Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 513
________________ ४२६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुपरिखा आसामिष्टकानां स्यादिति पारिखेय्य इष्टकाः । स्यादिति संभावने सप्तमी-इष्टकानां बहुत्वेन संभाव्यते, एतत् परिखाऽऽसां स्यादिति ॥ “अत्र च” (७।१।४९) प्रथमान्तात्परिखाशब्दात्सप्तम्यर्थे एयण स्यात्, सा चेत्परिखा स्यादिति संभाव्यते । परिखाऽस्यां स्यादिति संभाविता पारिखेयी भूमिः । योगविभागात्परिणामिनीत्यत्र नानुवर्तते । चकार उत्तरसूत्रे षष्ठ्यर्थे परिणामिनि स्यादिति संभाविते; ५सप्तम्यर्थे चापरिणामिनि स्यादित्येवं संभाविते यथाधिकृतं प्रत्ययः स्यादित्यर्थद्वयानुवृत्त्यर्थः ॥ "तद" (७१।५०) प्रथमान्तात्परिणामिनि षष्ठ्यर्थे सप्तम्यर्थे च यथाधिकृतं प्रत्ययः स्यात्, प्रथमान्तं चेत्संभावितं स्यात् । प्राकार आसामिष्टकानां स्यात् प्राकारीया इष्टकाः । प्रासादीयं दारु । परशव्यमयः । प्रासादोऽस्मिन्देशे स्यात् प्रासादीयों देशः । प्रासादीया भूमिः ॥ ८३ ॥ 86 ईयस्य पूर्णोऽवधिः । * १० अपत्यादिपूतार्थेषु "प्राग्वतः स्त्रीपुंसानञ् लम्" (६।१।२५)। स्त्रैणं पौंस्नम् । "प्राग्व०" प्राग्वतो येऽर्थास्तेष्वनिदम्यणपवादे च आभ्यामेतौ स्याताम् । स्त्रिया अपत्यं स्त्रैणः, पौंस्नः । स्त्रीणां समूहः बैणम् , पौंसम् । स्त्रीषु भवं स्त्रैणम् , पौंस्नम् । स्त्रीणामियं बैणी, पौंस्नी । स्त्रीणां निमित्तं संयोग उत्पातो वा खैणः, पौंस्नः । स्त्रीभ्यो हितं स्त्रैणम्, पौंस्नम् । प्राग्वत इति किम् ? स्त्रिया अहं कृत्यम्, स्त्रिया तुल्यं वर्तत इति स्त्रीवत्, पुंवत् । अकारो मित्कार्यार्थः ।। त्वे वा ॥ ८४॥[सि०६।१।२६ ] त्वविषये त्वेतौ वा । स्त्रैणं स्त्रीत्वम् । पौंस्यं पुंस्त्वम् ॥ ८४ ॥ "त्व." । त्वविषय इति वक्ष्यमाणस्वरूपे भावे इत्यर्थः । स्त्रिया भावः स्त्रैणम् , । पुंसो भावः पौस्तं पुंस्त्वम् । किञ्च "त्वे" (२।४।१००)। ड्याबन्तस्य त्वे प्रत्यये परे बहुलं ह्रस्वः स्यात् । रोहिण्या भावो रोहिणित्वं रोहिणीत्वम् । अजत्वं अजात्वं वा ॥ ८४ ॥ भावे त्वतम् ॥ ८५॥ [सि० ७१॥५५] षष्ठयन्ताद्भावेऽभिधेये त्वतलौ स्याताम् । शब्दप्रवृत्तिनिमित्तं भावः । गोत्वं गोता ॥ ८५॥ 'भावे." । भवतोऽस्मादभिधानप्रत्ययाविति भावः, शब्दस्य प्रवृत्तिनिमित्तं द्रव्यसंसर्गी भेदको गुणः । यदाहु:-“यस्य गुणस्य हि भावाड्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति," तत्र "जाति गुणाजातिगुणे, समासकृत्तद्धितात्तु संबन्धे । डित्थादेः स्खे रूपे, त्वतलादीनां विधिर्भवति" ॥ १॥ तत्र २५ जातिवचनेभ्यो जातो. गोः शब्दस्य भावो गोत्वं गोता अत्र गोशब्दजातिर्भावः । गोरर्थस्य भावो गोत्वं गोता-अत्र गवार्थजाति वः । शुक्लस्य गुणस्य भावः शुक्लत्वं शुक्लतेत्यत्र शुक्लगुणजातिः । एवं रूपत्वरसत्वमित्यादिषु रूपादिगुणजातिः । कत्वं खत्वमिति भिन्नवर्णव्यक्तिसमवेता जातिः । कवर्गत्वं चवर्गत्वमिति ककारादिवर्गव्यक्तिसमवेता जातिः संहतिः ॥ गुणशब्देभ्यो गुणे शुक्लस्य भावः शुक्लत्वं शुक्लता-अत्र शुल्लो गुणो भावः । एवं शुक्लतरत्वं शुक्लतमत्वमिति स एव प्रकृष्टः । अणुत्वं महत्त्वमिति परिमाणलक्षणो गुणः । एकत्वं द्वित्वमिति सङ्ख्यालक्षणो गुणः । पृथक्त्वं नानात्वमिति भेदलक्षणः । ३१ उच्चैस्त्वं नीचैस्त्वमित्युच्छ्रयादिलक्षणः । वृत्तौ पृथगादिशब्दाः पृथग्भूताद्यर्थे सत्त्वे वर्त्तते इति प्रत्ययः, १ यद्यपि पूर्व ज्ञानं पश्चाच्छन्द इति क्रमस्तथापि खरायदन्तवादभिधानस्य 'लघ्वक्षर०' पूर्वनिपात एवमाह । २ ननु प्रथगादिशब्दानामव्ययानामसत्त्ववामित्वात्कथमत्र भावप्रत्ययः, नह्यसत्त्वादसत्त्वे प्रत्ययः, भावो ह्यसत्त्वरूप इत्याशङ्का । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560