________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । यातीत्याद्यर्थाः आदिशब्दोपादानात् "शङ्कत्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहृते च" (६।४। ९०)। एतत्सप्तपूर्वात्तृतीयान्तात्पथिन्शब्दादाहृते याति चार्थे इकण् स्यात् । शङ्खपथेनाहतो याति वा शाकुपथिकः । एवं औत्तरपथिकः, कान्तारपथिकः, आजपथिकः, वारिपथिकः, स्थालपथिका, जाङ्गलपथिकः ॥ "स्थलादेर्मधुकमरिचेऽण्" (६।४।९१) । स्थलपूर्वात्पथिमन्तात्तृतीयान्तादाहृतेऽर्थेऽण् स्यात् , तश्चेदाहृतं मधुकं मरिचं वा स्यात् । स्थालपथम् , अन्यत् स्थालपथिकम् । “तुराय-५ णपारायणं यजमानाऽधीयाने" (६।४।९२) । आभ्यां द्वितीयान्ताभ्यामनयोरर्थयोरिकण् स्यात् । तुरायणं नाम यज्ञस्तं यजते तौरायणिकः । पारायणमधीते पारायणिकः । “संशयं प्राप्ते ज्ञेये" (६।४।९३)। द्वितीयान्तादस्मात्प्राप्ते इकण् स्यात् , स चेत्प्राप्तोऽर्थो ज्ञेयः स्यात् । संशयं प्राप्तः सांशयिकः । सांशयिकोऽयमूर्हो न जाने स्थाणुरुत पुरुषो वेति । शेय इति किम् ? संशयितरि माभूत्-सोऽपि संशयं प्राप्तो भवति, तस्य तत्र भावात् ॥ "तस्मै योगादेः शक्ते" (६।४।९४)।१० एभ्यश्चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण स्यात् । योगाय शक्तः यौगिकः । योग, सन्ताप, सन्नाह, सङ्घाम, संयोग, संपराय, सङ्घात, सम्पाद, सम्पादन, सङ्कम, १० सम्पेष, संवेश, सम्मोहन, निष्पेष, निःसर्ग, निर्घोष, निसर्ग, विसर्ग, उपसर्ग, प्रवास, २० उपवास, सक्तु, मांस, ओदन, मांसौदन, सक्तुमांसौदन, २६ इति योगादयः षड्विंशतिः ॥ "योगकर्मभ्यां योऽको” (६।४।९५)। आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथाक्रमं एतौ स्याताम् । योगाय शक्तो योग्यः । कर्मणे शक्तं कार्मुकम् । एवं १५ योगशब्दस्य द्वैरूप्यम् ॥ “यज्ञानां दक्षिणायाम्" (६।४।९६)। एभ्यः षष्ठ्यन्तेभ्योऽस्मिन्नर्थे इकण् स्यात् । यज्ञकर्मकृतां वेतनादानं दक्षिणा । अमिष्टोमस्य दक्षिणा आमिष्टोमिकी । वाजपेयिकी, राजसूयिकी, नावयज्ञिकी, पाञ्चौदनिकी, ऐकादशाहिकी, द्वादशाहिकी, द्वैवाजकोपेयिकी । बहुवचनं स्वरूपविधिव्युदासार्थम् ॥ “तेषु देये" (६।४।९७)। सप्तम्यन्तेभ्यो यज्ञेभ्यो देये इकण् स्यात् । अग्निष्टोमे देयं आमिष्टोमिकं भक्तम् ॥ "काले कार्ये च भववत्" (६।४।९८)। सप्तम्यन्तात्कालवाचिनो २० देये कार्ये च भववत्प्रत्ययाः स्युः । वत्सर्वसादृश्यार्थः, ततो याभ्यः प्रकृतिभ्यो येन विशेषेण भवेऽर्थे प्रत्ययाः स्युस्ताभ्यस्तेन विशेषेण देये कार्ये चार्थे त एव प्रत्ययाः स्युः । यथा वर्षासु भवं वार्षिकम् , मासिकम् , नैशं नैशिकम् , चिरत्नं चिरन्तनम् , हैमन्तं हैमनम् । एवं वर्षासु देयं कार्य या वार्षिकमित्यादि । प्रत्ययस्य भावोऽत्रातिदिश्यते नाभाव इति द्विगोः परस्य लुप् न भवति । द्वयोर्मासयोर्देयं कार्य वा द्वैमासिकम् ॥ "व्युष्टादिष्व" (६।४।९९) । एभ्यः सप्तम्यन्तेभ्यो देये कार्ये चार्थेऽण २५ स्यात् । व्युष्टे देयं कार्य वा वैयुष्टम् , नैत्यम् । व्युष्टसाहचर्यानित्यशब्दः कालवाची गृह्यते, ततः "कालाध्वनोः” (२१२।४२) इति सप्तम्यपवादेन द्वितीया, निसं देयं कार्य चेति द्वितीयान्तादेव प्रत्ययः । अन्ये तु सप्तम्यन्तादपीच्छन्ति-निये विषुवति षड्भिश्वराचरैः मुहूतैरनाक्रम्यमाणे देयं कार्य वा नैत्यम् । व्युष्ट, नित्य, निष्क्रमण, प्रवेशन, तीर्थ, संप्राम, संघात, अग्निपद, पीलुमूल, प्रवास, उपवास, इति व्युष्टादय एकादश । बहुवचनादाकृतिगणोऽयम् ॥ “यथाकथाचाण्णः " (६।४।३० १००) । यथाकथाचशब्दोऽव्ययसमुदायोऽनादरेणेत्यर्थे, तस्माइये कार्ये णः स्यात् । यथाकथाच दीयते याथाकथाचम् । याथाकथाचा दक्षिणा ॥ "तेन हस्ताद्यः" (६।४।१०१) तृतीयान्तात् हस्तात् देये कार्ये चार्थे यः स्यात् । हस्तेन देयं कार्य वा हस्त्यम् ॥ “शोभमाने" (६।४।१०२) तृतीयान्तादस्मिन् अर्थे इकण् स्यात् । कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकं मुखम् । असमर्थनमसमासोऽप्यत्र स्यात्-कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकम् ॥ “कर्मवेषाया" (६।४।१०३) । आभ्यां तृतीयान्ताभ्यामुक्तेऽर्थे यः स्यात् । कर्मणा शोभते कार्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः ।३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org