________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपशहैमलधुप्राविमसमासोऽपि-अकर्मण्यः, अवेष्यः । केचिद्वेषस्थाने वेशं पठन्ति–वेश्या नर्तकी ॥ "कालास्परिजय्यलभ्यकार्यसुकरे" (६।४।१०४) । तृतीयान्तात्कालविशेषादेषु चतुःष्वर्थेषु इकण् स्यात् । तत्र परितो जेतुं शक्यं परिजय्यम् । शक्ते कृत्यः, लभ्यकार्ययोः शक्तेऽहे वा । अकृच्छ्रेण क्रियते यत्तत्सुकरम् । मासेन परिजय्यो मासिको व्याधिः । मासेन लभ्यो मासिकः पटः । मासेन कार्य ५ मासिकं चान्द्रायणम् । मासेन सुकरो मासिकः प्रासादः॥ “आहिकमिति"-"निर्वृत्ते" (६।४। १०५)। हतीयान्तात्कालाभिवृत्तेऽर्थे इकण् स्यात् । अहा निर्वृत्तं आह्निकम् । एवं मासिकं सांवत्सरिकम् ।
इत्यादिशब्दनिर्देशाच "तं भाविभूते" (६।४।१०६)। द्वितीयान्तात्कालाद्भाविनि भूते चार्थे इकण् स्यात् । स्वसत्ता व्याप्स्यमानः कालो भावी, व्याप्तो भूतः । मासं भावी मासिकः उत्सवः ।
मासं भूतो मासिको व्याधिः ॥ "तस्मै भृताऽधीष्टे च" (६।४।१०७) । तादर्थ्यचतुर्थ्यन्तात्का१० लान् भृतेऽधीष्टे चार्थे इकण् स्यात् । भृतो वेतनेन क्रीतः । अधीष्टः सत्कृत्य व्यापारितः । मासाय
भृतः मासिकः किङ्करः-मासं कर्मणे भृत इत्यर्थः । मासाय अधीष्टः मासिक उपाध्यायः-मासमध्ययनायाधीष्ट इत्यर्थः । एवं वार्षिक इत्यादि । चकारोऽनन्तरोक्तसूत्रत्रयस्याप्युत्तरत्रानुवृत्त्यर्थः ॥ "षण्मासादवयसि ण्येकौ" (६४।१०८)। अस्मादवयसि गम्येऽनन्तरोक्तसूत्रत्रयविषये ण्येकौ स्याताम् । षनि
मौसैनिर्वृत्तः, षण्मासान् भावी, भूतो वा, षड्भ्यो मासेभ्यो भृतोऽधीष्टो वा, पाण्मास्यः, पाण्मा१५ सिकः । अषयसीति किम् ? षण्मासान् भूतः षण्मास्यः-"षण्मासाद्ययणिकण्” (६।४।११५) इति
यः ॥ "समाया ईन:” ( ६।४।१०९)। समाशब्दान्निर्वृत्ताधर्थपश्चकविषये ईनः स्यात् । समया निर्वृत्तः, समां भूतो भावी वा, समायै भृतोऽधीष्टो वा समीनः । “राज्यहः संवत्सराच द्विगोर्वा" (६।४।११०)। राज्यादित्रयान्तात्समासान्ताच द्विगोनिर्वृत्तादिपञ्चकविषये ईनो वा स्यात् । द्वाभ्यां
रात्रिभ्यां निवृत्तो वे रात्री भूतो भावी वा, द्वाभ्यां रात्रिभ्यां भृतोऽधीष्टो वा द्विरात्रीणः । एवं २० व्यहीनः, द्विसंवत्सरीणः, द्विसमीनः । पक्षे इकण-द्वैरात्रिकः, द्वैयहिकः ॥ द्वैयहिक इति तु व्यहशब्दात् समाहारद्विगोरिकणि भवति । द्विसांवत्सरिक:-"मानसंवत्सर०” (७४।१९) इत्यादिनोत्तरपदवृद्धिः । द्वैसमिकः । राज्यन्तादहरन्ताच्च परमपि समासान्तं बाधित्वाऽनवकाशत्वादीन एव भवति, तथा च समासान्तसन्नियोगे उच्यमानः “सर्वांशसङ्ख्याव्ययात्" (७३।११८) इत्यहादेशो न
भवति । समासान्तात्पूर्वेण नित्ये प्राप्ते शेषेभ्योऽप्राप्ते विकल्पः ।। "वर्षादश्च वा" (६।४।१११)। २५ कालवाचिवर्षशब्दान्ताहिगोः प्रागुक्तपञ्चकविषयेऽकारश्वकारादीनश्च वा स्यात्, पक्षे इकण् । एवं
त्रैरूप्यम् । द्वाभ्यां वर्षाभ्यां निर्वत्तो द्वौ वर्षों द्वे वर्षे वा भूतो भावी वा, द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो या द्विवर्षः, द्विवर्षीणः, द्विवार्षिक: “सङ्ख्याधिकाभ्यां वर्षस्याभाविनि" (७।४।१८) इत्युत्तरपदवृद्धिः । भाविनि तु प्रतिषेधात् द्वैवर्षिकः ॥ “प्राणिनि भूते" (६।४।११२) कालवाचिवर्षशब्दान्ताद्विगोभूते अः स्यात् , स चेद्भूतः प्राणी स्यात् । द्वे वर्षे भूतो द्विवर्षों दारकः। त्रिवर्षों वत्सः । ३० प्राणिनीति किम् ? द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः सरकः । भूत इति किम् ? शेषेष्वर्थेषु पूर्वेण विकल्प
एव । एवमुत्तरेष्वपि त्रिषु पूर्वेण विकल्पे प्राप्ते नित्यार्थो विधिः । “मासाद्वयसि यः” (६।४। ११३) । मासान्ताविगोर्भूतेऽर्थे यः स्यात् , वयसि गम्ये । द्वौ मासौ भूतो द्विमास्यः । वयसीति किम् ? ३३ द्वैमासिको व्याधिः । “ईनश्च" (६।४।११४)। द्विगोरिति निवृत्तं योगविभागात् । मासशब्दात्
१ रात्रिशब्दात् 'सङ्ख्यातेक'-इत्यनेन प्राप्तम्, भहनु 'सर्वाश.' इत्यनेन । २ अन्यथा राज्यन्ताहरन्ताभावान भवति । एकदेशेत्यपि नोपतिष्ठते, म्यायामामनित्सवात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org