Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । खार्थाद्यर्थाः
४३७ विना विचारेण प्रवर्त्तत इत्यर्थः । आशिता गावोऽस्मिन् आशितङ्गु अस्मादेव निपातनात् पूर्वपदस्य मोन्तः; तत ईनः, आशितङ्गवीनमरण्यम् । अलं कर्मणे अलं पुरुषाय "प्रात्यवपरि०" (३।१।४७) इत्यादिना समासः, तत ईनः । राजाधीनमिति तु शौण्डादित्वात्सप्तमीसमासः । अस्ति चाधीनशब्दः 'अस्मावधीनं किमु निःस्पृहाणाम्' इति प्रयोगात् (वाक्यं हि वक्तर्यधीनं भवति इति, तदेतत्प्रयोक्तर्यधीनं भवतीति) ॥ ९७ ॥
अदिस्त्रियां वाचः ॥ ९८ ॥ [सि० ७।१।१०७] अश्चन्तात्स्वार्थे ईनो वा स्यात् । प्राचीनं प्राक् । प्राचीना प्राची शाखा । अदिस्त्रियामिति किम् ? प्राची दिक् ॥ ९८ ॥
"अदि." । अश्चन्तात्स्वार्थे ईनः स्यात्, न चेत् स दिशि स्त्रियां वर्तते । प्राचीनं प्रागिति एवं प्रत्यक् प्रतीचीनम् , उदक् उदीचीनम् , अवाक् अवाचीनम्, सम्यङ् समीचीनः । प्राची दिगिति-अत्र १० दिग्ग्रहणं किम् ? प्राचीना शाखा, अवाचीना ब्राह्मणी । स्त्रीग्रहणं किम् ? प्राक् प्राचीनं रमणीयम् । दिश्यपि लुबन्तं स्वभावात् नपुंसकम् । “वाद्यात्” (६।१।११) इति विकल्पे लब्धे वाग्रहणं पूर्वत्र नित्यार्थम् ॥ ९८॥
- इति ईनप्रत्ययाधिकारः । तस्य तुल्ये कः संज्ञाप्रतिकृत्योः ॥ ९९ ॥ [सि० ७।१।१०८] १५ षष्ठ्यन्तात्तुल्येऽर्थेऽनयोर्गम्ययोः कः स्यात् । अश्वकः ॥ "शावादेर्यः” (७।१।११४) शाख्यः। मुख्यः। “कुशाग्रादीयः" (१११११८)। कुशाग्रीया मतिः॥"कालतालीयादयः" (७।१।११७) । तुल्ये साधवः । *विप्रभृतिभ्यः शालशङ्कटादयः । विशालं विशङ्कटम् ॥९९ ॥ ___ "तस्य." । अनयोर्गम्ययोरिति, संज्ञायां प्रतिकृतौ वा गम्यायामित्यर्थः । अश्वस्य तुल्यः अश्वकः । उष्ट्रकः । अश्वादिसशस्य संज्ञा एताः । प्रतिकृतिः काष्ठादिमयं प्रतिच्छन्दकम् । अश्वकं रूपम् , २० अश्विका प्रतिमा (अश्वकानि रूपाणि । तुल्य इति किम् ? इन्द्रदेवः । एवन्नामा कश्चित् । नात्र साहश्यम् । संज्ञाप्रतिकृत्योरिति किम् ? गोस्तुल्यो गव्यः) । संज्ञाग्रहणमप्रतिकृत्यर्थम् । एके त्वाहुः-तुल्यमात्रे कप्रत्ययः-शिव इव शिवकः।।
अत्रायं विशेष:-"न नृपूजार्थध्वजचित्रे” (७।१।१०९)। नरि मनुष्ये पूजार्थे ध्वजे चित्रे च चित्रकर्मणि अभिधेये को न स्यात् । तत्र सोऽयमित्येवाभिसम्बन्धः । संज्ञाप्रकृत्योरिति यथासम्भवं २५ प्राप्ते प्रतिषेधोऽयम् । नृ. चश्चा-तृणमयः पुरुषः, यः क्षेत्ररक्षणाय क्रियते । चश्चातुल्यः पुरुषः चश्चा । एवं वर्धिका, खरकुटी । पूजार्थ. अर्हन् , शिवः, स्कन्दः, पूजनार्थाः प्रतिकृतय उच्यन्ते । ध्वज.२७
१ प्रसज्योऽयं नम् दिग्लक्षणा स्त्री चेन्न भवतीति नतु अदिग्लक्षणायां स्त्रियामिति पर्युदासस्तेन पुंक्लीबयोरपि भवति । ननु दिशः स्त्रीत्वमव्यभिचारि तत्किमत्र स्त्रीग्रहणेनेत्याह स्त्रीग्रहणमिति । स्त्रीलिङ्गरहितायां दिश्यश्चत्यन्तवाच्यायां प्रत्युदाहरति प्राक्प्राचीनं रमणीयमित्यादि । २ प्रागिति धालुबन्तम् । अव्ययत्वाल्लिङ्गायोग्य, प्राचीनं च स्वार्थिकान्तत्वात् तद्वत् , तथापि स्वभावानपुंसकम् । अन्यथा अभेदे अलिङ्गत्वम् भेदे तु स्त्रीलिङ्गवं स्यात् । ३ 'अषडक्ष'-इत्यत्र सूने वाक्यं खलौकिकम् । ४ एवनामानः पशुविशेषाः, न तु प्रतिबिम्बानि । ५ षष्ठ्यन्तादभेदे इन्द्रदेवस्य सम्बन्धी इन्द्रदेवः । इन्द्रदेव इत्युक्तेऽपि संज्ञा प्रतीयत इति न द्याविकलता। ६ नहि गोक इति कप्रत्ययान्तेन संज्ञा प्रतीयते । ७ निषेधे सतीत्यर्थः । ८ चञ्चानुल्यः पुरुषोऽमेदोपचारेण चश्चा । अतश्चश्चापुरुष इत्यादी सामानाधिकरण्यम् । तथा चान्यैरिव प्रत्ययस्य लुप न बक्तया । ९ मनुष्ये संज्ञायां पूजार्थादिषु प्रतिकृती प्राप्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560