________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । आर्हदर्थाः झुत्तरशतं द्विशतम् , तेन क्रीतं द्विशतकम् । सङ्ख्यादेवाहदलुच इति प्राप्नोति । अतस्मिमिति किम् ? शतं मानमस्य शतकं स्तोत्रम्-अत्रहि प्रकृत्यर्थ एव श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते इति, अन्यस्मिंस्तु शते भवत्येव-शतेन क्रीतं शाटकशतं शत्यं शतिकम् ॥ "वातोरिका" (६४।१३२)। अत्वन्तसङ्ख्याया आहेदर्थे इकः स्यात्, वा । यावता क्रीतं यावतिकं यावत्कम् । तावतिकं तावत्कम् । विधानसामानेकरलोपः । “कार्षापणादिकट् प्रतिश्चास्य वा" (६।४।१३३)। आईदर्थे अस्मादिकट ,५ अस्य च कार्षापणस्य प्रति इत्यादेशो वा स्यात् । कार्षापणिकं कार्षापणिकी, प्रतिकम् प्रतिकी । चकार आदेशस्य प्रत्ययसनियोगशिष्टत्वार्थः, अत एव द्विगोलपि प्रकृत्यादेशो न स्यात्-द्विकार्षापणम् । अस्येति स्थानिप्रतिपत्त्यर्थम् , अन्यथा प्रतिः प्रत्ययान्तर विज्ञायेत । टकारो ज्यर्थः । “अात्पलकंसक
र्षात्" (६।४।१३४) । अर्द्धपूर्वात्पलादित्रयादार्हदर्थे इकट् स्यात् । अर्द्धपलिकं अर्द्धपलिकी, अर्द्धकंसिकं २, अर्द्धकर्षिकं २ ॥ "सार्द्धात्" (६।४।१३५) । आभ्यामाईदर्थे इकद् स्यात् । कंसिकं १० कंसिकी, अद्धिकं २ । “सहस्रः” । अनमकृत्वाविधानं "नवाण" (६।४।१४२) इत्येवमर्थम् । ___ अत्र विशेषास्त्वेवम् । “सूर्पाद्वाऽञ्” (६।४।१३७) । आईदर्थे । इकणोऽपवादः । शोप्पं शौपिकम् । शूर्पण मानविशेषेण क्रीतमित्यर्थः । “वसनात्" (६।४।१३८) । अस्मादब् स्यात् । वसनेन क्रीतं वासनम् । “विंशतिकात्" (६।४।१३९) । प्राग्वत् । विंशतिर्मानमस्य विंशतिकम् , तेन क्रीतं वैशतिकम् । योगविभाग उत्तरार्थः ॥ "द्विगोरीन:” (६।४।१४०) विंशतिकान्ताहिगो-१५ राहदर्थे ईनः स्यात् । अयोऽपवादः । विधानसामर्थ्यादस्य लुप् न स्यात् । द्वाभ्यां विंशतिकाभ्यां क्रीतं द्विविंशतिकीनम् । अध्यर्द्धन विंशतिकेन क्रीतं अध्यर्द्धविंशतिकीनम् । अर्द्धपश्चमेन विंशतिकेन क्रीतं अर्द्धपश्चमविंशतिकीनम् ।
अध्य‘पञ्चमशब्दयोः सङ्ख्यावद्भावेनात्र द्विगुप्राप्तिस्तत्र च सूत्रपद्धतिरेवम्-"कसमासेऽध्यर्द्ध" (१।१।४१)। कप्रत्यये समासे च विधेये अध्यर्द्धशब्दः सङ्ख्यावत् स्यात् । अध्यर्द्धन क्रीतं अध्यर्द्धकम् २० “सङ्ख्याडते: "इति कः । अध्यर्द्धन सूर्पण क्रीतं अध्यर्द्धसूर्पम्-अत्र सङ्ख्यापूर्वत्वेन द्विगुत्वे "अनाम्यद्विः प्लुप्” (६।४।१४१) इतीकणो लुप् । कसमास इति किम् ? सङ्घादिप्रत्ययविधौ न भवति ॥ "अर्द्धपूर्वपदः पूरणः” (१।१।४२) । समास एव पूर्वपदोत्तरपदव्यवस्था, ततोऽर्द्धपूर्वपदः पूरणप्रत्ययान्तः शब्दः के प्रत्यये समासे च विधातव्ये सङ्ख्यावत्स्यात् । अर्द्धपञ्चमकम् अर्द्धपश्चमसूर्पम् ॥७७॥ ___अनास्यऽद्विः प्लुप् ॥ ७० ॥ [सि० ६।४।१४१]
२५ द्विगोराहदर्थे जातस प्रत्ययस्य प्लुप् सात्, न तु द्विः, अनाम्नि । द्वाभ्यां कंसाभ्यां क्रीतो द्विकंसः ॥ ७८ ॥
* इत्यार्हदावधिः। "अना०" । द्विकंस इति-द्वाभ्यां कंसाभ्यां द्विकंस्या वा क्रीतो विकंसः एवं त्रिकंसः अध्यर्द्धकंसः अर्द्धपश्चमकंसः द्विसूर्पः । अद्विरिति किम् ? द्वाभ्यां सूर्पाभ्यां क्रीतं द्विसूर्पम् अब् लुप्, द्विसूर्पण ३० क्रीतं द्विसौर्पिकमत्रेकणो क्रीते लुब् न स्यात् । अनानीति किम् ? पञ्च लोहिन्यः परिमाणमस्य पाश्चलौहितिकम् “जातिश्च णि.” ( ३।२।५१) इत्यादिना पुंवद्रावः । पञ्च कलायाः परिमाणमस्य पाश्चकालायिकम् । परिमाणविशेषनानी एते, अत एव "मानसंवत्सर०" (७।४।१९) इत्यादिना नोत्तरपदवृद्धिः । लुपः पित्त्वात् पञ्चभिर्गा!भिः क्रीतः पश्चगर्ग इत्यत्रेकणो लुपि "क्यानिपित्तद्धिते" ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org