Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 522
________________ प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । व्याप्नोतीत्याद्यर्थाः आदिशब्दात् “यथामुखसम्मुखादीनस्तदृश्यतेऽस्मिन् ” (७|१|९३) आभ्यां प्रथमान्ताभ्यां सप्तम्यर्थे ईनः स्यात् प्रथमान्तं चेदृश्यते इति भवति । यथामुखं दृश्यतेऽस्मिन् यथामुखीनः आदर्शादिः । मुखस्य सदृशोऽर्थो यथामुखं प्रतिबिम्बमुच्यते, अत एव निपातनात् " यथाऽथा ” ( ३।१।४१ ) इति प्रतिषेधेऽव्ययीभावः । समं मुखं सम्मुखं समं मुखमस्यानेन वा सम्मुखं प्रतिबिम्बमेव, अत एव निपातनात् समशब्दस्यान्तलोपः । सम्मुखं दृश्यतेऽस्मिन्निति सम्मुखीनः यथामुखीनः सीताया ५ इति । सम्मुखीनो हि जयो रन्ध्रप्रहारिणामिति तु उपमानात् । सर्वादेः पथ्यङ्गकर्म पत्रपात्रशरावं व्याप्नोति ॥ ९७ ॥ [ सि० ७ १९४ ] सर्वशब्दपूर्वेभ्य एभ्यः षड्भ्यो व्यामोतीत्यर्थे ईनः स्यात् । सर्वपथीनो रथः । सर्वाङ्गीणं शम् । सर्वकर्मीणो ना । सर्वपत्रीणो यन्ता । सर्वपात्रीणं सर्वशरावीणं घृतम् । * अलङ्गामिन्यध्वनोऽमन्ताद्येनौ वाच्यौ-अ - अध्वन्यः अध्वनीनः समांसमीन साप्तपदीनादयः साधवः ॥ १० कचित्स्वार्थे ईनः - अषडक्षीणो मत्रः । अलङ्कर्माणोऽलम्पुरुषीणो ना ॥ ९७ ॥ ४३५ “सर्वा०” । एभ्यः षड्भ्यः इति - द्वितीयान्तेभ्य इति शेषः । सर्वपथं व्याप्नोति सर्वपथीनः । सर्वपथान् व्याप्नोति सर्वपथीनमुदकम् । सर्वाणि कर्माणि व्याप्नोति सर्वकर्मीणो ना पुमान् । यन्ता सारथिः । आदिशब्दात् "आपदम् ” ( ७।१।९५) । प्रगतं पदं प्रपदं पदाप्रमित्यर्थः । अथवा प्रवृद्धं पदं प्रपदम् । पदस्योपरिष्टात् संस्था खलुको गुल्फ इति यावत् । आङ् मर्यादायामभिविधौ वा । आ प्रपदात् १५ आप्रपदम्, “पर्यपाङ्” ( ३।१।३२ ) इत्यादिनाव्ययीभावः । अस्माद्वितीयान्ताद्व्याप्नोतीत्यर्थे ईनः स्यात् । आप्रपदं व्याप्नोति न तदतिवर्त्तते यः स आप्रपदीनः पटः - अनेन पटस्य प्रमाणमाख्यायते ॥ "अनुपदं बद्धा" ( ७।१।९६ ) । द्वितीयान्तादनुपदशब्दाद्वद्धा इत्यर्थे ईनः स्यात् । अनुपदं बद्धा अनुपदीना उपानत्-पदप्रमाणेत्यर्थः । अनुपदमिति " दैर्येऽनुः " ( ३|१|३४ ) इत्यव्ययीभावः ॥ "अयानयं नेयः” ( ७।१।९७ ) अस्माद्दितीयान्तान्नेय इत्यर्थे ईनः स्यात् । अयानयं नेयः अयान - २० यीनः शारः - फलकशिरसि स्थितः उच्यते । अयः प्रदक्षिणं गमनम् अनयः प्रसव्यं वामम् । शारि द्यूते हि केचिच्छाराः प्रदक्षिणं गच्छन्ति केचित्प्रसव्यम्, तेषां गतिरयसहितोऽनयोऽयानय इत्युच्यते । यस्मिन् परशारैः पदानामप्रवेशः तदुभयं नेयः अयानयीन इति रूढिः । अथवा अयः शुभं दैवम्, अनयो अशुभम्, शुभाद्दैवादपवर्त्ततेऽशुभं दैवं यस्मिन् कर्मणि तदयानयं शान्तिकर्म्म चतुःशरणप्रतिपत्तिरनाघातघोषणं देवगुरुपूजा तपो दानं ब्रह्मचर्यादिनियमस्तद्यो नेयः कारयितव्यः सोऽयान- २५ यीन ईश्वर इति ॥ " सर्वान्नमत्ति " ( ७।१।९८) सर्वप्रकारमन्नं सर्वान्नं तदत्ति सर्वान्नीनः भिक्षुः । नियमरहितः । सर्वशब्दः प्रकारकात्रूयें || परोवरीणपरम्परीणपुत्रपौत्रीणम्" ( ७।१।९९) । 1 योऽनुभवत्यर्थे प्रत्ययान्ता निपात्यन्ते । परावरशब्दाद्वितीयान्तादीनः अवरशब्दाकारस्योत्वं निपातनात् ; परांश्चावराँश्चानुभवति परोवरीणः । पारोवर्यमित्यत्रातीत क्रमवाचि परोवरमिति शब्दान्तरमिति " सूरयः” । [ यदि प्रत्ययसन्नियोगे ओत्वम्, तत्कथमत्र तदभावे इत्याशङ्का ] । “कथं पारोवर्यवदिति ३० 1 १ पदं लक्ष्यीकृत्यायतं बन्धनमिति क्रियाविशेषणत्वात् द्वितीया मेदोपचाराद् बद्धेत्युच्यते । २ कर्म्मणि द्वितीया । यद्यपि नेयशब्देन कर्माभिधीयते, तथापि अयानयशब्दाद्वितीया भवत्येव-द्विकर्मकत्वात् । शार इत्येतदेव हि कर्माभिहितं नेतरत् । ३ दक्षिणगमने वामगमने च परशारा बाधिता भवन्ति । तस्मिन् परशारैः कर्तृभिः पदानां गृहकाणां कर्मभूतानां स्वशारैर्बद्धत्वात् अप्रवेशः । ४ प्रदक्षिणाप्रसव्यगामी च शारो नीयमानो न सर्वोऽयानयीन इत्युच्यते, अपि तु कश्चिदेवेति । अयमर्थःयत्र फलके अक्षैव्यन्ति, तस्य यच्छिरोभूतं स्थानं कितवानां प्रसिद्धम्, तत्रस्थ एव शारोऽयानयीनः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560