवलकानां जीविकाः प्रतिकृतयः । अपण्य इति किम् ? हस्तिकान विक्रीणीते । जीवन इति किम् ? क्रीडने निषेधो मा भूत्-हस्तिकः ॥ “देवपथादिभ्यः” (७।१।१११) ५एभ्यः संज्ञाप्रतिकृत्योः को न स्यात् । देवपथस्य तुल्यः देवपथः । देवपथ, हंसपथ, अजपथ, चारिपथ, राजपथ, शतपथ, शङ्कुपथ, (स्थलपथ) सिन्धुपथ, उष्ट्रग्रीवा, वामरज्जु, (हंस ?) हस्त, इन्द्र, दण्ड, (पथ्य ?) पुष्प, मत्स्य १६ इति देवपथादयः षोडश । बहुवचनमाकृतिगणार्थम् । पूर्वयोगावस्यैव प्रपञ्चः ॥ "वस्तेरेयम्” (७।१।११२) तस्य तुल्ये । संज्ञाप्रतिकृत्योरिति तु निवृत्तम् ( प्रत्ययान्तरोपादानात् ) । वस्तेस्तुल्या वास्तेयी प्रणाली ॥ "शिलाया एयच” (७।१।११३)। चकारा१० देयमपि । शिलायास्तुल्यं शिलेयं दधि शिलेयी इष्टका । शैलेयं दधि शैलेयी इष्टका । एयच्च इत्यत्र चकार "अणजेयेकण्०” (२।४।२०) इति एयस्य सामान्यग्रहणाविघातार्थः अन्यथा ह्यस्यैव स्यात् । अन्ये तु द्रव्यशब्दवद् (यथा द्रो व्ये इति तुल्यार्थे ये द्रव्यशब्दो नियतं लिङ्गमाह, एवं शिलेयमिति ।) यजन्तं खियां नास्तीत्याहुः ॥ "शाखा०” । एभ्यस्तस्य तुल्ये यः स्यात् । पुरुषस्कन्धस्य वृक्षस्कन्धस्य
वा तिर्यक् प्रसृतमङ्गं शाखेत्युच्यते । (तद्यथा शाखा पार्शयता तथा ) कुलस्य यः पार्थायतोऽङ्गभूतः १५स शाखायास्तुल्यः शाख्यः । मुख्यः, जघन्यः । शाखा, मुख, जघन, स्कन्द, स्कन्ध, मेघ, शृङ्ग, चरण, शरण, उरस् , शिरस् , अग्र, इति शाखादयो द्वादश १२ ॥ "द्रोर्भव्ये” (७।१।११५)। यः । विशिष्टेष्टपरिणामेन भवतीति भव्यमभिप्रेतानामर्थानां पात्रम् । द्रोस्तुल्यः द्रव्यमयमाणवकः । द्रव्यं कार्षापणम् , यथा द्रु अग्रन्थि अजिमं दारु उपकल्प्यमानं विशिष्टेष्टरूपं भवति, तथा माणवकोऽपि विनीयमानो विद्यालक्ष्म्यादिभाजनं भवतीति द्रव्यमुच्यते । कार्षापणमपि विनियुज्यमानं २० विशिष्टमाल्याद्युपभोगफलं भवतीति द्रव्यमुच्यते । हरिव द्रव्यं राजपुत्रः । यथा द्रुमः पुष्पफलादिभिरर्थिनः कृतार्थयति एवमन्योऽपि यः सोऽपि द्रव्यमुच्यते । भव्य इति किम् ? द्रुतुल्यो न चेतयते ॥ "कुशा." कुशाग्रस्य तुल्यं कुशाग्रीयं शस्त्रम् । तदाकारत्वात् । कुशाग्रीया मतिः तीक्ष्णत्वात् ।। "काक०" एते ईयप्रत्ययान्तास्तस्य तुल्ये निपात्यन्ते । काकश्च तालश्च काकतालम् ; यथा कथंचिद्रजतः काकस्य निपतता तालेनातर्कितोपस्थितश्चित्रीयमाणः संयोगो लक्षणयोच्यते, तत्तुल्यं काकताली२५ यम् । एवं खलतिबिल्वीयम् , अन्धकश्च वर्तिका च अन्धकवर्त्तिकम्-अत्रान्धकस्य वर्तिकाया उपर्य
तर्कितः पादन्यास उच्यते । अन्धकस्य बाहूत्क्षेपे वर्तिकायाः करेनिलयनं वा तत्तुल्यमन्धकवर्तकीयम् । अजया पादेनावकिरत्यात्मवधाय कृपाणस्य दर्शनमज़ाकृपाणम् , तत्तुल्यमजाकृपाणीयम् । एवंविधचित्रीकरणविषयाः काकतालीयादयः । निपातनं रूढ्यर्थम् । बहुवचनादन्येऽपि अर्द्धजरतीयघुणाक्ष
रीयादयो ज्ञेयाः ॥ "शर्करादेरण्” (७।१।११८) तुल्ये । शर्करायास्तुल्यं शार्करं दधि-मधुरत्वात् । ३० शार्करी मृत्तिका-कठिनत्वात् । शर्करः, कपालिका, ककम्बाष्टिका ( कम्बाष्टिका ) गोपुच्छ, गोलोमन् , पुण्डरीक, शतपत्र, नराची, नकुल, सिकता, कपाटिका इति शर्करादय एकादश ।।
अत्रादिशब्दस्मरणात् "अ: सपन्याः ” (७।१।११९) तुल्ये । सपनयास्तुल्यः सपत्नः ॥ “एकशालाया इकः” (७।१।१२०) । तुल्ये । एकशालायास्तुल्यमेकशालिकम् । “गोण्यादेश्चेकण्” (७।१।१२१)। गोण्यादिभ्य एकशालायाश्च तुल्ये इकण स्यात् । गोण्यास्तुल्यं गौणिकम् । एक३५शालाया ऐकशालिकम् । गोणी, अङ्गुली, भरुजा, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुली, हरि, मण्डु,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org