________________
प्रक्रियावृत्तिरूप श्रीहेमप्रकाशे तद्विताः । तदर्थाअर्थीः
४२३ आदिशब्दात् "देवतान्तात्तदर्य" (७१।२२)। अर्थाचतुर्थ्यन्तायः प्रत्ययः । अग्निदेवतायै इदं अग्निदेवत्यम् । देवता नाम देयस्य हविरादेः प्रतिगृहीता स्वामी संप्रदानमुच्यते । “पाचार्ये" (७।१।२३)। एतौ निपात्यौ । पादार्थमुदकं पाद्यम्-निपातनात्पादस्य पद्भावः । अर्को मूल्यं पूजनं वा, अर्घार्थ रत्नमय॑म् ॥ “ण्यो०" अतिथ्यर्थमातिथ्यम् ।
* इति तदर्थाधिकारः । * "सादेश्चातदः" (७१।२५) । अधिकारसूत्रमेतत् , इत आरभ्य "तद्” (७।१।५०) इति सूत्रम् यावद्योऽवधिः स केवलस्य सादेश्व चेयः ॥ "हलस्य कर्षे” (७।१।२६)। षष्ठ्यन्तात्केवलात्सादेश्च हलात्कर्षेऽर्थे यः स्यात् । हलस्य कर्षो हल्या हल्यो वा । द्वयोहिल्या, परमहल्या, बहुहल्यः । यत्र हलं कृष्टं (गतमित्यर्थः) स मार्गः कर्षः । कृष्यत इति कर्षः क्षेत्रमित्यन्ये ॥ "सीतया सङ्गते” (७।१।२७) । सीत्यम् । द्वाभ्यां सीताभ्यां द्विसीत्यम् । “गोदारणं हलमीषासीते तद्दण्ड-१० पद्धती" इति वचनात् सीतानाम हलपद्धतिः । ।
एवं यप्रत्ययस्यात्राधिकारः पूर्णतां गतः । ईयोऽथाधिकृतो शेयो विशेषविषयं विना ॥ १ ॥ स चाधिकार ईयस्य आतदोऽर्थेषु भाव्यताम् । तस्मै हिते, तदर्थे चेत्यादयस्ते तु वस्तुतः ॥ २ ॥
"हविरन्नभेदापूपादेर्यो वा” (७।१।२९)। हविर्भेदेभ्योऽपूपादिभ्यश्चातदर्थेषु यो वा स्यात् । ईयापवादः । हविर्भेद. आमिक्षायै इदं दधि आमिक्ष्यमामिक्षीयम् । पुरोडाशाय इमे पुरोडाश्याः १५ पुरोडाशीयास्तंडुलाः । हविस्शब्दात्तु परत्वायुगादिपाठान्नित्यमेव यः । अन्नभेद. ओदनाय इमे ओदन्या ओदनीयास्तण्डुलाः । कृसरायै कृसर्याः कसरीयाः, सुरायै सुर्याः सुरीयाः । अपूपादि. अपूपायेदमपूप्यमपूपीयम् । सादेश्चेत्यधिकारात्तदन्तादपि-यवापूप्यं यवापूपीयम् । उवर्णान्तात्तु हविरत्नभेदात्परत्वान्नित्यमेव यः-चरव्यास्तंडुलाः, सक्तव्या धानाः । अपूप, तण्डुल, ओदन, पृथुक, अभ्यूष, अभ्योष, अवोष, किण्व, मुसल, कटक, १० शकट, कर्णवेष्टक, ईर्गल, इल्लर, (इल्वल ?) इल्ल (?)२० लक (?) स्थूणा, यूप, सूप, दीप, प्रदीप, २० अश्वपत्र ( आश्वपत्र ?) २२ इत्यपूपादयो द्वाविंशतिः (२० ?) अपूपादिषु येऽन्नभेदा अपूपादयस्तेषां केनचिदाकारसादृश्येनार्थान्तरवृत्तौ प्रत्ययार्थमुपादानम् , केचित्तु अपूपादिपठितान्नभेदव्यतिरिक्तानामनभेदानां तदन्तविधि नेच्छन्ति । यवसुरीयम् , यो न भवति ॥ "उवर्णयुगादेयः” (७१।३०)। ईयापवादः । शङ्कवे इदं शङ्कव्यं दारु । पिचव्यः कर्पासः । परशव्यमयः । युगाय हितं युगार्थं युगोऽस्य स्यादिति वा युग्यम् । हविष्यम् । सादेश्वेत्यधि-२५ कारात् सुयुग्यम् । युग, हविस्, अष्टका, बर्हिस्, मेधा, मुच् , बीज, कूप, क्षर, अक्षर, खद, स्खद, विष, दाश, खर, असुर, दर, अध्वन् , गो, १९ इति युगादय एकोनविंशतिः । “गोः स्वरे यः” (६।१।२७) इति सिद्धे गोग्रहणं तदन्तार्थम्-सुगव्यम् । इदं यग्रहणं बाधकबाधनार्थम्-सनगावे इदं सनङ्गव्यं चर्म, अत्र, हि परत्वात् "चर्मण्यम्” (७।१।४५) प्राप्नोति ॥ "नाभेनेभचाऽदेहांशात्" (७।१।३१)। नाभ्यै नाभये वा हितं नभ्यमञ्जनम् । नभ्योऽक्षः । नाभये इदं नभ्यं दारु । अरकमध्यवर्ती अक्षधारणश्चक्रावयवो नाभिस्तदर्थ नभ्यम् । यत्तु अरकगण्डरहितं चक्रमेककाष्ठं (पाषाणानयनशकटस्य-३१
१ आमिश्रितं क्षीर कालिकेन यस्यां सा भामिश्रितक्षीरा, गतार्थत्वात्काजिकशब्दस्य लोपः । पृषोदरादित्वादामिक्षादेशः। २ अपूपाकारं चर्माद्यपूपमित्येवम् । ३ कोऽर्थः । ये अपूपादिषु पठिता अन्नभेदास्तेषां तदन्तानां विधिर्भवति । अनभेदवाचिना तु अपूपाविष्वपठितीनां तदन्तविधिर्न भवतीत्यर्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org