________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । हितार्थाद्याः
४२५ "पञ्च." पश्चाविपराज्जनात्कर्मधारये वर्तमानात्तस्मै हिते ईनः स्यात् । पञ्चजनेभ्यः पश्चजनाय हितः पञ्चजनीनः । रथकारपञ्चमस्य चातुर्वर्णस्य पञ्चजन इति संज्ञाः "संख्या समाहारे" (३।१।२८) इति कर्मधारयः । कर्मधारय इति किम् ? पञ्चानां जनः पञ्चजनस्तस्मै हितः पञ्चजनीय इत्यादि ॥ अत्रायं विशेष:-"महत्सर्वादिकण्" (७१।४२) आभ्यां परो यो जनशब्दस्तदन्तात्कर्मधारये हिते इकण् स्यात् । महते जनाय हितः माहाजनिकः । सर्वस्मै जनाय हितः सार्वजनिकः । पूर्वेण ५ ईनोऽपीत्यस्य द्वैरूप्यम् ॥ "सर्वा"। स्पष्टम् । “येऽवणे" (३।२।१००)। नासिकाशब्दस्य ये प्रत्यये परे वर्णादन्यस्मिन्नभिधेये नसित्यादेशः स्यात् । नासिकायै हितं तत्र भवं वा नस्यम् । य इति किम् ? नासिक्यं नगरम् । चातुरर्थिकोऽयम् व्यः । निरनुबन्धग्रहणे हि न सानुबन्धग्रहणमिति । अवर्ण इति किम् ? नासिक्यो वर्णः ॥ "शिरसः शीर्षन्” (३।२।१०१) ये प्रत्यये परे । शिरसि भवः शीर्षण्यः स्वरः । शिरसे हितं शीर्षण्यं तैलम् । य इत्येव-शिरस्तः निरनुबन्धप्रहणात् शिर इच्छति १० शिरस्यतीत्यत्र न भवति, शिरस इति चादेशेन संबध्यते, न प्रत्ययेन, तेन हास्तिशीर्षिरित्यादौ समाससंबन्धिन्यपि तद्धिते उत्तरसूत्रेण शीर्षादेशो भवति ॥ "केशे वा" (१२।१०२) केशविषये ये परे शिरसः शीर्षन्वा । शीर्षण्याः शिरस्या वा केशाः ॥ इल्वलास्तु मृगशीर्षस्य शिरस्त्यास्तारका इति प्रयोगदर्शनात् केचित् केशादन्यत्रापि विकल्पमिच्छन्ति, शाखादियप्रत्यये चादेशं नेच्छन्ति-शिरसस्तुल्यः शिरस्यः "शाखादेर्यः” (७।१।११४) ॥ "शीर्षः खरे तद्धिते” (३।२।१०३) । स्वरादौ १५ तद्धिते परे शिरसः शीर्ष इत्यादेशो भवति । हस्तिशिरसोऽपत्यं हास्तिशीर्षिः । मृगशिरसा चन्द्रयुक्तेन युक्ता मार्गशीर्षी पौर्णमासी । स्थूलशिरस इदं स्थौलशैर्षम् । शिरसि कृतं शैर्षम् , शिरसा तरति शैर्षिकः । स्वर इति किम् ? शिरस्कल्पः । तद्धित इति किम् ? शिरसे शीर्षशब्दः प्रकृत्यन्तरमस्ति शीर्षच्छेद्यं परिच्छिद्येति प्रयोगात्, अनेनैव सिद्धे उक्तविषये शिरसः प्रयोगनिवृत्त्यर्थं वचनम् ।
* इति हितार्थप्रत्ययाधिकारः संपूर्णश्चेति मंगलम् । ___ अत्रेत्यादिशब्दसंबन्धात् “परिणामिनि तदर्थे” (७।१।४४) । तद्भावः परिणामः, सोऽस्यास्ति (इति) परिणामि द्रव्यमुच्यते । चतुर्थ्यन्तात्तदर्थे चतुर्थ्यन्तार्थार्थे परिणामिनि द्रव्ये कारणेऽभिधेये यथाधिकृतं प्रत्ययः स्यात् । अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि-अङ्गारार्थानीत्यर्थः । एवं प्राकारीयाः इष्टकाः, शङ्कव्यं दारु, आमिक्ष्यमामिक्षीयं दधीत्यादि । परिणामिनीति किम् ? उदकाय कूपः । तदर्थे इति किम् ? मूत्राय यवागूः । यवाग्वादि मूत्रतया परिणमति न तु तदर्थम् । अथवा तदर्थे इति २५ चतुर्थीविशेषणम् (पूर्व हि तदर्थे इति परिणामिशब्दस्य विशेषणम् ) तदर्थे या चतुर्थी तदन्तात्प्रत्ययः, इह तु संपद्यतौ चतुर्थीति न भवति । तस्मै इत्येव-सक्तूनां धानाः, धानानां यवाः, अत्र सत्यपि तादर्थे संबन्धमात्रविवक्षायां षष्ठी-यथा गुरोरिदं गुर्वर्थमिति, भवति च सतोऽप्यविवक्षाऽनुदरा कन्येत्यादिवत् ॥ “चर्मण्यम्" (७।१।४५) । प्रागुक्तार्थे । वर्धायेदं वाई चर्म । एवं वरत्रायै वारत्रम् । हलबन्धाय हालबन्धम् । सनङ्गव्यमित्यत्र "उवर्णयुगादेः०” (७१।३०) इति य एव, सनङ्गश्चर्मदि.३० कारः ॥ "ऋषभोपानहायः ” (७।१।४६) उक्तार्थे । ऋषभायायमार्षभ्यो वत्सः । औपानह्यो मुञ्जः। औपाना काष्ठम् । औपाना चर्मेति चर्मण्यपि परिणामिनि परत्वादयमेव ॥ "छदिलेरेय" (७।१।४७) उक्तार्थे । छदिषे इमानि छादिषयाणि तृणानि । बलये इमे बालेयास्तण्डुलाः । चर्मण्यपि परत्वादयमेव-च्छादिषेयं चर्म ॥ “परिवाऽस्य स्यात्” (७१।४८) परिखाशब्दानिर्देशादेव प्रथमान्तादस्येति षष्ठ्यर्थे परिणामिन्येयण स्यात् , या सा परिखा सा चेत्स्यादिति योग्यतया सम्भाव्यते । ३५
है. प्रका• पूर्वा० ५४
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org