________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः। मानाद्यर्थाः
४१७ स्याद्वादात्तु भेदाभेदसम्भव इति ॥ "नानि" ( ६।४।१७२ ) । सङ्ख्यावाचिनस्तदस्य मानमित्यर्थे यथाविहितं प्रत्ययः स्यात् , समुदायश्चेन्नाम भवति । पश्चेति सङ्ख्या मानमेषां पञ्चकाः शकुनयः । त्रिकाः शालकायनाः । सप्तका ब्रह्मवृक्षाः । अष्टका राजर्षयः । योगविभागात्संज्ञायां पश्चैव पश्चकात्रय एव त्रिका इति स्वार्थ एव वा प्रत्ययः स्यात् ॥ ७४ ॥ विंशत्यादयः ॥ ७५॥ [सि० ६४।१७३]
५ एते निपात्यन्ते । द्वौ दशतौ मानमेषां विंशतिः । एवं त्रिंशदादयः । “पश्चद्दशबर्गे" वा (६।४।१७५) । पञ्चद्दशत्पश्चको दशको वा वर्गः ॥ ७५ ॥
"विंश०" । एते निपात्यन्ते इति-नाम्नि विषये, तदस्य मानमित्यर्थे इति शेषः । विंशतिरिति सहयेयविवक्षया विंशतिर्घटाः, सङ्ख्यानविवक्षया विंशतिर्घटानामिति । द्वेर्दशदर्थे विम्भावः शतिश्च प्रत्ययः । एवं त्रिंशदादय इति-त्रयो दशतो मानमेषां सङ्ख्येयानामस्य वा सङ्ख्यानस्य त्रिंशत् । एवं सर्वत्र ज्ञेयम् । १० "आ दशभ्यः सङ्ख्या सयेय एव, विंशतेः प्रभृति च सङ्ख्या सङ्ख्येये सङ्ख्याने चेति स्त्रिम्भावः शञ्चप्रत्ययः । चतुरश्चत्वारिम्भावः शच्चप्रत्ययः-चत्वारो दशतो मानमेषामिति चत्वारिंशत् । पञ्चन आत्वं च, पञ्च दशतो मानमेषां पश्चाशत् । षषस्तिः षष् च, षट् दशतो मानमेषां षष्टिः । सप्तनस्तिः सप्त दशतो मानमेषां सप्ततिः । अष्टनोऽशीश्च, अष्ट दशतो मानमेषामशीतिः । नवनस्तिः, नव दशतो मानमेषां नवतिः । दशनः शभावस्तश्च प्रत्ययः, दश दशतो मानमेषां सङ्खयेयानामस्य वा सङ्ख्यानस्य शतं १५ घटा घटानां वा । एवं दश शतानि मानमेषां सङ्ख्येयानामस्य वा सङ्ख्यानस्य सहस्रम् । एवं दशसहस्राण्ययुतम् । दशायुतानि नियुतम् । दश नियुतानि प्रयुतम् । दश प्रयुतान्यऽर्बुदम् । दशार्बुदानि न्यर्बुदम् । बहुवचनाल्लक्षकोटिखर्वनिखर्वादयो भवन्ति [ दशायुतानि लक्षम् , दश प्रयुतानि कोटिः, दशाब्जानि खर्वम् , दश खर्वाणि निखर्वम् , ] । यदत्र लक्षणेनानुपपन्नं तत्सर्वं निपातनात् सिद्धम् । लिङ्गसङ्ख्यानियमश्च विंशत्याद्याशतादिति सिद्धः ॥
अत्रादिशब्दोपादानात् "चॅशं चात्वारिंशम्" (६।४।१७४ ) नाम्नि विषये एतौ डण्प्रत्ययान्तौ निपात्येते । त्रिंशदध्याया मानमेषां शानि, चात्वारिंशानि कानिचिदेव ब्राह्मणान्युच्यन्ते। "पञ्च." तदस्य मानमित्यस्मिन्विषये वर्गे अभिधेये डत्प्रत्ययान्तौ तौ वा निपात्येते, पक्षे को भवति । पञ्च मानमस्य पश्चत् पञ्चको वा वर्गः । एवं दशत् दशको वा वर्गः ॥ __ आदिशब्दात् “स्तोमे डटू” (६।४।१७६) सङ्ख्यावाचिनः प्रथमान्तात्तदस्य मानमिति विषये २५ स्तोमेऽभिधेये डट स्यात । ऋगादीनां समूहः स्तोमः । पञ्चदश ऋचो मानमस्य पश्चदशः स्तोमः । एवं पञ्चविंशः । त्रिंशः । पञ्चदशी पतिः । डकारोऽन्त्यस्वरादिलोपार्थः । टकारो ड्यर्थः ॥ ७५ ॥
तमर्हति ॥ ७६ ॥ [सि० ६।४।१७७] द्वितीयान्तादर्हत्यर्थे इकणादयः स्युः । विषमर्हति वैषिकः । नित्यं *छेदमर्हति छैदिकः । विरागस्य विरङ्गादेशे विरङ्गिकः । “(दण्डादेर्यः)" (६।४।१७८) । दण्डमहतीति दण्ड्यः । ३० अर्थ्यः। क्रीतादयश्चत्वार आईदा:-"त्रिंशदिशतेर्डकोऽसंज्ञायामाहदर्थे" (६।४।१२९) त्रिंशता क्रीतो यावत्रिंशतमर्हति त्रिंशकः । “विंशतेस्तेर्डिति” (७४६७) । लुक । विंशका पटः ॥ ७६॥
है. प्रका० पूर्वा० ५३
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org