________________
४१६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुदावहत्स" (६४१६६) । वंशादिभ्यः परो यो भारशब्दस्तदन्ताहितीयान्तान्नान्नो हरति वहति आवहति चार्थे यथाविहितं प्रत्ययाः स्युः । वंशभारं हरति वहति आवहति वा वांशभारिकः ॥ अपरोऽर्थ:-भारभूतेभ्यो वंशेभ्यो हरदादिष्वर्थेषु यथाविहितं प्रत्ययाः स्युः । भारभूतान्वंशान्हरति वहति
आवहति वा वांशिकः । कौटिकः । वाल्वजिकः ॥ भाराविति किम् ? एकं वंशं हरति । हरतिर्देशा५न्तरप्रापणे चौर्ये वा; वहतिरुक्षिप्यधारणे; आवहतिरुपादने । वंश, कुट, कुटज, वल्वज, मूल, स्थूणा,
अक्ष, अश्मन् , इक्षु, खट्वा, श्लक्ष्ण, इति वंशादय एकादश ॥ "द्रव्यवस्लात्केकम्" (६।४।१६७) द्रव्यवस्माभ्यां द्वितीयान्ताभ्यां वहदाविषु त्रिष्वर्थेषु यथासङ्ख्यं केको प्रत्ययौ स्याताम् । द्रव्यं हरति वहति आवहति वा द्रव्यकः । एवं वनिकः ॥ “सोऽस्य भृतिवलांशम्" (६।४।१६८)। स
इति प्रथमान्तादस्पेति षष्ठ्यर्थे यथाविहितमिकणादयः स्युर्यत्प्रथमान्तं तचेद् भृतिर्वस्नमंशो वा भवति । २० तत्र भृतिवेतनम् , वनो नियतकालक्रयमूल्यम्, अंशो भागः । पञ्चास्य भृतिः पञ्चकः कर्मकरः ।
पञ्चास्य वस्त्रं पञ्चकः पटः । पञ्चास्यांशाः पञ्चकं नगरम् ॥ एवं सप्तकः, अष्टकः, शत्यः, शतिकः, साहस्रः, प्रास्थिकः ॥ ७३ ॥
मानम् ॥ ७४॥ [सि० ६३।१६९ ] अमात्प्रथमान्तात्षष्ठ्यर्थे इकणादयः स्युः । द्रोणो मानमय द्रौणिको राशिः ॥ ७४ ॥ १५ "मानम्" अस्मादिति मानवाचिनः । मीयते येन तन्मानं प्रस्थद्रोणादि, संख्यापि च । द्रोणो मान
मस्य द्रौणिको राशिरिति-एवं प्रास्थिकः, खारीकः, खारीशतिकः खारीसाहसिकः । वर्षशतं वर्षसहस्रं मानमस्य वार्षशतिको वार्षसाहनिको देवदत्तः । पञ्च लोहितानि पञ्च लोहिन्यो वा मानमस्य पाञ्चलोहिनिकम् , पाश्चकलायिकम् , अनयोः संज्ञाशब्दत्वात् "अनाम्यद्विः प्लुब्” (६।४।१४१) इति लुब् न भवति । मासो वर्ष मानमस्येत्यादौ तु प्रत्ययो न स्यात्-मानग्रहणेन कालस्याग्रहणात्तदपि २० "मानसंवत्सरस्य०” (७४।१९) इत्यादौ मानग्रहणे सत्यपि संवत्सरग्रहणात् ॥
अत्रादिशब्दग्रहणात् "जीवितस्य सन्” (६।४।१७०)। जीवितस्य यन्मानं ततः प्रागुक्तार्थे यथाविहितं प्रत्ययः स्यात्, स च सन्, तस्य "अनाम्यद्विःप्लुबि"ति लुप् प्राप्ता न भवतीत्यर्थः । षष्टिर्जीवितमानमस्य षाष्टिकः । साप्ततिकः, वार्षशतिकः, वार्षसाहसिकः । द्वे षष्टी जीवितमानमस्य द्विषाष्टिकः, त्रिषाष्टिकः, द्विवार्षशतिकः, द्विवार्षसाहसिकः । वृत्तौ वर्षशब्दलोपाषष्ट्यादयो जीवितमानं २५ भवति-यथा शतायुर्वै पुरुष इति ॥ प्रास्थिक इत्यादौ ब्रीह्यादय एव मेयास्त एव प्रत्ययार्थोऽत्र तु जीवितं मेयम्, पुरुषस्तु प्रत्ययार्थ इति “मानमिति" सूत्रेण न सिद्ध्यतीति वचनं लुबभावार्थं च ॥ "सक्ष्यायाः सङ्घसूत्रपाठे" (६।४।१७१) । सङ्ख्यावाचिनः प्रथमान्तादस्य मानमित्यर्थे यथाविहितं प्रत्ययः स्यात् , यत्तदस्येति निर्दिष्टम् , तश्चेत्सङ्घः सूत्रं पाठो वा स्यात् । सङ्घः प्राणिनां समूहः ।
सूत्रं शास्त्रप्रन्थः । पाठोऽधीतिरध्ययनम् । पश्च गावो मानमस्य पश्चकः सङ्घः । सप्तकः ॥ अष्टावध्याया ३० मानमस्य अष्टकं पाणिनीयं सूत्रम् । दशकं वैयाघ्रपदीयम् । शतकं निदानम् । अष्टौ रूपाणि वारा मान
मस्याष्टकः पाठोऽधीत:-"सङ्ख्याडते.” (६।४।१३०) इति कः। सङ्घादाविति किम् ? पश्च वर्णा मानमस्य पश्चतयं पदम् । इदं न सङ्घो न सूत्रं न पाठ इति को न भवति, अपि तु तयडेव । एवं चतुष्टयी शब्दानां प्रवृत्तिः, पश्चादीनां सहयेयानामवयवतया समादेर्मानत्वान्मानमित्यनेनैव सिद्ध्यति, परत्वात्तु
तयट् प्रामोति, तद्वाधनार्थ वचनम् । न चातिप्रसङ्ग:-[ सङ्के वाच्ये क एवेति ] अभेदरूपापन्ने ३५सनादौ तयटो बाधनार्थमिदम् । भेदरूपापन्ने तु तयडेव-चतुष्टये ब्राह्मणक्षत्रियविशूद्रा इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org