________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअसाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात्” इति सिद्धान्तकौमुद्याम् । परपरतरशब्दादीनः, परम्परभावश्च; परान् परतरांश्चानुभवति परम्परीणः । मश्रिपरम्परा मनं भिनत्तीत्यत्र परम्पराशब्दस्त्वावन्तो बाहुल्यार्थः प्रकृत्यन्तरम् । पुत्रांश्च पौत्रांश्चानुभवति पुत्रपौत्रीणः ॥ “यथाकामानुकामात्यन्तं गामिनि” (७।१।१००)। एभ्यविभ्यो द्वितीयान्तेभ्यो गामिन्यर्थे ईनः स्यात् । ५ यथाकामं गामी यथाकामीनः । एवमनुकामीनः यथेच्छंगामीत्यर्थः । अत्यन्तं गामी अत्यन्तीन:-भृशं गन्तेत्यर्थः ॥ "पारावारं व्यस्तव्यत्यस्तं च" (७।१।१०१)। समस्तव्यस्तव्यत्यस्ताहितीयान्तात्पारावारशब्दाद्गामिन्यर्थे ईनः स्यात् । पारावारं गामी पारावारीणः, पारीणः; अवारीणः, अवारपारीणः ॥ "अनुग्वलम्” (७१।१०२) अस्माद्वितीयान्तादलङ्गामिन्यर्थे ईनः स्यात् । गवां पश्चादनुगुः ।।
'विभक्तिसमीप०" (३।१।३९) इत्यादिनाव्ययीभावः अनुगु (तद् ) अलं पर्याप्तं गामी अनुगवीनो १० गोपालकः ॥ *अलमित्यादि फक्किका स्पष्टा । अत्र सूत्रम्-"अध्वानं येनौ” (७१।१०३) द्वितीयान्तादध्वन्शब्दात् अलङ्गामिन्यर्थे एतौ स्याताम् । अध्वानमलङ्गामी अध्वन्यः, अध्वनीनः "ईनेऽध्वात्मनोः" (७।४।४८) इत्यन्यस्वराद्यलुक् ।
आदिशब्दात् "अभ्यमित्रमीयश्च” (७१।१०४) अस्माद्वितीयान्तादीयश्चकाराद्येनौ च स्युः । अमित्रस्याभिमुखमभ्यमित्रं तदलङ्गामी अभ्यमित्रीयः अभ्यमित्र्यः अभ्यमित्रीणः । सिमांस१५ मीनेत्यादि "समांसमीनाद्यश्वीनाद्यप्रातीनागवीनसाप्तपदीनम्” (७१।१०५) । एज्वन्त्य ईनप्रत्ययान्तः, शेषा ईनप्रत्ययान्ता निपात्यन्ते । समांसमीनेति समां समामिति वीप्साद्वितीयान्तात्समुदायाद्गर्भ धारयतीत्यर्थे ईन:, पूर्वपदविभक्तेश्वालुप् । समां समां गर्भ धारयति समांसमीना गौः; समामिति "कालाध्वनोाप्तौ” (२।२।४२ ) इति द्वितीया । अन्ये समायां समायां विजायते गर्भ विमुश्चति समांसमीनेति पूर्वपदस्य यलोपः, शेषविभक्त्यावयवस्यालुक् , उत्तरपदस्य च विभक्तेलृक् , २०व्याप्त्यभावाच्चाधिकरणे सप्तमीत्याहुः । समांसमीना तु सा, या प्रतिवर्ष विजायते । प्रयोगोऽपि-'समां
समीना रसवत्युदारा समांसमीना रसधेनवश्च । पुरन्दरस्याविषयो यदि स्यात्पुरन्दरस्यापि पदं न किञ्चित्" ॥१॥ खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः समां विजायते समायां समायां इति सिद्धान्तकौमुद्याम् । अद्यश्वःशब्दयोर्वार्थे समासः, विजनिष्यमाणेऽर्थे विजननस्य प्रत्यासत्तौ गम्या
यामीनः । अद्य श्वो वा विजनिष्यमाणा अद्यश्वीना गौः-आसन्नप्रसवेत्यर्थः । अन्ये तु प्रत्यासत्तौं २५ गम्यायां भविष्यत्यऽर्थे प्रत्ययमाहुः-अद्यश्वो वा भविष्यति अद्यश्वीनो लाभः । एवमद्यप्रातःशब्दादीन:अद्यप्रातीना गौः, अद्यप्रातीनो लाभः ॥ आगोप्रतिदानशब्दात्कारिण्यर्थे ईनः, प्रतिदानस्य च लुक् ; आगोप्रतिदानं कारी आगवीनः कर्मकरः-गवा भृतो य आ तस्या गोः प्रत्यर्पणात्कर्म करोति स आगवीनः । रूढिशब्दोऽयं यत्किञ्चिदादाय आ तस्य प्रतिदानात् कर्मकर एवमुच्यते इत्येके । अन्ये तु
आ गोः प्राप्तेः कर्मकारी आगवीन इत्याहुः ॥ सप्तपदशब्दात्तृतीयान्तावाप्येऽर्थे ईनञ् , यदवाप्यं ३० तत्सख्यं सखा वा यदि स्यात् , सप्तभिः पदैरवाप्यं साप्तपदीनं सख्यम् , साप्तपदीनः सखा । कचि.
खार्थे इत्यादि अत्र सूत्रम्-"अषडक्षाशितंग्वलङ्कमालम्पुरुषादीनः” (७।१।१०६)। एभ्यश्चतुर्थ्यः स्वार्थे ईनः स्यात् । अविद्यमानानि षडक्षीण्यस्मिन् अषडक्षीणो मन्त्रः; "सक्थ्यक्ष्ण०” (७॥ ३।१२६) इति टान्तादीनः। द्वाभ्यां क्रियते इत्यर्थः ।। (अषडक्षीणा क्रीडा-द्वाभ्यां साध्यते इत्यर्थः) अषडक्षीणः कन्दुकः येन द्वौ क्रीडतः ।। अदृश्यानि षडक्षीण्यस्य अषडक्षीणचैत्रः, पितुः पितामहस्य ३५ पुत्रस्य चाद्रष्टोच्यते ॥ इन्द्रियपर्यायो वाऽक्षशब्दः अविद्यमानानि षडक्षाण्यस्याषडक्षीणोऽमनस्को
१ ननु समायाः कथं व्याप्तिरेकदेशे एव गर्भग्रहणात् । सत्यम् । अवयवे समुदायोपचारात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org