________________
४१४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुनिपातनस्येष्टविषयत्वादायन्तयोर्षर्तमानात्समानकालात्प्रथमान्तात्षष्ट्यर्थे इकेकणौ, अस्य चाकालादेशः समानकालावायन्तावस्याऽकालिकोऽनध्यायः । आकालिकी आकालिका विद्युत् । समानकालता चाद्यन्तयोः प्राग्वद्वेदितव्या ॥ ७२ ॥
मूल्यैः क्रीते ॥७३॥ [सि०६४।१५० ] ५ मूल्यार्थाद्वान्तात्क्रीतेऽर्थे इकणादयः स्युः । प्रास्थिकम् ॥७३॥
"मूल्यैः०" । पदान्तादिति तृतीयान्तादित्यर्थः । प्रस्थेन क्रीतं प्रास्थिकं इति-एवं सप्तत्या साप्ततिकं आशीतिकं नैष्किकं पाणिकं पादिकं त्रिंशकं विंशकं शत्यं शतिकम् । मूल्यैरिति किम् ? देवदत्तेन क्रीतम् , पाणिना क्रीतम् । वृत्तौ सयाविशेषानवगमाहिवचनबहुवचनान्तान भवति-प्रस्थाभ्यां प्रस्थैर्वा क्रीतमिति। यत्र तु सङ्ख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव-द्वाभ्यां क्रीतं द्विकम् , द्वाभ्यां प्रस्थाभ्यां क्रीतं १० द्विप्रस्थम् , यथा वा मुद्रः क्रीतं मौद्रिकम् , माषिकम् । न केन मुद्रेन माषेण वा क्रयः सम्भवति ॥
आदिशब्दोपादानात् "तस्य वापे" (६।४।१५१)। षष्ट्यन्ताद्वापेऽर्थे यथाविधि इकणादयः स्युः । उप्यतेऽस्मिन्निति वापः क्षेत्रम्, प्रस्थस्य वापः प्रास्थिकम् , द्रौणिकम् , मौद्रिकम् , शल्यम् , शतिकम् , खारीकम् । “वातपित्तश्लेष्मसन्निपाताच्छमनकोपने" (६।४।१५२) । एभ्यः षष्ठ्यन्तेभ्यः
शमने कोपने चार्थे इकण् स्यात् । शाम्यति येन तच्छमनम् , कुप्यति येन तत्कोपनम् , वातस्य शमनं १५ कोपनं वा वातिकम् । पैत्तिकं श्लैष्मिकं सानिपातिकम् । पथ्यमपथ्यं वा द्रव्याघेवमभिधीयते, प्रकर
णात्तु विशेषगतिः । "हेतौ संयोगोत्पाते” (६।४।१५३) षष्ठयन्ताद्धतावर्थे यथाविहितं प्रत्ययः स्यात् , योऽसौ हेतुः स चेत् संयोग उत्पातो वा स्यात् । हेतुर्निमित्तम् , संयोगः संबन्धः । प्राणिनां शुभाशुभसूचको महाभूतपरिणाम उत्पातः । शतस्य हेतुरीश्वरसंयोगः शत्यः, शतिकः, साहस्रः । सोमग्रहणस्य हेतुरुत्पातः सौमग्रहणिको भूमिकम्पः । सांसामिकमिन्द्रधनुः । सौभिक्षिकः परिवेषः । २० शतस्य हेतुर्दक्षिणाक्षिस्पन्दनं शत्यं शतिकम् । साहस्रम् । “पुत्रायेयौ" (६।४।१५४ ) पुत्रस्य हेतुः
संयोग उत्पातो वा पुत्र्यः, पुत्रीयः । "द्विखरब्रह्मवर्चसाद्योऽसङ्ख्यापरिमाणाश्चादे" (६।४।१५५)। सङ्ख्यापरिमाणाश्वादिवर्जाहिवरान्नाम्नो ब्रह्मवर्चसशब्दाच्च षष्ठ्यन्ताद्धेतावर्थे यः स्यात् , स चेद्धेतुः संयोग उत्पातो वा स्यात् । इकणादीनामपवादः । धनस्य हेतुः संयोग उत्पातो वा धन्यः । यशस्यः, आयुष्या, वात्या विद्युत् । ब्रह्मवर्चसस्य हेतुः संयोग उत्पातो वा ब्रह्मवर्चस्यः । कथं गोर्हेतुः २५ संयोग उत्पातो वा गव्यः द्विखराभावात् ? उच्यते "गोः खरे यः" (६।१।२७) इति भवति । ब्रह्मवर्चसग्रहणमद्विखरार्थम् । सङ्ख्यादिवर्जनं किम् ? पश्चानां हेतुः संयोग उत्पातो वा पञ्चकः । प्रास्थिकः । खारीकः । “ऊर्ध्व मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या तु सर्वतः" ॥ १॥ एवं आश्विकः, गाणिकः । अश्व, गण, वसु, वस्त्र, ऊर्णा, उमा, भङ्गा, वर्षा, (अश्मन् ? ) इत्यश्वादयोऽष्टौ ॥ "पृथिवीसर्वभूमेरीशज्ञातयोश्वाञ् (६।४।१५६) । ३.आभ्यां षष्ठ्यन्ताभ्यां ईशशातयोरर्थयोस्तस्य हेतुः संयोग उत्पात इत्यस्मिन् विषये चाञ् स्यात् । ईशः स्वामी । पृथिव्या ईशः पार्थिवः, सर्वभूमेः सार्वभौमः, सर्वभूमेरनुशतिकादित्वादुभयपदवृद्धिः । प्रथिव्या ज्ञातः पार्थिवः-कर्तरि षष्ठीसंबन्धविवक्षायां वा । एवं सार्वभौमः । पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः । एवं सार्वभौमः । ईशज्ञातयोरिति द्विवचनं हेतुविशेषणत्वशङ्काव्यवच्छेदार्थम् ।
( हेतुविशेषणत्वे संयोग उत्पात ईशज्ञातेत्यर्थचतुष्टयं विज्ञायते ततश्च स तद्धेतुः संयोग उत्पात ईशो ज्ञातो ३५वा भवतीत्यर्थः स्यात् ) । "लोकसर्वलोकात् ज्ञाते" (६४१५७) । औत्सर्गिक इकण् स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org