________________
४३४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुप्राप्तेः इत्यषणोरुपादानम् । “हायनान्तात्" (७।१।६८ ) हायनान्तेभ्यो भावे कर्मणि चाण् स्यात् । द्वैहायनं २ । त्रैहायनं २ । अत्रावयोवचनत्वात् "चतुस्नेहायनस्य वयसि” (२।३।७४) इति णत्वं न भवति । वयसि तु पूर्वेणाब्-त्रैहायनं चातुर्हायणम् । “पुरु०” (७१।७० ) स्पष्टम् ॥ ९५ ।। अत्रोपयोगि सूत्रमाह ।
हृदयस्य हृल्लासलेखाण्ये ॥ ९६ ॥ [ सि० ३।२।९४ ] लासादिषु हृदयस्य हृत्स्यात् । हार्दम् २ । समासे तु सुपुरुषत्वम् परमहृदयत्वम् ॥ ९६ ॥
* इति भावकर्माधिकारः। "हृद०" लासश्च लेखा च अण् च यश्च लासलेखाण्यं तस्मिन् । एषु हृदयस्य हृद् स्यात् । असमास इति किम् ? परमपौरुषम् , परमहादमित्यादि मा भूत् । अत एव निषेधात्सापेक्षादपि भावप्रत्ययो विज्ञा१० यते, तेन काकस्य कार्ण्यम् , बलाकायाः शौक्लयमित्यादि सिद्धम् । पौरुषमिति प्राणिजात्यञ्यपि सिद्धम् , समासविषये प्रतिषेधार्थ पुरुषोपादानम् । आदिशब्दात् "श्रोत्रियाद्यलुक् च” (७१।७१) श्रोत्रियस्य भावः कर्म वा श्रौत्रम् श्रोत्रियत्वम् । इतिशब्दः समाप्तौ । भावकर्माधिकारः समाप्त इति ॥९६॥
शाकटादयो यथार्ह क्षेत्रे वाच्याः । इक्षुशाकटं शाकशाकिनम् । त्रैहेयम् । मौद्गीनम् । यव्यं यवक्यं षष्टिक्यम् ॥ “पील्वादेः कुणः पाके" (७११८७)॥ "कर्णादेर्मूले जाहः" १५(७११८८)॥ “पक्षात्तिः ” (७१।८९)। मूले ॥ "हिमादेलुः सहे" (७।१।९०)॥ "बलवातादूलः” (७।१।९१)॥"शीतोष्णतृप्रादालुरसहे” (७११९२)। तृपं दुःखम् ॥
शाकटादय इत्यादि । अत्र सूत्रम् "शाकटशाकिनी क्षेत्रे” (७।१।७८) । तस्येति वर्त्तते । क्षेत्रं धान्याद्युत्पत्तिभूमिः । षष्ठ्यन्तात्क्षेत्रेऽर्थे एतौ स्याताम् । इक्षुणां क्षेत्रं इक्षुशाकटम् , शाकानां क्षेत्रं शाक
शाकिनम् ॥ त्रैहेयमिति-"नीहिशालेरेयण” (७।१६८०)। हेयम् । शालेयम् । मौद्गीनमिति२०"धान्येभ्य ईन” (७।१।७९)। कौलत्थीनम् , मौद्गीनम् । यव्यमिति-"यवयवकषष्टिकाद्यः" (७।१।८१) । यवक्यमिति-यव विशेषा एव यवकाः । षष्टिरात्रेण पच्यमानाः वीयः पष्टिकाः, अत एव निर्देशात् एभ्यस्त्रिभ्यः क्षेत्रेऽर्थे यो वा पक्षे ईनञ् । "वाणुमाषात्” (७।१।८२) । पक्षे इनञ् । अणूनां क्षेत्रमणव्यम् , आणवीनम् । माष्यं माषीणम् ॥ "वोमाभङ्गातिलात्" ( ७।१।८३ )। उमा अतसी, भङ्गा शणम् , द्वे अपि धान्ये । एवं उम्यं औमीनम् । भङ्गयं भाङ्गीनम् । तिल्यं तैलीनम् ।
ल इति क्षेत्रप्रकरणम् । अत्रादिशब्दात् "अलाब्वाश्च कटो रजसि” (७।१५८४) । षष्ठ्यन्तात् अलाबूशब्दात् उमादिभ्यश्च रजस्यर्थे कटः प्रत्ययः स्यात् । अलाब्वा रजः अलाबूकटम् , उमाकटम् , भङ्गाकटम् , तिलकटम् ॥ "अहा गम्येऽश्वादीन" (७।१।८५) षष्ठ्यन्तादश्वादेकेनाह्रा गम्येऽर्थे ईनञ् स्यात् । अश्वस्यैकेनाहा
गम्यः, आश्वीनोऽध्वा ॥ "कुलाजल्पे” (७।१।८६) । ईनञ् । कुलस्य जल्पः कौलीनम् ॥ "पील्वा३० देरिति षट्सूत्री स्पष्टा । पीलूनां पाकः पीलुकुणः । पीलु, कर्कन्धु, शमी, करीर, बदर, कुवल,
अश्वत्थ, खदिर, इति पील्वादयोऽष्टौ ॥ कर्णादेरिति-कर्णस्य मूलं कर्णजाहम् । कर्ण, अक्षि, आस्य, वक्र, नख, मुख, केश, दन्त, ओष्ठ , भ्रू, १० शृङ्ग, पाद, गुल्फ, पुष्प, फल, १५ इति कर्णादयः पञ्चदश ॥ पक्षस्य मूलं पक्षतिः । हिमस्य सहः हिमं सहमानः हिमेलुः । बलस्य सहः बलं सहमानः ३४ बलूलः । एवं वातूलः । शीतस्यासहः शीतमसहमानः शीतालुः, एवमुष्णालुः तृपालुः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org