________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअत्रादिशब्दात् "निर्वृत्तेक्षतादे" (६।४।२०) । तृतीयान्तेभ्य एभ्यो निर्वृत्ते इकण् स्यात् । अक्षयूतेन निर्वृत्तमाक्षयूतिकं वैरम् । जावाप्रहतिकम् । अक्षयूत, जङ्घााहत, जङ्घापहृत, जवाप्रहार, पादखेद, पादस्खेदन, कण्टकमर्द, कण्टकमईन, शर्करामईन, गत, आगत, गतागत, यात, उपयात, यातोपयात, गतानुगत, अनुगत, इत्यक्षद्यूतादयः सप्तदश ॥ “याचितापमित्यात्कण्" ५(६।४।२२)। आभ्यां निर्वृत्ते कण स्यात् । याचितेन याञ्चया निवृत्तं याचितकम् । अपमित्येति यबन्तम् , अपमित्य प्रतिदानेन निवृत्तमापमित्यकम् ॥ "हरत्युत्सङ्गादेः" (६।४।२३) । तृतीयान्तेभ्य एभ्यो हरत्यर्थे इकण् स्यात् । उत्सङ्गेन हरति औत्सङ्गिकः । उत्सङ्ग उत्तुप, (उत्रुप,?) (उड्डुप, ?) उडुप, उत्पुत, उत्पुट, पिटक, पिटाक, इत्युत्सङ्गादयोऽष्टौ । “भस्त्रादेरिकट्" (६।४।२४) । एभ्यस्तृतीयान्तेभ्यो
हरत्यर्थे इकट् स्यात् । भस्त्रिकः, भस्त्रिकी । भखा, भरट, भरण, शीर्षभार, शीर्षेभार, अङ्गभार, १० अङ्गेभार, अंसभार, अंसेभार, इति भनादयो नव । “विवधवीवधाद्धा" (६।४।२५) । इकट,
हरत्यर्थे । विवधेन वीवधेन वा हरति विवधिकः विवधिकी, वीवधिकः वीवधिकी । पक्षे इकण-वैवधिकः । विवधवीवधशब्दौ समानार्थों पथि पर्याहारे च वर्तते ॥ "कुटिलिकाया अण" (६।४। २६) । अस्मात्तृतीयान्तात् हरत्यर्थेऽण् स्यात् । कुटिलिकाशब्देनावका लोहादिमयी अङ्गारकर्षणी
यष्टिर्वा कुटिला गतिर्वा पलालोत्क्षेपणोऽवक्रो दण्डो वा परिव्राजकोपकरणविशेषो वा चौराणां नौगृ१५ हाद्यारोहणार्थं दामाप्रबद्ध आयसोऽर्द्धाकुशो वोच्यते । कुटिलिकया हरत्यङ्गारान् कौटिलिकः कारः ।
तया हरति व्याधं कौटिलिको मृगः । तया हरति पलालं कौटिलिकः कर्षकः । तया हरति पुष्पाणि कौटिलिकः परिव्राजकः । तया हरति नावं कौटिलिकश्चौरः ॥ "ओजःसहोम्भसो वर्तते" (६।४।२७)। एभ्यस्तृतीयान्तेभ्यो वर्त्तते इत्यर्थे इकण् स्यात् । वृत्तिरात्मयापना चेष्टा वा । ओजसा
बलेन वर्त्तते औजसिकः । सहसा प्रहसनेन पराभिभवेन वा साहसिकः । अम्भसा जलेन आम्भ२० सिकः ॥ "तं प्रत्यनोर्लोमेपकूलात्” (६।४।२८)। (तेनेति निवृत्तम् ) प्रत्यनुभ्यां परो यो
लोमशब्द ईपशब्दः कूलशब्दश्च तदन्ताहितीयान्ताद्वर्त्तते इत्यर्थे इकण् स्यात् । प्रतिलोमं अनुलोमं, प्रतीपं अन्वीप, प्रतिकूलं अनुकूलं, वर्त्तते इति प्रातिलोमिकः आनुलोमिकः, प्रातीपिकः आन्वीपिकः, प्रातिकूलिकः आनुकूलिकः । अकर्मकस्यापि वृत्तेोगे प्रतिलोमादेः क्रियाविशेषणत्वाद्वितीयान्तत्वम् ।।
"परेर्मुखपार्धात्' (६।४।२९) परिपूर्वो यो मुखशब्दः पार्श्वशब्दश्च तदन्तात् क्रियाविशेषणात् २५वर्त्तते इत्यर्थे इकण् स्यात् । परिवर्जने सर्वतोभावे वा । स्वामिनो मुखं वर्जयित्वा वर्तमानोऽथवा यतो यतः स्वामिमुखं ततस्ततो वर्तमानः पारिमुखिकः सेवकः । एवं पारिपार्श्विकः ॥ "रक्षदुञ्छतोः" (६।४।३०)। द्वितीयान्तादनयोरर्थयोरिकण् स्यात् । समाज रक्षति सामाजिकः । सामवायिकः, नागरिकः । बदराण्युञ्छति उच्चिनोति बादरिकः ॥ दौवारिक इति-"तत्र नियुक्ते" (६।४। ७४) । सप्तम्यन्तानियुक्तेऽर्थे इकण् स्यात् , नियुक्तोऽधिकृतो व्यापारित इत्यर्थः । प्रागुक्तस्य नियुक्त३० मित्यस्य क्रियाविशेषणरूपस्याध्यभिचारो नित्यमिति चार्थः, प्रकृत्यर्थविशेषणं चायं प्रत्ययार्थश्वायं नियुक्तः इति । शुल्कशालायां नियुक्तः शौल्कशालिकः । आपणिकः । आतरिकः । आक्षपाटलिक इति ॥ ७१ ॥
द्वारादेः ॥ ७२ ॥ [सि०७४।६] एषां खोः प्रागैदौतौ स्याताम् । द्वारे नियुक्तो दौवारिकः । निकटे वसति नैकटिकः । समाने तीर्थे वसति सतीर्थ्यः । पन्थानं याति पथिकः पान्थः । अहा निर्धत्तमाद्विक३५मित्यादि ॥७२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org