Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 509
________________ ४२२ महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञहैमलघु " वश्यो गौर्विधेयः, इच्छानुवर्तीति यावत् निपातनं रूढ्यर्थं तेनेह न भवति - वशङ्गतः इच्छां प्राप्तः; अभिप्रेतं गत इत्यर्थः । पथिन्शब्दादनपेते यः; पथोऽनपेतं पथ्यं ओदनादि, निपातनादिह न भवतिपथोऽनपेतं शकटादि । वयः शब्दात्तृतीयान्तात्तुल्येऽर्थे यः, वयसा तुल्यो वयस्यः सखा; निपातनादिह न भवति - वयसा तुल्यः शत्रुः । धेनुशब्दाद्विशिष्टायां धेनौ यः षोऽन्तश्च धेनुष्या, या गोमता ५ गोपालायाधमर्णेन चोत्तमर्णाय आ ऋणप्रदानाद्दोहार्थं धेनुर्दीयते सा धेनुरेव धेनुष्या; पीतदुग्धेति यस्याः प्रसिद्धिः ‘पीतदुग्धा धेनुष्ये' ति वचनात् । गृहपतिशब्दात्तृतीयान्तात्संयुक्तेऽर्थे यः, गृहप संयुक्त गार्हपत्योऽभिविशेषः, निपातनादन्यत्र न भवति । जनीशब्दाद्वधूवाचिनो द्वितीयान्ताद्वहत्सु अभिधेयेषु जनशब्दाच्च षष्ठ्यन्ताज्जल्पेऽर्थे यः, जनीं वहन्ति जन्याः, जामातुर्वयस्याः, जनस्य जल्पो जन्यः; निपातनादन्यत्र न भवति । धर्मशब्दात्तृतीयान्तात्प्राप्येऽर्थे पञ्चम्यन्ताञ्चानपेते यः; धर्मेण १० प्राप्यं धर्म्यम्; धर्मादनपेतं च धर्म्यम्, यद्धर्ममनुवर्त्तते । " नौवि०" । आभ्यां तृतीयान्ताभ्यामनयोरर्थयोर्यः स्यात् । नावा तार्या नाव्या नदी । विषेण वध्यो विष्यः शत्रुरिति ॥ "न्याय ०" आभ्यां पञ्चम्यन्ताभ्यामनपेतेऽर्थे यः स्यात् ॥ १५ आदिशब्दात् " मतमदस्य करणे" ( ७|१|१४ ) आभ्यां षष्ठ्यन्ताभ्यां करणेऽर्थे यः स्यात् । इष्टं साम्यं ज्ञानं मतिर्वा मतशब्देनोच्यते । मतस्य करणं मत्यम् । मदस्य करणं मद्यम् ॥ ७९ ॥ तत्र साधौ ॥ ८० ॥ सि० ७|१|१५ ] सप्तम्यन्तात्साधौ यः स्यात् । सभ्यः ॥ "पर्षदो ण्यणौ ” ( ७|१|१८ ) । साधौ । पार्षद्यः पार्षदः । पारिषद्यः पारिषदः ॥ " सर्वजनापण्येनत्रौ ” ( ७|१|१९ ) । साधौ । सार्वजन्यः सार्वजनीनः । *पध्यादेरेयण - पाथेयम् | आतिथेयी ॥ " ण्योऽतिथेः” (७|१|२४ ) । आतिथ्यम् ॥ ८० ॥ २० "तन्त्र०" । साधुः प्रवीणो योग्य उपकारको वा । सभ्य इति एवं सामान्यः, कर्मण्यः शरण्य इत्यादि । अत्रेदं ज्ञेयम् - " तद्धितयखरेऽनाति" ( २।४।९२ ) व्यञ्जनात्परस्यापत्यस्य यस्य यकारादावाकारादिवर्जितस्वरादौ च तद्धिते लुक् स्यात् । गार्ग्य साधुर्गार्ग्यः । गार्ग्यस्यापत्यं गार्गीयः । अनातीति किम् ? गार्ग्यायणः । “पर्ष ०" पर्षदि साधुः पार्षद्यः, पार्षदः ॥ परिषदोऽपीच्छन्त्यन्येपारिषद्यः पारिषदः ॥ "सर्व०" स्पष्टम् | आदिशब्दात् "प्रतिजनादेरीनञ्” ( ७।१।२० ) । २५ प्रतिजने साधुः प्रतिजनीनः । इदंयुगे साधुः ऐदंयुगीन । प्रतिजन, अनुजन, विश्वजन, पाञ्चजन, महाजन, इदंयुग, संयुग, समयुग, परयुग, परकुल, परस्यकुल, अमुष्यकुल, इति प्रतिजनादयो द्वादश || " कथादेरिकण” ( ७|१|२१ ) । काथिकः । कथा, विकथा, विश्वकथा, संकथा, वितण्डा, जनेवाद, जनवाद, जनोवाद, भृशोवाद, जनभृशोवाद, वृत्ति, संग्रह, गुण, गण, आयुर्वेद, गुड, कुल्माष, गुल्मास, इक्षु सक्त, वेणु, अपूप, मांसौदन, मांस, ओदन, संघात, संवाह, प्रवास, ३० निवास, उपवास, इति कथादयोऽष्टाविंशतिः । *पध्यादेरिति - " पथ्यतिथिवसतिखपतेरेयण्" (७।१।१६) । एभ्यः साधौ एयण् स्यात् । पथि साधौ पाथेयम्, आतिथेयम्, वासतेयम् । स्वापतेयम् । आतिथेयी रान्निः ॥ एवं "भक्ताण्णः " ( ७।१।१७ ) । भक्ते साधुः भाक्तः शालिः । इति साध्यधिकारः । ३३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560