Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 519
________________ ४३२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु अर्हतस्तोन्त् च ॥ ९४ ॥ [ सि० ७१।६१ ] असात् व्यण, तस्य न्तादेशः । आर्हन्त्यं २ । “सहायादा” (७४।६२) । व्यण् । साहाययम् ॥ ९४॥ "अहं." । अरिहननात् रजोहननात् रहस्याभावाच अर्हन पृषोदरादित्वात् ; यद्वा चतुस्त्रिंशतमति५शयान सुरेन्द्रादिकृतां पूजां चाहतीत्यर्हन् । आर्हन्यमाईन्ती अर्हत्त्वमहत्ता । "ट्यण् कर्बनटौ क्वचित्" इति लिङ्गानुशासनवचनात् ट्यणप्रत्ययान्तं नाम लक्ष्यानुसारेण स्त्रील्लीबलिङ्गम् *औचित्यं औचिती, याथाकाम्यं याथाकामी, वैदग्ध्यं वैदग्धी, मैत्र्यं मैत्री, आनुपूर्य आनुपूर्वी, चातुर्य चातुरी, सामग्र्यं सामग्री । टित्त्वात् डीः, "व्यञ्जनात्तद्धितस्य” (२।४।८८) इति यलुक् । “सहा." ॥ ९४ ॥ वा वचनात् पक्षे सूत्रमाह। १० योपान्त्याद्गुरूपोत्तमादसुप्रख्यादकञ् ॥ ९५॥ [ सि० ७।१।७२.] ध्यादीनामन्त्यमुत्तमं तत्समीपमुपोत्तमं तद्गुरुर्यस्य तमाद्योपान्त्यात्सुप्रख्यवर्जादकञ् स्यात् । साहायकं २ । रामणीयकं २ । “चौरादेः” (७१।७३)। अकञ् । चौरिका चौरकं चौर्यम् । "सखिवणिग्दूतायः” (७११६३) सख्यं २ । वणिज्या वाणिज्यम् २ । दृत्यं दौत्यं २ । स्तेनान्न लुक च” (७।१।६४)। स्तेनाद्यो वा न लुक् ये । स्तेयं स्तैन्यं २ । “कपिज्ञातेरेयण" १५ (७।१।६५) कापेयम् । “प्राणिजातिवयोर्थादम्” (७।१।६६)। आश्वं २ । कौमारं २ ॥ "युवादेरण्” (७।१।६७)। यौवनं २ । स्थाविरं २ । “पुरुषहृदयादसमासे” (७।११७७) अण् । पौरुषम् २ ॥ ९५ ॥ “योपा.” तद्गुरुर्यस्येति गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति । आचार्यकम् । गुरुग्रहणं हि दीर्घपरिग्रहार्थं संयोगपरिग्रहार्थ च । रामणीयकमिति–एवं दार्शनीयकम् २ । पानीयकं २ । औपा२०ध्यायकं । अत्र सर्वत्र द्विकेनाङ्केन त्वतलूरूपे अनुवर्तनीये । सुप्रख्यवर्जनात् सौप्रख्यम् २, गुणाङ्गत्वात् ट्यण । सूत्रम् "चौरा०" । एभ्यो भावे कर्मणि चाऽकञ् स्यात् । चौरस्य भावः कर्म वा चौरिका चौरकम् २ । धौर्तिका धौर्त्तकम् । मानोज्ञकम् । प्रैयरूपकम् । चौर, धूर्त, युवन् , ग्राम, पुत्र, (ग्रामपुत्र ) ग्रामसाण्ड, ग्रामसण्ड, ग्रामकुमार, ग्रामकुल, ग्रामकुलाल, १० आमुष्यपुत्र, अमुप्यकुल, शरपत्र, शारपत्र, मनोज्ञ, प्रियरूप, अदोरूप, अभिरूप, बहुल, मेधाविन् , २० कल्याण, २५ आढ्य, सुकुमार, छान्दस, छात्र, श्रोत्रिय, विश्वदेव, ग्रामिक, कुलपुत्र, सारपुत्र, ३० वृद्ध, अवश्यम्, ३२ इति चौरादयो द्वात्रिंशत् । अत्र मनोज्ञादीनामकसन्तानां नपुंसकत्वमेव । पूर्वेषां तु "चौराद्यमनोज्ञाद्यकमिति' स्त्रीनपुंसकते । चौर्यं धौ] ग्रामिक्यमिति राजादित्वात् ट्यणपि ॥ "द्वन्द्रालित" (७।१।७४) द्वन्द्वसमासान्तस्य भावे कर्मणि चाकञ् स्यात् ( स च लित्, त्वतलौ च ) लित्करणं स्त्रीत्वार्थम् । गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका, शैष्योपाध्या३० यिका, कौत्सकुशिकिका, विश्व पक्षी, ना च नरः, वित्रो वः कर्म वा वैत्रिका, अत्र "वर्णाल्ल ध्वादेः” (७।१।६९) इत्यणि प्राप्ते परत्वादकञ् । एवं भारतबाहुबलिका, गोपालपशुपालत्वं गोपालप३२शुपालता । "गोत्रचरणात् श्लाघात्याकारप्रात्यवगमे” (७१।७५) आभ्यां श्लाघादिषु Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560