________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । भावकर्मार्थाः
४३३ विषयभूतेषु भावे कर्मणि च लिदक स्यात् । श्लाघा विकत्थनम् , अत्याकारः पराधिक्षेपः, विषयभावः पुनः श्लाघादीनां क्रियारूपाणां भावकर्मणी प्रति सोध्यत्वात् । गोत्रमपत्यं प्रवराध्यायपठितं च । चरणं शाखानिमित्तं कठादि । गाय॑स्य भावः कर्म वा गार्गिका, एवं काठिका; तया श्लाघते, विकत्थते, अत्याकुरुते, परं अधिक्षिपति; गार्गिकां काठिकां प्राप्तवान् , अधिगतवान् , एवमवगतवान् , ज्ञातवान्, गार्यत्वेन गार्ग्यतया श्लाघते इत्यादि । "होत्राभ्य ईयः” (७११७६ )५ होत्राशब्द ऋत्विग् ( विशेष )वचनः । ऋत्विग्विशेषवाचिभ्यो भावे कर्मणि च ईयः स्यात् । मैत्रावरुणस्य भावः कर्म वा मैत्रावरुणीयं मैत्रावरुणत्वं २ । अग्नीधः अग्नीधीयं २ । नेष्टुर्नेष्टीयं २ । पोतुः पौत्रीयं २ । ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसीयं २ । हूयते आभिरिति होत्रा, ऋच इत्येके । तान्येवोदाहरणानि । मैत्रावरुणादयस्तु ऋग्वचनाः । बहुवचनं स्वरूपविधिव्युदासार्थम् ॥ "ब्रह्मणस्त्वः ” (७।१।७७) ऋत्विग्वाचिनोऽस्माद्भावे कर्मणि च त्वः स्यात् ।१० ईयोपवादः । ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् । होत्राधिकारात् ब्राह्मणपर्यायाज्जातिवाचिनोऽस्मात्तलपि-ब्रह्मत्वं ब्रह्मता । “सखि.” "मृगव्यचव्ये च वणिज्यवीर्येति लिङ्गानुशासनवचनात् वणिज्या वणिज्यमिति स्त्रीनपुंसकत्वम् । एवं दूत्या दूत्यम् । राजादेराकृतिगणत्वात् ट्यणि वाणिज्यं दौत्यम् ।। "स्ते." ये इति-नलुक् च यप्रत्यये पर एव भवति नान्यत्र । स्तेनत्वं स्तेनता । राजादिदर्शनात् ट्यणपि स्तैन्यमिति । “कपि.” कापेयमिति एवं ज्ञातेर्भावः कर्म वा ज्ञातेयं २ । कँपेरिकारान्त-१५ त्वात् “य्वृवर्णात्" इत्यणि प्राप्ते ज्ञातेश्च प्राणिजातित्वादवि प्राप्ते वचनम् । "प्राणि." आश्वमितिएवं द्वीपिनो द्वैपं हस्तिनो हास्तं अभि "नोऽपदस्य.” (७।४।६१) इत्यन्त्यस्वरादिलुप् । कौमारमितिएवं कैशोरं शावं बार्करं कालभम् । प्राणिग्रहणात् तृणत्वमित्यादौ, जातिग्रहणात् देवदत्तत्वमित्यादावञ् न स्यात् ॥ “युवा०" लिङ्गविशिष्टस्यापि ग्रहणात् यूनो युवतेर्भावः कर्म वा यौवनम्, चौरादिपाठाद्यौवनिकेत्यपि भवति । युवन , स्थविर, यजमान, कुतुक, श्रमण, श्रमणक, श्रवण, कमण्डलुक, कुस्त्री, २० दुःस्त्री, १० सुत्री, सुहृदय, दुहृदय, सुहृत् , दुहृत् , सुभ्रात, दुोट, वृषल, परिव्राजक, सब्रह्मचारिन् , २० अनृशंस, चपल, कुशल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, उद्गाट, उन्नेत, प्रशास्तु, ३० प्रतिहत, होट, पोत, भ्रातृ, भर्तृ, रथगणक, पत्तिगणक, सुष्टु, दुष्टु, अध्वर्यु, ४० कर्तृ, मिथुन, कुलीन, सहस्, (सहस्र ?) कण्डक, कितव, इति युवादयः षट्चत्वारिंशत् ४६ । स्थविरश्रमणपिशुननिपुणकुशलचपल-अनृशंसेभ्यो राजादिदर्शनात् ट्यणपि भवति । स्थावर्य श्रामण्यमित्यादि । पूर्वत्राणि द्वैपादि न सिद्ध्यति अणीत्यन्त्यस्वरलोपनिषेधात् , इह त्वनि यौवनादि न सिद्ध्यति अन्त्यस्वरादिलोप-२६
१न विशेषणेषु यतो विशेषणानि न घटन्ते, कुत इति चेत् ? उच्यते-भाव इति शब्दस्य प्रवृत्तिनिमित्तमिह गृह्यते । गार्गिका इत्यादिषु न श्लाघादयः प्रवृत्तिनिमित्तान्यपि तर्हि गर्गखमिति । कर्म इति च क्रिया गृह्यते, अतः क्रिया क्रियाविशेषणं न संभवतीति श्लाघादिषु विषयभूतेष्विति व्याख्यातम् । २ भावकर्मभ्या कर्तृभ्यां श्लाघादयो यत्र साध्यन्ते इति तात्पर्यम् । विषयभाव इत्यादिना श्लाघादीनां भावकर्मणी प्रति विषयमाह, एषां च भावकर्मणी प्रति विषयवं भावकर्मसाध्यत्वात् , क्रियारूपत्वाच तेषां भावकर्मणी प्रति साध्यत्वमुपपद्यत एव, भावकर्मणोः सत्त्वात्मनोस्तत्र कारकलोपपत्तेरिति श्लाघादीनां कारके भावे कर्मणि च प्रत्यय इत्यर्थः, अयमर्थः- श्लाघाद्या हि कियाः, ताश्च कारकैरेव साध्याः, कारकाणि चात्र भावकर्मरूपाण्येवेति तैः साध्यत्वम् । ३ प्रवरमाद्यं गोत्रं तस्याध्यायस्तत्र पठितं यद्गोत्रं तदप्यभिधीयते, एतेन किमुक्तं भवति, द्विविधमिह गोत्रं गृह्यते, तेन मित्रयोर्भावः कर्म वेति कृते मैत्रयिकेत्यत्र प्रयोजनम् । ४ स्त्रीलिङ्गोऽपि सन् ऋविजः प्राह । ५ईयेत्युपलक्षणं तलोऽप्ययमपवादः । अन्यथा ईयस्यैव प्रतिषेधे ब्रह्मणो नेति सूत्रं कुर्यात् । ६ न केवलं 'भावे लतलू' इत्यनेन खः किन्तु तलपि, अयमर्थः-ऋखिगवचनस्य ब्राह्मणवचनस्य च प्रत्ययः समानः, तेन जातिवचनस्य तलपि भवतीत्यर्थः । उपलक्षणं चेदं तेन ब्रह्मणो भावः कर्म वा प्राणिजात्यमि ब्राह्ममित्यपि ॥ ७ यद्यपि कपिशब्दस्य प्राणिजातिवं तथापि विशेषत्वात 'वृवर्ण.' इत्यणि प्राप्ते।
है. प्रकापूर्वा० ५५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org