________________
४१०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु__ अन विशेषः "सतीर्यः" (६।४।७८) निपातोऽयम् , समाने तीर्थे वसति सतीर्थ्यः । तीर्थमिह गुरुरुच्यते ॥ "प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति” ( ६।४।७९) । प्रस्तारसंस्थान इत्येताभ्यां एतदन्ताभ्यां कठिनान्ताच व्यवहरत्यर्थे इकण् स्यात् । व्यवहरतिरिह क्रियातत्त्वे क्रियाया अविपरीतस्वभावे-यथा लौकिको व्यवहार इति । प्रस्तारे व्यवहरति प्रास्तारिकः, सांस्थानिकः । ५ तदन्त. कांस्यप्रस्तारिका, लौहप्रस्तारिका, गौसंस्थानिकः, आश्वसंस्थानिकः । कठिनान्त. वांशकठिनिकः' वार्द्रकठिनिकः । कठिनं तापसभाजनं पीठं वा । बहुवचनं कठिनान्तेति स्वरूपाहणव्युदासार्थ रूढ्यर्थं च (रूढिश्च तापसभाजनेत्यादि तेन कठिने कठोरे न) । प्रस्तारसंस्थानतदन्तेभ्यो नेच्छन्त्यन्ये ॥ "सयादेचाहंदलुचः" (६।४।८०)। आ अहंदर्यादित ऊर्ध्वं या प्रकृतिरुपादास्यते तस्याः
केवलायास्तदन्तायाश्च सख्यापूर्वाया वक्ष्यमाणः प्रत्ययः स्यादिति ज्ञेयम् । न चेत्सा लुगन्ता स्यात् । १० चन्द्रायणं चरति चान्द्रायणिकः । द्वे चन्द्रायणे चरति द्वैचन्द्रायणिकः । सङ्ख्यादेरिति किम् ? परमपारा
यणमधीते । (चकारः केवलार्थः) । आईदित्यत्राकारोऽभिविधौ, तेनाईदर्थेऽपि भवति-द्वे सहस्रे द्विसहस्रं वाईति द्विसाहस्रः। अलुच इति किम् ? द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् अत्र “शूर्पाद्वा” (६।४।१३७) इत्यम् "अनाम्यद्विाप्लुप्" (६।४।१४१) इति लुप् । द्विशूर्पण क्रीतं द्विशौपिकं । पुनरपि शूर्पाद्वानित्यम् न भवति ॥ "गोदानादीनां ब्रह्मचर्ये" (६।४।८१) । एभ्यः षष्ठ्यन्तेभ्यो ब्रह्मचर्ये १५इकण स्यात् । गोदानस्य ब्रह्मचर्य गौदानिकम् (आदित्यवतानामादित्यवतिकम् । महानानीनां माहा
नाग्निकम् ) । येभ्योऽस्मिन्नर्थे इकण् दृश्यते, ते गोदानादयः प्रयोगगम्याः॥"चन्द्रायणं च चरति" (६।४।८२) चन्द्रायणशब्दाहितीयान्ताद्गोदानादिभ्यश्च द्वितीयान्तेभ्यश्चरतीत्यर्थे इकण् स्यात् । चन्द्रायणं चरति चान्द्रायणिकः । गौदानिकः । महानाम्यो ऋचस्तत्साहचर्यात्तासां ब्रतमपि महानाभ्यः, महानाम्नीव्रतं चरति माहानाग्निकः ।। "देवव्रतादीन् डिन्” (६।४।८३) । एभ्यो (निर्देशादेव ) द्विती२० यान्तेभ्यश्चरत्यर्थे डिन् स्यात् । देवव्रतं चरति देवव्रती । महाव्रती । एते प्रयोगगम्याः । डिस्करणं उत्तरत्र
सफलम्॥"डकश्चाष्टाचत्वारिंशतं वर्षाणाम्" (६।४।८४)। वर्षसंबन्धिनोऽष्टाचत्वारिंशच्छब्दागतवृत्तेर्द्वितीयान्ताच्चरतीत्यर्थे डकडिनौ स्याताम् । अष्टाचत्वारिंशद्वर्षसहितं व्रतमष्टचत्वारिंशत् , तञ्चरति अष्टाचत्वारिंशकः । अष्टचत्वारिंशी । “चातुर्मास्यं तौ य लुक् च” (६।४।८५) अस्माद्तवृत्तेद्वितीयान्ताच्चरत्यर्थे डकडिनौ स्यातां, यलोपश्च स्यात् । चतुर्यु मासेषु भवानि “यज्ञे व्यः" (६।३।१३४) २५ इति व्ये चातुर्मास्यानि नाम यज्ञाः, तत्सहचरितानि व्रतानि चरति चातुर्मासकः चातुर्मासी ॥ क्रोश
योजनपूर्वाच्छतायोजनाचाऽभिगमाहे" (६।४।८६) क्रोशपूर्वाद्योजनपूर्वाच्च शतायोजनाच्च (निर्देशादेव) पञ्चम्यन्तादभिगमाहेऽर्थे इकण् स्यात् । क्रोशशतादभिगमनमर्हति क्रौशशतिको मुनिः । एवं यौजनशतिकः यौजनिकः । "तद्यात्येभ्यः” (६।४।८७) । द्वितीयान्तेभ्य एभ्यो यातीत्यर्थे इकण् । क्रोशशतं याति क्रौशशतिको दूतः । एवं यौजनशतिकः यौजनिकः । पथिक इति-"पथ इकट्" ३० (६।४।८८) अस्माहितीयान्ताद्यातीत्यर्थे इकट् स्यात् । पन्थानं याति पथिकः, पथिकी । द्वौ पन्थानौ याति द्विपथिकः । कटमकृत्वा इकट्वचनं परत्वात्समासान्ते कृतेऽपि यथा स्यादित्येवमर्थम् ।। पान्थ इति
"नित्यं णः पन्थश्च" (६।४।८९) नित्यमिति प्रत्ययार्थविशेषणम् । अस्माहितीयान्तान्नित्यं यातीत्यर्थे ३३ णः स्यात् , पन्थादेशश्चास्य । नित्यं पन्थानं याति पान्थः, पान्था स्त्री। द्वौ पन्थानौ याति द्वैपन्थः, द्वैपन्था॥
१व्यवहरतिरयमस्ति विनिमये-यथा शतं व्यवहरति शतस्य व्यवहरति इति । अस्ति विवादे यथा व्यवहारे पराजित इति । अस्ति विक्षेपे यथा शलाका व्यवहरति । अस्ति क्रियातत्त्वे-यथा लौकिको व्यवहार इति । भत्र क्रियातत्त्वरूपस्यार्थस्य प्रहणं प्रत्ययान्तादविपरीतस्वरूपक्रियानुष्ठातुः प्रतिपत्त्यर्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org