________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । नियुक्ताद्यर्थाः
४०९
" द्वारा ०" । अयमर्थः - एषां द्वारादीनां यौ य्वौ तयोः समीपस्य स्वरेष्वादेः स्वरस्य तत्प्राप्तौ वृद्धि - प्रसङ्गे ताभ्यामेव प्राक् ऐदौतौ स्याताम्, णिति तद्धिते परे । स्वरमधिकृत्य कृतो प्रन्थः सौवरः । स्वर्भवः सौवः " प्रायो ऽव्ययस्य " ( ७ | ४१६५ ) इत्यन्त्यस्वरादिलोपः ॥ स्वस्तीत्याह सौवस्तिकः, अव्युत्पन्नोऽयम् । सुपूर्वस्य तु पूर्वेणैव सिद्धम् । एवमग्रेऽपि - स्वादुमृदोऽपत्यं सौवादुमृदः । व्यल्क से भवो वैयल्कसः । श्वो भवः शौवस्तिकः "श्वस्तादिः " ( ६।३।८३ ) इति तिकण । शुन इदं शौवनं मांसम् । स्फ्यकृतस्या- ५ पत्यं स्फेयकृतः, ऋष्यण् । स्वस्येदं सौवम् । स्वाध्यायेन जयति सौवाध्यायिकः " तेन जित ०" (६।४।२) इत्यादिकण् । स्वग्रामे भवः सौवग्रामिकः - अध्यात्मादित्वादिकण् 'श्वादेः' इति प्रतिषेधाद्वाराविपूर्वाणामपि भवति-द्वारपालस्यापत्यं दौवारपालिः, "अत इन्” ( ६।१।३१ ) । द्वारपाल्याः अपत्यं दौवारपालिकः “रेवत्यादेरिकण्” ( ६।१।८६ ) | स्वराध्याये भवः सौवराध्यायिकः । स्वर्गमनमाह सौवर्गमनिकः, प्रभूतादित्वादिकण् । श्वादंष्ट्रायां भवः शौवादंष्ट्रो मणिः । शौवभखः ( वोः समीपस्य वृद्धिप्राप्ता - १० विति विज्ञानात् वैयल्कस इत्यत्र वकारात्प्रागौकारो न भवति ) । स्वपाठेनैव सिद्धे स्वाध्यायस्वग्रामपाठात् स्वापतेयं स्वाजन्यमित्यादौ न भवति । द्वार, स्वर, स्वर्, स्वस्ति, स्वादुमृद्, व्यल्कस, श्वसू, श्वन्, स्फ्यकृत, स्व, स्वाध्याय, स्वग्राम, इति द्वारादयो द्वादश ।। " न्यग्रोधस्य केवलस्य" (७।४।७) तथा । न्यग्रोधस्य विकारो नैयग्रोधो दण्डः । नैयग्रोधः कषायः । केवलस्येति किम् ? न्यग्रोधमूले भवाः न्यप्रोधमूलाः शालयः । इदमपि ( न केवलं 'श्वादेः' इति निषेधः किन्तु केवलग्रहणमपीत्यर्थः ) १५ द्वारादीनां तदादिविधेर्ज्ञापकम् । न्यग्रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम् । केवलस्यैवेति अव्युत्पत्तिपक्षे विध्यर्थं वचनम् || "न्यङ्कोर्वा ” ( ७।४।८ ) । न्यङ्कोरिदं नैयङ्कवं न्याङ्कवम् । “न खाङ्गादेः” (७|४|९) नप्रत्ययान्तस्य स्वाङ्गादेश्व व्णिति तद्धिते परे य्वः प्रागैदौतौ न स्याताम् । - व्यावक्रोशी व्यावलेखी व्यावचर्ची व्यावहासी व्यात्युक्षी, "व्यतिहारेऽनी हादिभ्यो नः' (५|३| ११६ ) इति नः, ततो "नित्यं नमितोऽणू” ( ७१३ । ५८ ) इत्यण् । स्वाङ्गादि, स्वङ्गस्यापत्यं स्वाङ्गिः ॥ २० I स्वागतमित्याह स्वागतिकः । स्वध्वरेण चरति स्वाध्वरिकः । व्यवहारेण चरति व्यावहारिकः । व्यायामः प्रयोजनमस्याः व्यायामिकी विद्या । स्वंग, व्यंग, व्यड, स्वागत, स्वध्वर, व्यवहार, व्यायाम इति
स्वाङ्गादयः सप्त ॥
अथ प्रकृतम् “अगारान्तादिकः " ( ६।४।७५ ) । तत्र नियुक्तेऽर्थे । देवागारे नियुक्तो देवागारिकः, देवागारिका । एवं भाण्डागारिकः २, आयुधागारिकः २, कोष्ठागारिकः, कोष्ठागारिका || २५ "अदेशकालादध्यायिनि ” ( ६ | ४|७६ ) । अध्ययनस्य प्रतिषिद्धौ यौ देशकालौ तद्वाचिनः सप्तम्यन्तादध्यायिन्यर्थे इकण् स्यात् । अदेश. अशुचावध्यायी आशुचिकः । श्मशानेऽध्यायी श्माशानिकः । श्माशानाभ्यासिकः । अकाल. सान्ध्यिकः । उल्कापातिकः । आनध्यायिकः । नैकटिक इति "निकटादिषु वसति” ( ६।४।७७)। एभ्योऽस्मिन्नर्थे इकण् स्यात्, निकटे वसति नैकटिकः । आरण्यकेन भिक्षुणा ग्रामात्क्रोशे वस्तव्यमिति यस्य शास्त्रितो वासः स एवोच्यते, तदर्थे एव च तत्रे- ३० त्यधिकारे सप्तमीनिर्देशः । वृक्षमूले वार्क्षमूलिकः, श्माशानिकः, आभ्यवकाशिकः, आवसथिकः । निकटादयः प्रयोगगम्याः ।
१ अयमर्थः - यदा व्युत्पत्तिपक्ष आश्रीयते तदा न्यक्शब्दसाधनकाले या निशब्दात् प्रथमा तदपेक्षया निसंबन्धिन इकारस्य पदान्तत्वात् तत्स्थान प्रादुर्भावात् यस्यापि पदान्तले 'ध्वः पदान्तात्' इत्यनेनैवैदागमे सिद्धे सतीदं सूत्रं नियमार्थम् । अव्युत्पतिपक्षे तु यस्यापदान्तत्वात् 'यत्रः पदान्तात्' इति न सिद्ध्यतीति विध्यर्थम् ।
है० प्रका• पूर्वा • ५२
Jain Education International
For Personal & Private Use Only
३२
www.jainelibrary.org