________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । भूतापर्थाः भूतेऽर्थे ईनम् चकारायश्च स्यात्, वयसि गम्ये।मासं भूतो मासीनो मास्यो दारकः । षकारो वृद्धिहेतुत्वेन पुंवद्भावाभावार्थ:-मासीना स्वसाऽस्य मासीनास्वसृकः । “षण्मासाद्ययणिकण्” (६।४।११५)। अस्माद्भूतेऽर्थे एते स्युः, वयसि गम्ये । षण्मासात् भूतः षण्मास्यः । “सोऽस्य ब्रह्मचर्यतद्वतो" (६।४।११६) प्रथमान्तात्कालवाचिनः षष्ठ्यर्थे इकण् स्यात् , तोद्रमचर्य प्राचारी वा स्यात् । मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् । आर्द्धमासिकम् , सांवत्सरिकम् । मासोऽस्य ब्रह्मचारिणो मासिको५ ब्रह्मचारी (मासं ब्रह्मचर्यमस्येत्यर्थः) "प्रयोजनम्" (६।४।११७) । प्रथमान्तात्षष्ठ्यर्थे इकण् स्यात् , तञ्चेत्प्रयोजनं स्यात् । प्रयोजनं प्रयोजकं प्रवर्तकं जनकमुत्पादकम् । जिनमहः प्रयोजनमस्य जैनमहिकम् , दैपोत्सविकं गानम् । “एकांगाराचौरे" (६।४।११८) । एकमगारं प्रयोजनमस्य ऐकागारिकश्चौरः, ऐकागारिकी । चौरे नियमनात् एकागारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव ॥ "चूडादिभ्योऽण्" (६।४।११९)। प्रागुक्तार्थे । चूडा प्रयोजनमस्य चौडं श्राद्धम् (चूला चौलम् । उपनयनम् १०
औपनयनम् । श्रद्धा श्राद्धम् ) । एते प्रयोगगम्याः । "विशाखाषाढान्मन्थदण्डे" (६।४।१२०)। आभ्यामुक्तार्थेऽण् स्यात्, यथाक्रमं मन्थे दण्डे चाभिधेये । मन्थो विलोडनं दण्डो वा, विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढा आषाढे आषाढाः प्रयोजनमस्य आषाढो दण्डः ॥ "उत्थापनादेरीयः" (६।४।१२१) यथोक्तार्थे । उत्थापनं प्रयोजनमस्य उत्थापनीयः । उत्थापन, उपस्थापन, अनुप्रवचन, अनुवाचन, अनुवदन, अनुवादन, अनुपान, अनुवासन, आरम्भण, समारम्भण, १५ इत्युत्थापनादयो दश ॥ “विशिरुहिपदिपूरिसमापेरनात्सपूर्वपदात्" (६।४।१२२)। अनप्रत्ययान्तेभ्य एभ्यः पश्चभ्यः सपूर्वपदेभ्यो यथोक्तार्थे ईयः स्यात् । गृहप्रवेशनं प्रयोजनमस्य गृहप्रवेशनीयं गानमुत्सवादिकं वा, एवं संवेशनीयम् । प्रासादारोहणीयम् , आरोहणीयम् , अश्वप्रपदनीयम् , प्रपापूरणीयम् , अङ्गसमीपनीयम् , व्याकरणसमीपनीयम् ।। "खर्गस्वस्तिवाचनादिभ्यो यलुपौ" (६।४।१२३) । स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यश्चोक्तार्थे यथासङ्ख्यं यप्रत्ययो लुप् च स्याताम् । स्वर्गः२० प्रयोजनमस्य स्वय॑म् , यशस्यम् , आयुष्यम्, काम्यम्, धन्यम्, स्वस्तिवाचनादिभ्य इकणो लुप्स्वस्तिवाचन प्रयोजनमस्य स्वस्तिवाचनम्, शान्तिवाचनम्, । एते उभयेऽपि प्रयोगगम्याः । गणदयोपादानाद्वचनभेदेऽपि यथासङ्ख्यम् ।। "समयात्प्राप्त:" (६।४।१२४) । सोऽस्येत्यनुवर्तते । अस्मात्प्रथमान्तात्षष्ठपर्थे इकण् स्यात् । स चेत्प्रथमान्तः प्राप्तः स्यात् । समयः प्राप्तोऽस्य सामयिक कार्यम् , उपनतकालमित्यर्थः ॥ "ऋत्वादिभ्योऽ" (६।४।१२५)। उक्तार्थे । ऋतुः प्राप्तोऽस्य २५ आर्तवं पुष्पम् । उपवस्ता प्राप्तोऽस्य औपवस्त्रम् [ उपोषितपारणके यद्भक्ष्यद्रव्यं तदोपवस्त्रम् । यद्वैदिकम्-'माषाण्मधुमसूरांश्च वर्जयेदौपवस्त्रके' पुरुषस्तूपवस्ता] । एते प्रयोगगभ्याः ॥ “कालाद्यः" (६।४।१२६) । उक्तार्थे । कालः प्राप्तोऽस्य काल्यो मेघः॥ "दीर्घः” (६।४।१२७) । स चेत्कालो दीर्घः स्यात्तदास्मादुक्तार्थे इकण् स्यात् । दीर्घः कालोऽस्य कालिकमृणम् । कालिकी संपत् । योगविभागादधिकृत इकण् ॥ "आकालिकमिकश्चाद्यन्ते" (६।४।१२८) । इकान्तमिकणान्तं चैतन्निपा-३० त्यते । आकालशब्दाद्भवत्यर्थे एतौ स्यातामित्यर्थः । आदिरेव यद्यन्तः स्यात्-यस्मिन्काले यत्प्रवृत्तमनध्यायादि, तस्मिन्नेव काले प्रत्यावृत्ते यदि तदुपरमेत । उत्पत्तिक्षण एव वा यद्विनश्यति तस्यादिरेवान्तः स्यात् । आकालं भवति आकालिकोऽनध्यायः-पूर्वेधुर्यस्मिन्काले तृतीये चतुर्थे वा यामे प्रवृत्तः, पुनरपरेधुरपि आ तस्मात्कालाद्भवनाकालिकोऽनध्याय उच्यते (आकालिका आकालिकी वा वृष्टिः) । इफेकणोः त्रियां विशेषः । आकालिका आकालिकी वा विद्युत्-आजन्मकालमेव भवन्ती जन्मानम्तरविनाशिनीत्यर्थः । पर्व धान्याविरेवान्तो भवति । निपातनमादावन्ते चेति द्वन्द्वनिवृत्त्यर्थम्, अथवा ३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org