________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशै तद्धिताः । प्रहरणाद्यर्थाः
यष्टी: यष्टी । शाक्तिक इति तु शक्त्या जीवतीति वेतनादितीकण् ॥ "वेष्ट्यादिभ्यः" ( ६ |४| ६५ ) | एभ्यष्टीकण वा । पक्षे "प्रहरण" मितीकण् । इष्टिः प्रहरणमस्य ऐष्टीकः ऐष्टीकी, पक्षे ऐष्टिकः । ईषा प्रहरणमस्य ऐषीकः ३ । एवं कम्पनं प्रहरणमस्य काम्पनीकः ३ । अम्भः प्रहरणमस्य आम्भसीकः ३ । दण्डः प्रहरणमस्य दाण्डीकः ३ । इष्ट्यादयः प्रयोगगम्याः ॥ नास्तिकास्तिकादय इति [ अत्र सूत्रम् - "नास्तिकास्तिकदैष्टिकम् ” ( ६ |४।६६ ) ] निपातनं रूढ्यर्थम्, । नास्ति ५ परलोकः पुण्यं पापमिति वा मतिरस्य नास्तिकः । अस्ति परलोकादिकमिति मतिरस्य आस्तिकः । नास्त्यस्तिशब्दौ तिवादिप्रतिरूपके अव्यये ( तयोश्च परतः प्रथमैकवचनम् ) । निपातनादेव वा तदिति प्रथमाधिकारेऽपि आख्यातान्नास्तीति पदसमुदायाच प्रत्ययः । आदिशब्दात् दैष्टिकमिति - दिष्टं दैवं तत्प्रमाणमिति मतिरस्य, दिष्टा वा प्रमाणानुपातिनी मतिरस्य दैष्टिकः ॥
---
आदिशब्दसंसर्गात् “वृत्तोऽपपाठोऽनुयोगे" ( ६।४।६७ ) । प्रथमान्तात्षष्ठ्यर्थे इकण् स्यात्, १० प्रथमान्तं चेदनुयोगविषये वृत्तोऽपपाठो भवति । अनुयोगः परीक्षा । एकमन्यदपपाठोऽनुयोगे वृत्त - मस्य ऐकान्यिकः । द्वैयन्यिकः, त्रैयन्यिकः । सङ्ख्यान्यशब्दयोस्तद्धिते विषयभूते समासस्ततस्तद्धितः । वृत्तोऽपपाठोऽनुयोग इत्यस्य तु वृत्तावन्तर्भावादप्रयोगः । अन्यत्वं चापपाठस्य सम्यक्पाठापेक्षम् । वृत्त इति किम् ? वर्त्तमाने वर्त्स्यति च न भवति । अपपाठ इति किम् ? एकमन्यदस्य दुःखमनुयोगे वृत्तम् । जयोऽस्यानुयोगे वृत्तः । अनुयोग इति किम् ? स्वैराध्ययने माभूत् । अन्ये त्वपपाठादन्यत्राप्यध्ययन- १५ मात्रे प्रत्ययमिच्छन्ति-एकं रूपमध्ययने वृत्तमस्य ऐकरूपिकः । ऐकग्रन्थिकः || "बहुवर पूर्वादिकः” ( ६।४।६८ ) । तथा । एकादशान्यपपाठरूपाण्यऽनुयोगेऽस्य वृत्तानि एकदशान्यिकः । एवं द्वादशान्यिकः । एकादशान्यिका स्त्री । अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति - द्वादशरूपाण्यध्ययनेऽस्य वृत्तानि द्वादशरूपिकः ॥ “भक्ष्यं हितमस्मै” ( ६।४।६९) प्रथमान्ताच्चतुर्थ्यर्थे इकण् स्यात्, प्रथमान्तं चेद्भक्ष्यं हितं भवति । अपूपा भक्ष्यं हितमस्मै आपूपिकः । हितार्थो भक्षणक्रियावृत्तावन्तर्भवति ॥ २० " नियुक्तं दीयते " ( ६।४।७० ) प्रथमान्ताच्चतुर्थ्यर्थे इकण् स्यात्, प्रथमान्तं चेन्नियुक्तमव्यभिचारेण नित्यं वा दीयते । अग्रभोजनमस्मै नियुक्तं दीयते आग्रभोजनिकः आम्रफलिक, मांसिकः, आपूपिकः, ग्रामिकः, आग्रहारिक: । अस्मै इत्येव - रजकस्य वस्त्रं नित्यं दीयते ॥ "श्रणामांसौदनादिको वा" ( ६।४।७१ ) । आभ्यामुक्तार्थे इको वा स्यात् । श्राणा नियुक्तमस्मै दीयते श्राणिकः पथ्याशी, आणिका । पक्षे इकण् श्राणिकी । एवं मांसौदनिकः, मांसौदनिका, इकणपि - मांसौदनिकी । इके - २५ कणोः स्त्रियां विशेषः । अन्ये त्विकं नेच्छन्ति ॥ "भक्तौदनाद्वाणिकटू” ( ६।४।७२ ) । आभ्यां यथासंख्यमण्इकट्प्रत्ययौ स्याताम्, तस्मै नियुक्तं दीयते इति विषये । भक्तमस्मै नियुक्तं दीयते भाक्तः । ओदनिक: ओदनिकी । पक्षे इकणू भाक्तिकः औदनिकः || ओदनशब्दादिकणं नेच्छन्त्यन्ये ॥ " नवयज्ञादयोऽस्मिन् वर्त्तन्ते ” ( ६।४।७३ ) । प्रथमान्तेभ्य एभ्यो वर्त्तन्ते इत्युपाधिभ्यः सप्तम्यर्थे इकण् स्यात् । नव यज्ञा अस्मिन् वर्त्तन्ते नावयज्ञिकः । पाकयज्ञिकः । नवयज्ञादयः प्रयोगगम्याः ॥ ७० ॥ ३० भावादिमः ॥ ७९ ॥ [ सि० ६।४।२१]
1
४०७
भावप्रत्ययान्तान्निर्वृत्ते इमः स्यात् । सेकिमं फलम् ॥ ७१ ॥
“भाषा०” सेकिममिति-सेकेन निर्वृत्तमिति । एवं पाकिमं त्यागिमं रोगिमं कुट्टिमं संमूच्छिमम् । ३३ यत् 'अवर्णवर्णस्य' - इति इलोपं बाधित्वा 'समानाना' - इति दीर्थेन टिकणि कृतेऽपि शाक्तीकादयो भवन्ति । परमुतरत्र आम्भसीक इति सिद्ध्यर्थ टीकण्करणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org