________________
मक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । वहतीत्याधर्थाः
४२१ प्रासमिति तबहतीत्यत्रानमिधानान भवति । ननु यो रथं वहति स रथस्य वोढा भवति, तत्र "रथात्सादेन वोदले" (६।३।१७५) "यः" (६॥३॥१७६) इत्येव सिद्धम्, तत्किं रथग्रहणेन ? सत्यमलुबर्थ तु तस्य ग्रहणम् , तेन हि ये विधीयमाने "द्विगोरनपत्ये यखरादे बद्विः” (६।१।२४ ) इति लुपा भवितव्यम्-द्वयो रथयोर्वोढा द्विरथः । अनेन तु विधीयमाने न भवति-अप्राजितीयत्वात् । एवं च द्विगौ रूपद्वयं भवति ॥ "धुरो०” द्वितीयान्ता शब्दावहत्यर्थे यैयणौ स्याताम् । एयण वेत्यकृत्वा५ यग्रहणमिदमर्थविवक्षायां वहत्यर्थेऽण्बाधनार्थम् । यो हि यद्वहति स तस्य संबन्धी भवतीति । कश्चित्तु यद्-एयकणावपीच्छति, तन्मते धुर्यः । स्त्रियां टित्वात् जी:-धुरी । धौरेयकः ॥ “वामा०"। वामादिपूर्वाद्भुरन्ताहितीयान्ताद्वहत्यर्थे ईनः स्यात् । वामा धूर्वामधुरा, समासान्तादाप्; तां वहति वामधुरीणः । सर्वधुरीणः, उत्तरधुरीणः, दक्षिणधुरीणः । वामादयः प्रयोगगम्याः । सर्वधुर्य इत्यत्र यप्रत्ययोऽपीति कश्चित् । धुरीण इति केवलादपीन इत्यन्यः ॥ अत्रायं विशेषः "अश्चैकादेः"१० (७४।५)। एकादे(रन्ताबहत्यर्थे अ: स्यात्, चकारादीनश्च । एका एकस्य वा धूः एकधुरा । एकधूरस्मिन्नेकधुरम् , तां तद्वा वहति एकधुरः एकधुरीणः ॥ "हल.” द्वितीयान्ताहत्यर्थे इति वर्त्तते । हलं वहति हालिकः । एवं सैरिकः ॥ "शक" शकटं वहति शाकटो गौः । ननु च "तस्येदम्" (६।३।१६०) इति शकटादण् “हलसीरादिकण्" इति हलसीराभ्यामिकण् च सिद्ध एव, यो हि यद्वहति स तस्य संबन्धीति ? सत्यम्-रथवदेव तदन्तार्थमुपादानम् , तेनात्रापि द्विगौ द्वैरूप्यं भवति-१५ द्वयोः शकटयोः हलयोः सीरयोर्वा वोढा द्विशकटः द्विलः द्विसीरः । वे शकटे हले सीरे वा वहति द्वैशकटः हलिकः द्वैसीरिकः । अन्ये तु शकटहलसीरेभ्य इदमर्थविवक्षायां प्रत्ययमिच्छन्ति, न वहत्यर्थे; तन्मते द्विशकट इत्येव भवति । हलसीराभ्यां तु सदन्तविधि नेच्छन्त्येव ।
अत्रादिशब्दसंसर्गात् “विध्यत्यऽनन्येन" (७११८)। द्वितीयान्ताद्विध्यत्यर्थे यः स्यात्, स चेद्विध्यन्नात्मनोऽनन्येन करणेन विध्यति । पादौ विध्यन्ति पद्याः शर्कराः । ऊरव्याः कण्टकाः । उरस्या २० वाताः । अनन्येनेति किम् ? चौरं विध्यति चैत्र:-अत्र हि चैत्रश्चौरं विध्यन् धनुरादिना विध्यति । शर्करादयस्तु न करणेन विध्यन्ति । यच्च मुखतैष्ण्यादिकरणम्, तत्तेषामात्मनो नान्यत् ॥ "धनगणाल्लब्धरि" (७१।९) । आभ्यां द्वितीयान्ताभ्यां लब्धर्यर्थे यः स्यात् । धनं लब्धा धन्यः, गणं लब्धा गण्यः । लब्धेति तृनन्तम् ॥ “णोऽन्नात्” (७।१।१०) प्राग्वत् । अभं लब्धा आनः॥ *हृद्यपद्यादयः साधव इति-"हृद्यपद्यतुल्यमूल्यवश्यपथ्यषयस्यधेनुष्यागार्हपत्यजन्य-२५ धर्म्यम्" (७।१।११) । एते शब्दा यथास्वमर्थविशेषेषु यान्ता निपात्यन्ते । हृदयात्षष्ठ्यन्तात्प्रियेऽर्थे बन्धने वशीकरणमने च हृद्य इति निपात्यते,-हृदयस्य प्रियो हृद्यो देश इति, हृदयस्य बन्धनो हृयो वशीकरणमत्रः, "हृदयस्य हल्लासलेखाण्ये” ( ३।२।९४) इति हृदादेशः, निपातनस्य रूट्यर्थत्वात् हृदयस्य प्रियः पुत्र इत्यादौ न स्यात् । पदशब्दात्प्रथमान्तात् दृश्यत्वोपाधिकादस्मिन्निति सप्तम्यर्थे यः स्यात् ; पदमस्मिन् दृश्यं पद्यः कर्दमः-नातिद्रवो नातिशुष्को यत्र प्रतिबिम्बोत्पत्त्या पदं दृश्यते । तुला-३० शब्दात्सम्मितेऽर्थे यः स्यात् ; तुलया सम्मितं तुल्यं भाण्डम् ; निपातनं रूड्यर्थम् , तेन न तुलासम्मित एयोच्यते किन्तु सदृशार्थोऽपि तुल्यशब्दः-गिरिणा तुल्यो हस्ती ॥ मूलात्प्रथमान्तात्षष्ट्यर्थे यः स्यात्, तच्च यद्युत्पाटनयोग्यं भवति, मूलमेषामुत्पाट्यं मूल्या मुद्राः । तृतीयान्ताचानाम्ये समे च-मूलेनानाम्यं मूल्यम् , मूलं पटाद्युत्पत्तिकारणम् , तेनानाम्यं यत्तत्पटादेर्विक्रयात्प्राप्यते सुवर्णावि तन्मूल्यम् , मूलेन समो मूल्य: पटा, उपादानेन समातफळ इत्यर्थः । वशशब्दाहितीयान्तागतेऽर्थे यः स्यात्, वशङ्गतो ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org