________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खौपज्ञहैमलघु"तम०" । वैषिक इति एवं श्वैतच्छत्रिकः, वास्त्रिका, वात्रयुगिकः । भोजनमर्हति पानमहतीत्यादावनभिधानान भवति । *छेदमित्यादि "छेदादेर्नित्यम्" (६।४।१८२) । नित्यमित्यहतीत्यस्य विशेषणम् । एभ्यो द्वितीयान्तेभ्यो नित्यमहत्यर्थे यथाविहितं प्रत्ययः स्यात् । छैदिक इति-एवं भैदिकः ।
छेद, भेद, द्रोह, दोह, नर्स, गोनत, कर्ष, विकर्ष, प्रकर्ष, विप्रकर्ष, प्रयोग, (विप्रयोग?) सम्प्रयोग, ५प्रेक्षण, संप्रयोगप्रेक्षण (?) संप्रश्न, विप्रश्न, इति छेदादयः षोडश ॥ विरङ्गिक इति-"विरागाद्विरङ्गश्च" (६।४।१८३ ) अस्माद्वितीयान्तान्नित्यमहत्यर्थे इकण , विरङ्गादेशश्च । नित्यं विरागमहति वैरङ्गिक इति ।। "शीर्षच्छेदाद्यो वा” (६।४।१८४) । शीर्षच्छेदं नित्यमर्हति शीर्षच्छेद्यः शैर्षच्छेदिकः ॥ "दण्डा०" एभ्यो द्वितीयान्तेभ्योऽहत्यर्थे यः स्यात् । दण्ड्यः । ___ आदिशब्दात् “यज्ञादियः” ( ६।४।१७९) । अस्मादहत्यर्थे इयः स्यात् । यज्ञमर्हति यज्ञियो १० देशः, यजमानो वा । यज्ञो नाम क्रियासमुदायः, कश्चित्तदभिव्यङ्गयं चाऽपूर्वम् । (वा पूर्वम् ? ) इत्याहुः।
“पात्रात्तौ” (६।४।१८०) । ताविति य इय प्रत्ययौ । पात्रमर्हति पात्र्यः पात्रियः। “दक्षिणाकडङ्गरस्थालीबिलादीययो” (६।४।१८१) । एभ्यस्त्रिभ्योऽर्हत्यर्थे एतौ स्याताम् । दक्षिणामर्हति दक्षिणीयो दक्षिण्यो गुरुः। कडङ्गरीयः कडङ्गर्यो गौः, कडङ्गरं माषादिकाष्ठम् । स्थालीबिलीयाः स्थालीबि
ल्यास्तण्डुलाः, पाकाहा॑ इत्यर्थः । “शालीनकौपीनात्विजीनम्” (६।४।१८५)। एते त्रयोऽर्हत्यर्थे १५ ईनप्रत्ययान्ता निपात्यन्ते । शालाप्रवेशनमर्हति, ईनन् , प्रवेशनशब्दस्य च लुक्, शालीनोऽधृष्टपर्यायः।
कूपप्रवेशनमर्हति कौपीनः, कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्त्तते [उपस्थशब्देन सर्ववस्तूनां मध्यभागोऽभिधीयते इति गुह्यप्रतिपत्त्यर्थं गोपनीयग्रहणम् ] । ऋत्विक्शब्दात् ऋत्विकर्मशब्दाद्वा ईनन् , कर्मशब्दलोपश्च निपात्यः, ऋत्विजमर्हति आत्विजीनो यजमानः; ऋत्वि
कर्हिति आविजीन:-ऋत्विगेव । *क्रीतादयश्चत्वार इति-उपलक्षणमात्रमेतत् , अन्यथा तेन "मूल्यैः २० क्रीते" (६।४।१५०) इत्यस्मादारभ्य "तमहती"ति सूत्रं यावत् येऽर्थाः "तस्य वापे" (६।४।
१५१) "तं पचतिद्रोणा०” (६।४।१६१) इत्यादयस्ते सर्वेऽप्याईदर्था ज्ञेयाः । प्रकृतिप्रत्ययविभक्त्यादिनियमस्तु यथासूत्रं ज्ञेयः । “त्रिंश." आभ्यामाईदर्थे डकः स्यात् , कापवादः । असंज्ञायामिति किम् ? त्रिंशत्कम् ॥ "विंश”। सूत्रं स्पष्टम् ॥ ७६ ॥
सङ्ख्याडतेश्चाशत्तिष्टेः कः ॥ ७७ ॥ [सि०६४।१३०] २५ शदन्तत्यन्तथ्यन्तवर्जसङ्ख्याया डतेस्त्रिंशविंशतिभ्यां चाहदर्थे कः स्यात् । द्विकं त्रिंशत्कं विंशतिकं कतिकं यावत्कम् । *डतेः पृथग्ग्रहणं त्यन्तप्राप्तनिषेधपरिहाराय । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम् । साप्ततिकम् । षाष्टिकम् । “सहस्रशतमानादण्” (६।४।१३६)। आईदर्थे । साहस्रः। शातमानः॥७७॥
"सत्या" । द्वाभ्यां त्रिंशता विंशत्या कतिभिर्यावद्भिः क्रीतं द्विकमित्यादि । कतियावतोः, "डत्यतु ३० सङ्ख्यावत्" (१।१।३९) इति सङ्ख्यात्वम्, अडतेः पृथग्रहणमित्युपलक्षणम्, तेन अशत्तिष्टेरिति
प्रतिषेधे प्राप्ते डतित्रिंशद्विशतीनामुपादानमित्यपि ज्ञेयम्। चात्वारिंशत्कमिति-एवं पाश्चाशत्कम् , साप्ततिकम् इति-आशीतिकं, नावतिकं, षाष्टिकम् ॥
आदिशब्दात् “शतात्केवलादतस्मिन्येको" (६।४।१३१) । अस्मादेतौ स्याताम् , अत३४ स्मिन्-स चेदर्थो वस्तुतः प्रकृत्यर्थादभिन्नो न भवति । शतेन क्रीतं शत्यं शतिकम् । केवलादिति किम् ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org