________________
१२४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुरहडू इति प्रसिद्धस्य) तत्र न नाभिरिति तदर्थे नभ्यमित्युपचारात् । नभ्यो वृक्ष इत्यादौ नाभ्यर्थे ताच्छब्यानभ्यस्वम् इन्द्रार्थस्थूणावत् । अदेहांशादिति किम् ? नाभ्यं तैलमत्र नभादेशो न भवति, यस्तु "प्राण्यङ्ग." (७१।३७) इत्यादिना स्यात् । “न् चोधसा" (७।१।३२) । ऊधसो यः स्यान्नकारश्वान्तादेशः । ईयापवादः । ऊधसे इदं ऊधन्यम् । “शुनो वश्चोदूत्” (७।१।३३)। श्वनशब्दात् ५यः स्यात् , वकारश्च उकार ऊकाररूपो भवति । अभेदनिर्देशः सर्वादेशार्थः । शुने हितं शुन्यम् ,
शून्यम् । नाभ्यादीनां युगादिपाठेऽपि शक्यो यः प्रत्ययः, आदेशार्थास्तु योगाः । “कम्बलान्नान्नि" (७।१।३४) ईयापवादो यः । कम्बलोऽस्य स्यात् कम्बल्यं परिमाणम् , ऊर्णापलशतमुच्यते, अशीतिशतमित्यन्ये, षट्षष्टिशतमित्यपरे । नानीति किम् ? कम्बलीया ऊर्णाः ॥ ८० ॥
तस्मै हिते ॥ ८१॥ [सि० ७१॥३५] १० चतुर्थ्यन्ताद्धिते ईयः स्यात् । वत्सीयः । *प्राण्यङ्गादिभ्यो यः-दन्त्यम् ॥ ८१ ॥
"तस्मै०" हित उपकारकः । वत्सीय इति-एवं मात्रीयः, करभीयः, पित्रीयः, आमिक्ष्यः आमिक्षीयः, ओदन्यः ओदनीयः, अपूप्यः अपूपीयः, हविष्यः, युग्यः, वत्सेभ्यो न हितः अवत्सीयः ।
विशेषश्चात्र-"न राजाचार्यब्राह्मणवृष्णः ” (७१।३६) । वृषनशब्दस्य षष्ठयेकवचने वृष्ण इति । एभ्यो हितार्थप्रत्ययो न स्यात् । राज्ञे हितः, एवमाचार्याय ब्राह्मणाय वृष्णे हित इति वाक्यमेव १५स्यात् ॥ *प्राण्यङ्गादिभ्य इति-"प्राण्यङ्गरथखलतिलयववृषब्रह्ममाषाद्यः” (७।१।३७ )। प्राण्यङ्गेभ्यो रथादिभ्यश्च सप्तभ्यश्चतुर्थ्यन्तेभ्यो हितेऽर्थे यः स्यात् । दन्तेभ्यो हितं दन्त्यम् । एवं कयं चक्षुष्यम् । रथाय हिता रथ्या भूमिः । खल्यमग्निरक्षणम् । तिल्यो वायुः । यव्यस्तुषारः । वृष्यं क्षीरपाणम् । ब्रह्मण्यो देशः । माष्यो वातः । सादेश्चेत्यधिकारात् राजदन्त्यम् ।
आदिशब्दात् "अव्यजात् थ्यप्” (७।११३८) अविभ्यो हितमविथ्यम् । अजेभ्यो हितमज२०थ्यम् । पकारः पुंवद्भावार्थः । अजाभ्यो हिता अजध्या (पित्करणसामर्थ्यात् 'स्वाङ्गान्डी०' इत्यनेन निषिद्धोऽपि 'क्यङ्मानि०' इत्यनेन पुंवद्भावः) यूतिः । “चरकमाणवादीन” (७१।३९)। चरकेभ्यो हितः चारकीणः । माणवीनः ।। ८१ ॥
भोगोत्तरपदात्मभ्यामीनः ॥ ८२ ॥ [सि०७।११४०] भोगोत्तरपदेभ्य आत्मनश्च हिते ईनः स्यात् । मातृभोगीणः॥"ईनेऽध्वात्मनोः" (७।४।४८) २५अन्त्यखरादेर्लग् न स्यात्-आत्मनीनः ॥ ८२ ॥ ___ "भोगो०" मातृभोगाय हितो मातृभोगीणः । एवं पितृभोगीणः ॥ प्रामणिभोगीनः । सेनानिभोगीनः । आचार्यभोगीनः । क्षुम्नादिषु पाठान्न णत्वम् । “ईन." "नोऽपदस्य तद्धिते” (७।४।६१) इति प्राप्तोऽन्त्यस्वरादिलोपोऽनेन निषिद्ध्यते । आत्मने हितः आत्मनीनः ॥ ८२ ॥
पञ्चसर्वविश्वाजनात्कर्मधारये ॥ ८३॥ [सि०७।१।४१] पश्चादिपूर्वाजनान्तात्कर्मधारयाद्धिते ईनः सात् । पश्चजनीनः । विश्वजनीनः ॥ "सर्वाण्णो ११वा" (७११४३)। सार्वः सर्वीयः ॥ ८३ ॥ इति हिताधिकारः॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org