________________
४२२
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञहैमलघु
"
वश्यो गौर्विधेयः, इच्छानुवर्तीति यावत् निपातनं रूढ्यर्थं तेनेह न भवति - वशङ्गतः इच्छां प्राप्तः; अभिप्रेतं गत इत्यर्थः । पथिन्शब्दादनपेते यः; पथोऽनपेतं पथ्यं ओदनादि, निपातनादिह न भवतिपथोऽनपेतं शकटादि । वयः शब्दात्तृतीयान्तात्तुल्येऽर्थे यः, वयसा तुल्यो वयस्यः सखा; निपातनादिह न भवति - वयसा तुल्यः शत्रुः । धेनुशब्दाद्विशिष्टायां धेनौ यः षोऽन्तश्च धेनुष्या, या गोमता ५ गोपालायाधमर्णेन चोत्तमर्णाय आ ऋणप्रदानाद्दोहार्थं धेनुर्दीयते सा धेनुरेव धेनुष्या; पीतदुग्धेति यस्याः प्रसिद्धिः ‘पीतदुग्धा धेनुष्ये' ति वचनात् । गृहपतिशब्दात्तृतीयान्तात्संयुक्तेऽर्थे यः, गृहप संयुक्त गार्हपत्योऽभिविशेषः, निपातनादन्यत्र न भवति । जनीशब्दाद्वधूवाचिनो द्वितीयान्ताद्वहत्सु अभिधेयेषु जनशब्दाच्च षष्ठ्यन्ताज्जल्पेऽर्थे यः, जनीं वहन्ति जन्याः, जामातुर्वयस्याः, जनस्य जल्पो जन्यः; निपातनादन्यत्र न भवति । धर्मशब्दात्तृतीयान्तात्प्राप्येऽर्थे पञ्चम्यन्ताञ्चानपेते यः; धर्मेण १० प्राप्यं धर्म्यम्; धर्मादनपेतं च धर्म्यम्, यद्धर्ममनुवर्त्तते । " नौवि०" । आभ्यां तृतीयान्ताभ्यामनयोरर्थयोर्यः स्यात् । नावा तार्या नाव्या नदी । विषेण वध्यो विष्यः शत्रुरिति ॥ "न्याय ०" आभ्यां पञ्चम्यन्ताभ्यामनपेतेऽर्थे यः स्यात् ॥
१५
आदिशब्दात् " मतमदस्य करणे" ( ७|१|१४ ) आभ्यां षष्ठ्यन्ताभ्यां करणेऽर्थे यः स्यात् । इष्टं साम्यं ज्ञानं मतिर्वा मतशब्देनोच्यते । मतस्य करणं मत्यम् । मदस्य करणं मद्यम् ॥ ७९ ॥ तत्र साधौ ॥ ८० ॥ सि० ७|१|१५ ]
सप्तम्यन्तात्साधौ यः स्यात् । सभ्यः ॥ "पर्षदो ण्यणौ ” ( ७|१|१८ ) । साधौ । पार्षद्यः पार्षदः । पारिषद्यः पारिषदः ॥ " सर्वजनापण्येनत्रौ ” ( ७|१|१९ ) । साधौ । सार्वजन्यः सार्वजनीनः । *पध्यादेरेयण - पाथेयम् | आतिथेयी ॥ " ण्योऽतिथेः” (७|१|२४ ) । आतिथ्यम् ॥ ८० ॥
२०
"तन्त्र०" । साधुः प्रवीणो योग्य उपकारको वा । सभ्य इति एवं सामान्यः, कर्मण्यः शरण्य इत्यादि । अत्रेदं ज्ञेयम् - " तद्धितयखरेऽनाति" ( २।४।९२ ) व्यञ्जनात्परस्यापत्यस्य यस्य यकारादावाकारादिवर्जितस्वरादौ च तद्धिते लुक् स्यात् । गार्ग्य साधुर्गार्ग्यः । गार्ग्यस्यापत्यं गार्गीयः । अनातीति किम् ? गार्ग्यायणः । “पर्ष ०" पर्षदि साधुः पार्षद्यः, पार्षदः ॥ परिषदोऽपीच्छन्त्यन्येपारिषद्यः पारिषदः ॥ "सर्व०" स्पष्टम् | आदिशब्दात् "प्रतिजनादेरीनञ्” ( ७।१।२० ) । २५ प्रतिजने साधुः प्रतिजनीनः । इदंयुगे साधुः ऐदंयुगीन । प्रतिजन, अनुजन, विश्वजन, पाञ्चजन, महाजन, इदंयुग, संयुग, समयुग, परयुग, परकुल, परस्यकुल, अमुष्यकुल, इति प्रतिजनादयो द्वादश || " कथादेरिकण” ( ७|१|२१ ) । काथिकः । कथा, विकथा, विश्वकथा, संकथा, वितण्डा, जनेवाद, जनवाद, जनोवाद, भृशोवाद, जनभृशोवाद, वृत्ति, संग्रह, गुण, गण, आयुर्वेद, गुड, कुल्माष, गुल्मास, इक्षु सक्त, वेणु, अपूप, मांसौदन, मांस, ओदन, संघात, संवाह, प्रवास, ३० निवास, उपवास, इति कथादयोऽष्टाविंशतिः । *पध्यादेरिति - " पथ्यतिथिवसतिखपतेरेयण्" (७।१।१६) । एभ्यः साधौ एयण् स्यात् । पथि साधौ पाथेयम्, आतिथेयम्, वासतेयम् । स्वापतेयम् । आतिथेयी रान्निः ॥ एवं "भक्ताण्णः " ( ७।१।१७ ) । भक्ते साधुः भाक्तः शालिः ।
इति साध्यधिकारः ।
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org