Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 520
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । भावकर्मार्थाः ४३३ विषयभूतेषु भावे कर्मणि च लिदक स्यात् । श्लाघा विकत्थनम् , अत्याकारः पराधिक्षेपः, विषयभावः पुनः श्लाघादीनां क्रियारूपाणां भावकर्मणी प्रति सोध्यत्वात् । गोत्रमपत्यं प्रवराध्यायपठितं च । चरणं शाखानिमित्तं कठादि । गाय॑स्य भावः कर्म वा गार्गिका, एवं काठिका; तया श्लाघते, विकत्थते, अत्याकुरुते, परं अधिक्षिपति; गार्गिकां काठिकां प्राप्तवान् , अधिगतवान् , एवमवगतवान् , ज्ञातवान्, गार्यत्वेन गार्ग्यतया श्लाघते इत्यादि । "होत्राभ्य ईयः” (७११७६ )५ होत्राशब्द ऋत्विग् ( विशेष )वचनः । ऋत्विग्विशेषवाचिभ्यो भावे कर्मणि च ईयः स्यात् । मैत्रावरुणस्य भावः कर्म वा मैत्रावरुणीयं मैत्रावरुणत्वं २ । अग्नीधः अग्नीधीयं २ । नेष्टुर्नेष्टीयं २ । पोतुः पौत्रीयं २ । ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसीयं २ । हूयते आभिरिति होत्रा, ऋच इत्येके । तान्येवोदाहरणानि । मैत्रावरुणादयस्तु ऋग्वचनाः । बहुवचनं स्वरूपविधिव्युदासार्थम् ॥ "ब्रह्मणस्त्वः ” (७।१।७७) ऋत्विग्वाचिनोऽस्माद्भावे कर्मणि च त्वः स्यात् ।१० ईयोपवादः । ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् । होत्राधिकारात् ब्राह्मणपर्यायाज्जातिवाचिनोऽस्मात्तलपि-ब्रह्मत्वं ब्रह्मता । “सखि.” "मृगव्यचव्ये च वणिज्यवीर्येति लिङ्गानुशासनवचनात् वणिज्या वणिज्यमिति स्त्रीनपुंसकत्वम् । एवं दूत्या दूत्यम् । राजादेराकृतिगणत्वात् ट्यणि वाणिज्यं दौत्यम् ।। "स्ते." ये इति-नलुक् च यप्रत्यये पर एव भवति नान्यत्र । स्तेनत्वं स्तेनता । राजादिदर्शनात् ट्यणपि स्तैन्यमिति । “कपि.” कापेयमिति एवं ज्ञातेर्भावः कर्म वा ज्ञातेयं २ । कँपेरिकारान्त-१५ त्वात् “य्वृवर्णात्" इत्यणि प्राप्ते ज्ञातेश्च प्राणिजातित्वादवि प्राप्ते वचनम् । "प्राणि." आश्वमितिएवं द्वीपिनो द्वैपं हस्तिनो हास्तं अभि "नोऽपदस्य.” (७।४।६१) इत्यन्त्यस्वरादिलुप् । कौमारमितिएवं कैशोरं शावं बार्करं कालभम् । प्राणिग्रहणात् तृणत्वमित्यादौ, जातिग्रहणात् देवदत्तत्वमित्यादावञ् न स्यात् ॥ “युवा०" लिङ्गविशिष्टस्यापि ग्रहणात् यूनो युवतेर्भावः कर्म वा यौवनम्, चौरादिपाठाद्यौवनिकेत्यपि भवति । युवन , स्थविर, यजमान, कुतुक, श्रमण, श्रमणक, श्रवण, कमण्डलुक, कुस्त्री, २० दुःस्त्री, १० सुत्री, सुहृदय, दुहृदय, सुहृत् , दुहृत् , सुभ्रात, दुोट, वृषल, परिव्राजक, सब्रह्मचारिन् , २० अनृशंस, चपल, कुशल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, उद्गाट, उन्नेत, प्रशास्तु, ३० प्रतिहत, होट, पोत, भ्रातृ, भर्तृ, रथगणक, पत्तिगणक, सुष्टु, दुष्टु, अध्वर्यु, ४० कर्तृ, मिथुन, कुलीन, सहस्, (सहस्र ?) कण्डक, कितव, इति युवादयः षट्चत्वारिंशत् ४६ । स्थविरश्रमणपिशुननिपुणकुशलचपल-अनृशंसेभ्यो राजादिदर्शनात् ट्यणपि भवति । स्थावर्य श्रामण्यमित्यादि । पूर्वत्राणि द्वैपादि न सिद्ध्यति अणीत्यन्त्यस्वरलोपनिषेधात् , इह त्वनि यौवनादि न सिद्ध्यति अन्त्यस्वरादिलोप-२६ १न विशेषणेषु यतो विशेषणानि न घटन्ते, कुत इति चेत् ? उच्यते-भाव इति शब्दस्य प्रवृत्तिनिमित्तमिह गृह्यते । गार्गिका इत्यादिषु न श्लाघादयः प्रवृत्तिनिमित्तान्यपि तर्हि गर्गखमिति । कर्म इति च क्रिया गृह्यते, अतः क्रिया क्रियाविशेषणं न संभवतीति श्लाघादिषु विषयभूतेष्विति व्याख्यातम् । २ भावकर्मभ्या कर्तृभ्यां श्लाघादयो यत्र साध्यन्ते इति तात्पर्यम् । विषयभाव इत्यादिना श्लाघादीनां भावकर्मणी प्रति विषयमाह, एषां च भावकर्मणी प्रति विषयवं भावकर्मसाध्यत्वात् , क्रियारूपत्वाच तेषां भावकर्मणी प्रति साध्यत्वमुपपद्यत एव, भावकर्मणोः सत्त्वात्मनोस्तत्र कारकलोपपत्तेरिति श्लाघादीनां कारके भावे कर्मणि च प्रत्यय इत्यर्थः, अयमर्थः- श्लाघाद्या हि कियाः, ताश्च कारकैरेव साध्याः, कारकाणि चात्र भावकर्मरूपाण्येवेति तैः साध्यत्वम् । ३ प्रवरमाद्यं गोत्रं तस्याध्यायस्तत्र पठितं यद्गोत्रं तदप्यभिधीयते, एतेन किमुक्तं भवति, द्विविधमिह गोत्रं गृह्यते, तेन मित्रयोर्भावः कर्म वेति कृते मैत्रयिकेत्यत्र प्रयोजनम् । ४ स्त्रीलिङ्गोऽपि सन् ऋविजः प्राह । ५ईयेत्युपलक्षणं तलोऽप्ययमपवादः । अन्यथा ईयस्यैव प्रतिषेधे ब्रह्मणो नेति सूत्रं कुर्यात् । ६ न केवलं 'भावे लतलू' इत्यनेन खः किन्तु तलपि, अयमर्थः-ऋखिगवचनस्य ब्राह्मणवचनस्य च प्रत्ययः समानः, तेन जातिवचनस्य तलपि भवतीत्यर्थः । उपलक्षणं चेदं तेन ब्रह्मणो भावः कर्म वा प्राणिजात्यमि ब्राह्ममित्यपि ॥ ७ यद्यपि कपिशब्दस्य प्राणिजातिवं तथापि विशेषत्वात 'वृवर्ण.' इत्यणि प्राप्ते। है. प्रकापूर्वा० ५५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560