________________
४२६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुपरिखा आसामिष्टकानां स्यादिति पारिखेय्य इष्टकाः । स्यादिति संभावने सप्तमी-इष्टकानां बहुत्वेन संभाव्यते, एतत् परिखाऽऽसां स्यादिति ॥ “अत्र च” (७।१।४९) प्रथमान्तात्परिखाशब्दात्सप्तम्यर्थे एयण स्यात्, सा चेत्परिखा स्यादिति संभाव्यते । परिखाऽस्यां स्यादिति संभाविता पारिखेयी भूमिः । योगविभागात्परिणामिनीत्यत्र नानुवर्तते । चकार उत्तरसूत्रे षष्ठ्यर्थे परिणामिनि स्यादिति संभाविते; ५सप्तम्यर्थे चापरिणामिनि स्यादित्येवं संभाविते यथाधिकृतं प्रत्ययः स्यादित्यर्थद्वयानुवृत्त्यर्थः ॥ "तद" (७१।५०) प्रथमान्तात्परिणामिनि षष्ठ्यर्थे सप्तम्यर्थे च यथाधिकृतं प्रत्ययः स्यात्, प्रथमान्तं चेत्संभावितं स्यात् । प्राकार आसामिष्टकानां स्यात् प्राकारीया इष्टकाः । प्रासादीयं दारु । परशव्यमयः । प्रासादोऽस्मिन्देशे स्यात् प्रासादीयों देशः । प्रासादीया भूमिः ॥ ८३ ॥
86 ईयस्य पूर्णोऽवधिः । * १० अपत्यादिपूतार्थेषु "प्राग्वतः स्त्रीपुंसानञ् लम्" (६।१।२५)। स्त्रैणं पौंस्नम् ।
"प्राग्व०" प्राग्वतो येऽर्थास्तेष्वनिदम्यणपवादे च आभ्यामेतौ स्याताम् । स्त्रिया अपत्यं स्त्रैणः, पौंस्नः । स्त्रीणां समूहः बैणम् , पौंसम् । स्त्रीषु भवं स्त्रैणम् , पौंस्नम् । स्त्रीणामियं बैणी, पौंस्नी । स्त्रीणां निमित्तं संयोग उत्पातो वा खैणः, पौंस्नः । स्त्रीभ्यो हितं स्त्रैणम्, पौंस्नम् । प्राग्वत इति किम् ? स्त्रिया अहं कृत्यम्, स्त्रिया तुल्यं वर्तत इति स्त्रीवत्, पुंवत् । अकारो मित्कार्यार्थः ।।
त्वे वा ॥ ८४॥[सि०६।१।२६ ] त्वविषये त्वेतौ वा । स्त्रैणं स्त्रीत्वम् । पौंस्यं पुंस्त्वम् ॥ ८४ ॥
"त्व." । त्वविषय इति वक्ष्यमाणस्वरूपे भावे इत्यर्थः । स्त्रिया भावः स्त्रैणम् , । पुंसो भावः पौस्तं पुंस्त्वम् । किञ्च "त्वे" (२।४।१००)। ड्याबन्तस्य त्वे प्रत्यये परे बहुलं ह्रस्वः स्यात् । रोहिण्या भावो रोहिणित्वं रोहिणीत्वम् । अजत्वं अजात्वं वा ॥ ८४ ॥
भावे त्वतम् ॥ ८५॥ [सि० ७१॥५५] षष्ठयन्ताद्भावेऽभिधेये त्वतलौ स्याताम् । शब्दप्रवृत्तिनिमित्तं भावः । गोत्वं गोता ॥ ८५॥
'भावे." । भवतोऽस्मादभिधानप्रत्ययाविति भावः, शब्दस्य प्रवृत्तिनिमित्तं द्रव्यसंसर्गी भेदको गुणः । यदाहु:-“यस्य गुणस्य हि भावाड्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति," तत्र "जाति
गुणाजातिगुणे, समासकृत्तद्धितात्तु संबन्धे । डित्थादेः स्खे रूपे, त्वतलादीनां विधिर्भवति" ॥ १॥ तत्र २५ जातिवचनेभ्यो जातो. गोः शब्दस्य भावो गोत्वं गोता अत्र गोशब्दजातिर्भावः । गोरर्थस्य भावो
गोत्वं गोता-अत्र गवार्थजाति वः । शुक्लस्य गुणस्य भावः शुक्लत्वं शुक्लतेत्यत्र शुक्लगुणजातिः । एवं रूपत्वरसत्वमित्यादिषु रूपादिगुणजातिः । कत्वं खत्वमिति भिन्नवर्णव्यक्तिसमवेता जातिः । कवर्गत्वं चवर्गत्वमिति ककारादिवर्गव्यक्तिसमवेता जातिः संहतिः ॥ गुणशब्देभ्यो गुणे शुक्लस्य भावः शुक्लत्वं शुक्लता-अत्र शुल्लो गुणो भावः । एवं शुक्लतरत्वं शुक्लतमत्वमिति स एव प्रकृष्टः । अणुत्वं महत्त्वमिति परिमाणलक्षणो गुणः । एकत्वं द्वित्वमिति सङ्ख्यालक्षणो गुणः । पृथक्त्वं नानात्वमिति भेदलक्षणः । ३१ उच्चैस्त्वं नीचैस्त्वमित्युच्छ्रयादिलक्षणः । वृत्तौ पृथगादिशब्दाः पृथग्भूताद्यर्थे सत्त्वे वर्त्तते इति प्रत्ययः,
१ यद्यपि पूर्व ज्ञानं पश्चाच्छन्द इति क्रमस्तथापि खरायदन्तवादभिधानस्य 'लघ्वक्षर०' पूर्वनिपात एवमाह । २ ननु प्रथगादिशब्दानामव्ययानामसत्त्ववामित्वात्कथमत्र भावप्रत्ययः, नह्यसत्त्वादसत्त्वे प्रत्ययः, भावो ह्यसत्त्वरूप इत्याशङ्का ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org