________________
४२०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु( ३।२।५०) इति पुंषभावः । सङ्ख्यान्ताहिगोलपं नेच्छन्त्येके द्वाभ्यां षष्टिभ्यां क्रीतं द्विषाष्टिकम् त्रिषाष्टिकमिति ॥
अत्र विशेषास्त्वेवम्-"नवाणः" (६।४।१४२)। द्विगोः परस्याईदर्थस्याणः पिल्लुप् वा स्यादतिः । द्वाभ्यां सहस्राभ्यां क्रीतं द्विसहस्रं द्विसाहस्रम् । अण इति किम् ? द्वौ द्रोणौ पचति द्विद्रोणः "तं पचति ५द्रोणाद्वाऽ" (६।४।१६१) इत्यञ् , तस्य "अनान्यद्विः प्लुप्" इति नित्यं लुप् ॥ "सुवर्णकार्षापणात्" (६।४।१४३) । तदन्ताहिगोराहदर्थविहितप्रत्ययस्य प्राग्वल्लुब् वा स्यात् , न तु द्विः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसुवर्ण द्विसौवर्णिकम् । द्विकार्षापणिकम् , द्विप्रतिकम् , द्विकार्षापणम् । “द्वित्रिबहोर्निष्कविस्तात्" (६।४।१४४ )। एभ्यः परौ यौ निष्कविस्तौ तदन्ताष्टिगोराहदर्थे उत्पन्नस्य
प्रत्ययस्य लुप् वा स्यात्, न त्वद्विः । द्विनिष्कं द्विनैष्किकम् , त्रिनिष्कं त्रिनैष्किकम् , बहुनिष्कं बहु१० नैष्किकम् । द्विविस्तं द्विवैस्तिकम् , त्रिविस्तं त्रिवैस्तिकम् बहुविस्तं बहुवैस्तिकम् ॥ "शतायः"
(६।४।१४५) । शतान्ताहिगोराईदर्थे यो वा स्यात् ; पक्षे सञ्जयालक्षणः कस्तस्य लुप् स्यादस्य तु विधानसामर्थ्यान्न स्यात् । द्वाभ्यां शताभ्यां क्रीतं द्विशत्यं द्विशतम् , अध्यर्द्धशत्यं अध्यर्द्धशतम् , अर्द्धषष्ठशत्यं अर्द्धषष्ठशतम् ॥ "शाणात्" (६४।१४६) शाणान्ताहिगोराहदर्थे यो वा स्यात् , पक्षे इकण् तस्य लुप् । अस्य तु विधानसामर्थ्यान्न । पञ्चशाणम् । योगविभाग उत्तरार्थः ।। "द्विव्याया१५ऽण् वा” (६।४।१४७) द्वित्रिपूर्वो यः शाणशब्दस्तदन्ताहिगोराईदर्थे याणौ वा स्याताम् , वाग्रहणमुत्तरत्र वानिवृत्त्यर्थम् । द्वाभ्यां शाणाभ्यां क्रीतं द्विशाण्यं वैशाणम् , पक्षे इकण् तस्य लुप्-द्विशाणम् , एवं त्रैरूप्यम् ॥ "पणपादमाषाद्यः" (६।४।१४८) एतदन्ताहिगोराहदर्थे यः स्याद्विधानसाम
•च्चास्य न लुप् । द्वाभ्यां पणाभ्यां क्रीतं द्विपण्यम् , द्विपाद्यम् , द्विमाष्यम् । माषपणसाहचर्यात्पादः परिमाणं गृह्यते, न प्राण्यङ्गम् , तेन “हिमहतिकाषिये पद्” (३।२।९६) इति पद्भावो न भवति२० तत्र प्राण्यङ्गस्यैव ग्रहणात् । यद्वा पादसम्बन्धी यकारस्तत्र गृह्यते, अयं तु द्विगुसम्बन्धीति न भवति ।
"खारीकाकणीभ्यः कच्" ( ६।४।१४९) एतदन्ताहिगोर्बहुवचनात्केवलाभ्यां खारीकाकणीभ्यां चाहदर्थे कच् स्याद्विधानसामर्थ्याच्चास्य न लुप् । द्वाभ्यां खारीभ्यां क्रीतं द्विखारीकम् द्विकाकणीकम् । खार्या क्रीतं खारीकं काकणीकम् । चकारो "न कचि” ( २।४।१०५) इति प्रतिषेधार्थः ।। ७८ ॥
प्रत्ययस्यैवमिकणोऽधिकारः पूर्णतामितः । यप्रत्ययोऽथाधिकृतो विशेषविषयं विना ॥ १ ॥ २५ वहति रथयुगप्रासङ्गात् ॥ ७९ ॥ [सि० ७।१।२ ]
एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यः स्यात् । रथं वहति रथ्यः ॥ "धुरो यैयण” (७/१२३)। धुर्यः धौरेयः ॥ “वामाद्यादेरीनः" (७११४) वामधुरीणः ॥ “हलसीरादिकण्” (७११६) हालिकः सैरिकः ॥ "शकटादण्” (७१२१) शाकटः ॥ हृद्यधर्म्यपद्यादयः साधवः ॥
"नौविषेण तार्यवध्ये” (७१।१२)। नाव्या नदी । विष्यः शत्रुः ॥ “न्यायार्थादनपेते" ३०(७।१।१३)। यः । न्यायादनपेतं न्याय्यम् । अर्थ्यम् ॥ ७९ ॥
"वह." । रथ्य इति-एवं द्वौ रथौ वहति द्विरथ्यः, युगं वहति युग्यः, कालविशेषं युगं वहति मनुष्य इत्यादौ त्वनभिधानान्न भवति । "कुप्यभिद्या” (५।१।३९) दिनिपातनादेव युग्य इति सिद्धे
इदमर्थविवक्षयामण्बाधनार्थं युगग्रहणम् , यो हि युगं वहति स युगसंबन्धी भवतीति । प्रसज्यते इति ३४प्रासङ्गः, वत्साना दमनकाले यत्काष्ठं स्कन्धे आसज्यते तद्वति स प्रासङ्ग्यः । यत्वन्यत्प्रसङ्गादागतं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org