________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । व्याप्नोतीत्याद्यर्थाः
आदिशब्दात् “यथामुखसम्मुखादीनस्तदृश्यतेऽस्मिन् ” (७|१|९३) आभ्यां प्रथमान्ताभ्यां सप्तम्यर्थे ईनः स्यात् प्रथमान्तं चेदृश्यते इति भवति । यथामुखं दृश्यतेऽस्मिन् यथामुखीनः आदर्शादिः । मुखस्य सदृशोऽर्थो यथामुखं प्रतिबिम्बमुच्यते, अत एव निपातनात् " यथाऽथा ” ( ३।१।४१ ) इति प्रतिषेधेऽव्ययीभावः । समं मुखं सम्मुखं समं मुखमस्यानेन वा सम्मुखं प्रतिबिम्बमेव, अत एव निपातनात् समशब्दस्यान्तलोपः । सम्मुखं दृश्यतेऽस्मिन्निति सम्मुखीनः यथामुखीनः सीताया ५ इति । सम्मुखीनो हि जयो रन्ध्रप्रहारिणामिति तु उपमानात् ।
सर्वादेः पथ्यङ्गकर्म पत्रपात्रशरावं व्याप्नोति ॥ ९७ ॥ [ सि० ७ १९४ ]
सर्वशब्दपूर्वेभ्य एभ्यः षड्भ्यो व्यामोतीत्यर्थे ईनः स्यात् । सर्वपथीनो रथः । सर्वाङ्गीणं शम् । सर्वकर्मीणो ना । सर्वपत्रीणो यन्ता । सर्वपात्रीणं सर्वशरावीणं घृतम् । * अलङ्गामिन्यध्वनोऽमन्ताद्येनौ वाच्यौ-अ - अध्वन्यः अध्वनीनः समांसमीन साप्तपदीनादयः साधवः ॥ १० कचित्स्वार्थे ईनः - अषडक्षीणो मत्रः । अलङ्कर्माणोऽलम्पुरुषीणो ना ॥ ९७ ॥
४३५
“सर्वा०” । एभ्यः षड्भ्यः इति - द्वितीयान्तेभ्य इति शेषः । सर्वपथं व्याप्नोति सर्वपथीनः । सर्वपथान् व्याप्नोति सर्वपथीनमुदकम् । सर्वाणि कर्माणि व्याप्नोति सर्वकर्मीणो ना पुमान् । यन्ता सारथिः ।
आदिशब्दात् "आपदम् ” ( ७।१।९५) । प्रगतं पदं प्रपदं पदाप्रमित्यर्थः । अथवा प्रवृद्धं पदं प्रपदम् । पदस्योपरिष्टात् संस्था खलुको गुल्फ इति यावत् । आङ् मर्यादायामभिविधौ वा । आ प्रपदात् १५ आप्रपदम्, “पर्यपाङ्” ( ३।१।३२ ) इत्यादिनाव्ययीभावः । अस्माद्वितीयान्ताद्व्याप्नोतीत्यर्थे ईनः स्यात् । आप्रपदं व्याप्नोति न तदतिवर्त्तते यः स आप्रपदीनः पटः - अनेन पटस्य प्रमाणमाख्यायते ॥ "अनुपदं बद्धा" ( ७।१।९६ ) । द्वितीयान्तादनुपदशब्दाद्वद्धा इत्यर्थे ईनः स्यात् । अनुपदं बद्धा अनुपदीना उपानत्-पदप्रमाणेत्यर्थः । अनुपदमिति " दैर्येऽनुः " ( ३|१|३४ ) इत्यव्ययीभावः ॥ "अयानयं नेयः” ( ७।१।९७ ) अस्माद्दितीयान्तान्नेय इत्यर्थे ईनः स्यात् । अयानयं नेयः अयान - २० यीनः शारः - फलकशिरसि स्थितः उच्यते । अयः प्रदक्षिणं गमनम् अनयः प्रसव्यं वामम् । शारि द्यूते हि केचिच्छाराः प्रदक्षिणं गच्छन्ति केचित्प्रसव्यम्, तेषां गतिरयसहितोऽनयोऽयानय इत्युच्यते । यस्मिन् परशारैः पदानामप्रवेशः तदुभयं नेयः अयानयीन इति रूढिः । अथवा अयः शुभं दैवम्, अनयो अशुभम्, शुभाद्दैवादपवर्त्ततेऽशुभं दैवं यस्मिन् कर्मणि तदयानयं शान्तिकर्म्म चतुःशरणप्रतिपत्तिरनाघातघोषणं देवगुरुपूजा तपो दानं ब्रह्मचर्यादिनियमस्तद्यो नेयः कारयितव्यः सोऽयान- २५ यीन ईश्वर इति ॥ " सर्वान्नमत्ति " ( ७।१।९८) सर्वप्रकारमन्नं सर्वान्नं तदत्ति सर्वान्नीनः भिक्षुः । नियमरहितः । सर्वशब्दः प्रकारकात्रूयें || परोवरीणपरम्परीणपुत्रपौत्रीणम्" ( ७।१।९९) ।
1
योऽनुभवत्यर्थे प्रत्ययान्ता निपात्यन्ते । परावरशब्दाद्वितीयान्तादीनः अवरशब्दाकारस्योत्वं निपातनात् ; परांश्चावराँश्चानुभवति परोवरीणः । पारोवर्यमित्यत्रातीत क्रमवाचि परोवरमिति शब्दान्तरमिति " सूरयः” । [ यदि प्रत्ययसन्नियोगे ओत्वम्, तत्कथमत्र तदभावे इत्याशङ्का ] । “कथं पारोवर्यवदिति ३०
1
१ पदं लक्ष्यीकृत्यायतं बन्धनमिति क्रियाविशेषणत्वात् द्वितीया मेदोपचाराद् बद्धेत्युच्यते । २ कर्म्मणि द्वितीया । यद्यपि नेयशब्देन कर्माभिधीयते, तथापि अयानयशब्दाद्वितीया भवत्येव-द्विकर्मकत्वात् । शार इत्येतदेव हि कर्माभिहितं नेतरत् । ३ दक्षिणगमने वामगमने च परशारा बाधिता भवन्ति । तस्मिन् परशारैः कर्तृभिः पदानां गृहकाणां कर्मभूतानां स्वशारैर्बद्धत्वात् अप्रवेशः । ४ प्रदक्षिणाप्रसव्यगामी च शारो नीयमानो न सर्वोऽयानयीन इत्युच्यते, अपि तु कश्चिदेवेति । अयमर्थःयत्र फलके अक्षैव्यन्ति, तस्य यच्छिरोभूतं स्थानं कितवानां प्रसिद्धम्, तत्रस्थ एव शारोऽयानयीनः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org