________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । ज्ञाताद्यर्थाः
४१५
लोकस्य ज्ञातः लौकिकः । एवं सार्वलौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः ॥ " तदत्रास्मै वा वृद्ध्यायला भोपदाशुकं देयम्” ( ६ । ४ । १५८ ) । प्रथमान्तात्सप्तम्यर्थे चतुर्थ्यर्थे वा यथाविहितं प्रत्ययः स्यात्, यत्प्रथमान्तं तथेत् वृद्ध्यादिकं स्यात् ॥ तत्र अधमर्णेनोत्तमर्णाय गृहीतधनातिरिक्तं देयं वृद्धिः । प्रामादिषु स्वामिप्रायो भाग आयः । पटादीनामुपादानमूल्यातिरिक्तं प्राप्तं द्रव्यं लाभः । उपदा उत्कोचः, लंच उत्कोट इति यावत् । वणिजां रक्षानिर्देशो राजभागः शुलम् ॥ पञ्चास्मिन् शते ५ वृद्धिः पञ्चकं शतम् । पञ्चास्मिन् प्रामे आयः पञ्चको ग्रामः । पञ्चास्मिन् पठे लाभः पञ्चकः पटः । पचास्मिन् व्यवहारे उपदा पञ्चको व्यवहारः । पश्चास्मिन् शते शुकुं पञ्चकं शतम् । एवं शत्यं शतिकम् || पञ्चास्मै देवदत्ताय वृद्ध्यादिकं देयं पञ्चको देवदत्तः । एवं शत्यः शतिकः साहस्रः प्रास्थिकः ॥ वृद्ध्यादिग्रहणं किम् ? पश्च मूल्यमस्मिन्नस्मै वा दीयते ॥ " पूरणार्द्धादिकः " ( ६।४ । १५९ ) पूरणप्रत्ययान्तादर्द्धशब्दाच्च प्रथमान्तादस्मिन्नस्मै वा दीयते इत्यर्थयोरिकः प्रत्ययः स्यात्, यत्प्रथमान्तं तद्दृ- १० ज्यादि चेद्भवति । इकणिकटोरपवादः ( पूरणप्रत्ययान्तेभ्य पूर्वेणेकण्, अर्द्धात्तु 'कंसार्द्धात् इतीट् ) । द्वितीयमस्मिन्नस्मै वा वृद्ध्यादिकं देयं द्वितीयिकः । तृतीयिकः, पश्चिकः, षष्टिकः अर्द्ध. अर्द्धिकः, अर्द्धका स्त्री । अर्द्धशब्दो रूपका रूढः ॥ " भागाद्येकौ " ( ६।४।१६० ) । तथैव । इकणोऽपवादौ । भागोऽस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयं भाग्यः, भागिकः, भागिका स्त्री । भागशब्दोऽपि रूपकार्द्धस्य वाचकः ।। “तं पचति द्रोणाद्वाऽञ् ” ( ६ । ४ । १६१ ) । द्वितीयान्ताद्रोणशब्दात्पचत्य - १५ र्थे वा स्यात्, पक्षे इकण् । द्रोणं पचति द्रौणः, द्रौणिकः, द्रौणी, द्रौणिकी, स्थाली गृहिणी वा । द्वौ द्रोणौ पचति द्विद्रोणी " अनाश्यद्विः लुप्” ( ६ । ४ । १४१ ) इत्यभिकणोर्लुप् । “सम्भवदवहरतो" ( ६।४।१६२ ) । द्वितीयान्तात्पचत्यर्थे सम्भवदवहरतोश्चार्थयोर्यथाविहितं प्रत्ययाः स्युः । तत्राधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः, अतिरेकेणावहारः । प्रस्थं पचति सम्भवति अवहरति वा प्रास्थिकः कटाहः । प्रास्थिकी स्थाली । एवं खारीकः । सम्भवतिरकर्मकः सकर्मकश्च सम्भवति, तत्र २० सकर्मक इह प्रायः - सम्भवत्यवगृह्णातीत्यर्थः । चकारः पचतः सम्भवदवहरतोः सेमुच्चयार्थस्तेनोत्तरत्रार्थत्रयस्यानुवृत्तिः ॥ " पात्राचिताढकादीनो वा " ( ६।४।१६३ ) । एभ्यो द्वितीयान्तेभ्यः पचत्सम्भवदवहरत्स्वर्थेषु ईनः स्यात्-पात्रं पचति सम्भवति अवहरति वा पात्रीणः । पक्षे इक - पात्रिकः । पात्रीणा । पात्रिकी स्थाली । आचितीना आचितिकी । आढकीना आढकिकी । पात्रादयस्त्र1 योऽपि परिमाणवाचिनः शब्दाः ॥ “द्विगोरीनेकटौ वा " ( ६ |४| १६४ ) पात्राद्यन्ताद्विगोर्द्विती- २५ यान्तात्पचदाद्यर्थत्रये इनेकटौ वा स्याताम् । पक्षे इकण्, तस्य च " अनायद्विः लुप् ” ( ६।४।१४१ ) इति लुप्, नानयोर्विधानसामर्थ्यात् । द्वे पात्रे पचति सम्भवत्यवहरति वा द्विपात्रीणः द्विपात्रिकः द्विपात्रः; द्विपात्रीणा द्विपात्रिकी द्विपात्री । व्याचितीना व्याचितिका व्याचिता । आचितान्तात् ङीर्न भवति - अविस्तान्चितकम्बल्यादिति प्रतिषेधात् - व्याढकीना, व्याढकिकी, व्याढकी । टकारो ङयर्थः । "कुलिजाद्वा लुप् च" ( ६।४।१६५ ) । कुलिजान्ताद्विगोर्द्वितीयान्तात्पचदाद्यर्थत्रये ईनेकटौ वा ३० स्याताम् ; पक्षे इकण्, तस्य लुप् वा स्यात्; तेन चातूरूप्यं सम्पद्यते । द्वे कुलिजे पचति सम्भवत्यवहरति वा द्विकुलिजीना, द्विकुलिजिकी; पक्षे द्विकुलिजी, द्वैकुलिजिकी । लुपि "परिमाणे ०” (२।३।२३ ) इत्यादिना ङीः । अन्ये तु लुप् विकरूपं न मन्यन्ते, तन्मते त्रैरूप्यमेव ॥ " वंशादेर्भाराद्धरद्वह-३३
१ यथा प्रस्थोऽत्र सम्भवति माति नातिरिच्यत इति अकर्मकः । प्रस्थमयं सम्भवत्यवगृहाति, न निर्वमति नातिरेचयतीति सकर्मकः । २ नत्वाकर्षणार्थ:, तेन चानुकुष्टमित्यस्याप्रवृत्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org