Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 521
________________ ४३४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुप्राप्तेः इत्यषणोरुपादानम् । “हायनान्तात्" (७।१।६८ ) हायनान्तेभ्यो भावे कर्मणि चाण् स्यात् । द्वैहायनं २ । त्रैहायनं २ । अत्रावयोवचनत्वात् "चतुस्नेहायनस्य वयसि” (२।३।७४) इति णत्वं न भवति । वयसि तु पूर्वेणाब्-त्रैहायनं चातुर्हायणम् । “पुरु०” (७१।७० ) स्पष्टम् ॥ ९५ ।। अत्रोपयोगि सूत्रमाह । हृदयस्य हृल्लासलेखाण्ये ॥ ९६ ॥ [ सि० ३।२।९४ ] लासादिषु हृदयस्य हृत्स्यात् । हार्दम् २ । समासे तु सुपुरुषत्वम् परमहृदयत्वम् ॥ ९६ ॥ * इति भावकर्माधिकारः। "हृद०" लासश्च लेखा च अण् च यश्च लासलेखाण्यं तस्मिन् । एषु हृदयस्य हृद् स्यात् । असमास इति किम् ? परमपौरुषम् , परमहादमित्यादि मा भूत् । अत एव निषेधात्सापेक्षादपि भावप्रत्ययो विज्ञा१० यते, तेन काकस्य कार्ण्यम् , बलाकायाः शौक्लयमित्यादि सिद्धम् । पौरुषमिति प्राणिजात्यञ्यपि सिद्धम् , समासविषये प्रतिषेधार्थ पुरुषोपादानम् । आदिशब्दात् "श्रोत्रियाद्यलुक् च” (७१।७१) श्रोत्रियस्य भावः कर्म वा श्रौत्रम् श्रोत्रियत्वम् । इतिशब्दः समाप्तौ । भावकर्माधिकारः समाप्त इति ॥९६॥ शाकटादयो यथार्ह क्षेत्रे वाच्याः । इक्षुशाकटं शाकशाकिनम् । त्रैहेयम् । मौद्गीनम् । यव्यं यवक्यं षष्टिक्यम् ॥ “पील्वादेः कुणः पाके" (७११८७)॥ "कर्णादेर्मूले जाहः" १५(७११८८)॥ “पक्षात्तिः ” (७१।८९)। मूले ॥ "हिमादेलुः सहे" (७।१।९०)॥ "बलवातादूलः” (७।१।९१)॥"शीतोष्णतृप्रादालुरसहे” (७११९२)। तृपं दुःखम् ॥ शाकटादय इत्यादि । अत्र सूत्रम् "शाकटशाकिनी क्षेत्रे” (७।१।७८) । तस्येति वर्त्तते । क्षेत्रं धान्याद्युत्पत्तिभूमिः । षष्ठ्यन्तात्क्षेत्रेऽर्थे एतौ स्याताम् । इक्षुणां क्षेत्रं इक्षुशाकटम् , शाकानां क्षेत्रं शाक शाकिनम् ॥ त्रैहेयमिति-"नीहिशालेरेयण” (७।१६८०)। हेयम् । शालेयम् । मौद्गीनमिति२०"धान्येभ्य ईन” (७।१।७९)। कौलत्थीनम् , मौद्गीनम् । यव्यमिति-"यवयवकषष्टिकाद्यः" (७।१।८१) । यवक्यमिति-यव विशेषा एव यवकाः । षष्टिरात्रेण पच्यमानाः वीयः पष्टिकाः, अत एव निर्देशात् एभ्यस्त्रिभ्यः क्षेत्रेऽर्थे यो वा पक्षे ईनञ् । "वाणुमाषात्” (७।१।८२) । पक्षे इनञ् । अणूनां क्षेत्रमणव्यम् , आणवीनम् । माष्यं माषीणम् ॥ "वोमाभङ्गातिलात्" ( ७।१।८३ )। उमा अतसी, भङ्गा शणम् , द्वे अपि धान्ये । एवं उम्यं औमीनम् । भङ्गयं भाङ्गीनम् । तिल्यं तैलीनम् । ल इति क्षेत्रप्रकरणम् । अत्रादिशब्दात् "अलाब्वाश्च कटो रजसि” (७।१५८४) । षष्ठ्यन्तात् अलाबूशब्दात् उमादिभ्यश्च रजस्यर्थे कटः प्रत्ययः स्यात् । अलाब्वा रजः अलाबूकटम् , उमाकटम् , भङ्गाकटम् , तिलकटम् ॥ "अहा गम्येऽश्वादीन" (७।१।८५) षष्ठ्यन्तादश्वादेकेनाह्रा गम्येऽर्थे ईनञ् स्यात् । अश्वस्यैकेनाहा गम्यः, आश्वीनोऽध्वा ॥ "कुलाजल्पे” (७।१।८६) । ईनञ् । कुलस्य जल्पः कौलीनम् ॥ "पील्वा३० देरिति षट्सूत्री स्पष्टा । पीलूनां पाकः पीलुकुणः । पीलु, कर्कन्धु, शमी, करीर, बदर, कुवल, अश्वत्थ, खदिर, इति पील्वादयोऽष्टौ ॥ कर्णादेरिति-कर्णस्य मूलं कर्णजाहम् । कर्ण, अक्षि, आस्य, वक्र, नख, मुख, केश, दन्त, ओष्ठ , भ्रू, १० शृङ्ग, पाद, गुल्फ, पुष्प, फल, १५ इति कर्णादयः पञ्चदश ॥ पक्षस्य मूलं पक्षतिः । हिमस्य सहः हिमं सहमानः हिमेलुः । बलस्य सहः बलं सहमानः ३४ बलूलः । एवं वातूलः । शीतस्यासहः शीतमसहमानः शीतालुः, एवमुष्णालुः तृपालुः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560