________________
४०६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपशहैमलघुहरिनुपर्णी, गुग्गुल, गुग्गुल, नलद, इति किशरादयो गन्धद्रव्यविशेषवचनाः ॥ "शलालुनो वा" (६।४।५६) । अस्माद्गन्धविशेषवाचिन इकट् वा । शलालु पण्यमस्य शलालुकः, शलालुकी । पक्षे इकण्-शालालुकी ॥ नार्तिक इति-"शिल्पम्" (६।४।५७)। तदस्येति वर्तते । प्रथमान्तात् षष्ठ्यर्थे इकण स्यात्, प्रथमान्तं चेच्छिल्पं स्यात् । एवं गीतं गैतिकः, वादनं वादनिकः । मृदङ्गो मृदङ्ग५वादनं शिल्पमस्य मार्दङ्गिकः । एवं पाणविकः, मौरजिकः, वैणिकः । मृदङ्गादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति ने द्रव्यवृत्तयः । उत्पादनार्थवृत्तिभ्यस्त्वनभिधानान्न भवति, अत एव कुम्भकारादावभिधेये मुंदङ्गकरणादिभ्य एव प्रत्ययः । मृदङ्गकरणं शिल्पमस्य मार्दङ्गकरणिकः, वैणाकरणिकः । मृदङ्गवादनादिभ्योऽप्यनभिधानान्न भवति । शिल्पार्थो वृत्तावन्तर्भूत इति शिल्पशब्दस्याप्रयोगः ।।
"मड्डुकझर्झराद्वाऽ" (६।४।५८)। मड्डुकवादनं शिल्पमस्य माड्डुकः । झाझरः । पक्षे १० इकण् माडुकिकः, झाझरिकः ॥ "शीलम्" (६।४।५९)। प्रथमान्तात्षष्ट्यर्थे इकण् स्यात् , प्रथ.
मान्तं चेच्छीलं स्यात् । अपूपा अपूपभक्षणं शीलमस्य आपूपिकः । ताम्बूलिकः । परुषवचनं शीलमस्य पारुषिकः । एवमाक्रोशिकः ॥ मृदङ्गादिवदपूपादयः शब्दाः क्रियावृत्तयः प्रत्ययमुत्पादयन्ति । शीलार्थो वृत्तावन्तर्भूत इति शीलशब्दस्याप्रयोगः ॥ “अस्थाच्छनादेरम्" (६।४।६०) अप्रत्ययान्तात्तिष्ठतेश्छत्रादिभ्यश्च तस्य शीलमित्यर्थेऽञ् स्यात् । आस्था शीलमस्य आस्थः । सांस्थः, आवस्था, १५सामास्थः, वैयवस्था, नैष्ठः, वैष्ठः; "उपसर्गादातः” (५।३।११०) इत्यङ् । आन्तस्थः भिदादित्वा
दङ् । छत्रादि. छत्रं शीलमस्य छात्रः । छत्रशब्देन गुरुकार्येष्ववहितस्य शिष्यस्य छत्रक्रियातुल्या गुरुच्छिद्राच्छादनाऽपायरक्षणादिका क्रियोच्यते । उपचारात् शिष्यो हि छत्रवद्रुछिद्रावरणादिप्रवृत्तश्छात्र इत्युच्यते । अभ्यासापेक्षाऽपि क्रिया शीलमित्युच्यते, यथा शीलिता विद्या इति । चुराशीलः चौरः । तपःशीलस्तापसः । कर्मशीलः कार्मः । स्त्रियाम्-छात्री चौरी तापसी ॥ छत्र, चुरा, तपस्, कर्मन् , २० शिक्षा, चुंक्षा, चिक्षा, भक्षा, भिक्षा, तितिक्षा, १० बुभुक्षा, विश्वधा, उदस्थान, उपस्थान, पुरोडा,
कृषि, मन्द्र, सत्य, अनृत, विशिख, २० विशिखा, प्ररोह, २२ इति छत्रादयो द्वाविंशतिः २२ । "तूष्णीका” (६।४।६१) । निपातोऽयम् । तूष्णींभावः शीलमस्य तूष्णीक:-कःप्रत्ययो मकारलोपश्च निपातनात् ॥ असिक इति-"प्रहरणम्" (६।४।६२)। प्रथमान्तात्षष्ठ्यर्थे इकण् स्यात् , प्रथमान्तं चेत्प्रहरणं स्यात् । एवं प्रासिकः, चाक्रिकः, मौष्टिकः, धानुष्कः, मौद्गरिकः, मौसलिकः । २५ "चरती"त्यत्र व्यापारसाधनात्प्रत्ययो यथाश्वेन चरति । शिल्पमित्यत्र तु विज्ञानातिशये यथा नृत्तं शिल्पमस्येति । अनेन तु व्यापाराभावेऽपि परिज्ञानमात्रे प्रत्ययः ॥
अत्रायं विशेष:-"परश्वधाद्वाऽ" (६।४।६३)। परश्वधः प्रहरणमस्य पारश्वधः, पक्षे इकण्२८पारश्वधिकः ॥ "शक्तियष्टेष्टीकण्" (६४।६४) । शक्तिः प्रहरणमस्य शाक्तीकः, शाक्तीकी ।
दिशब्दात व्याकरण केचिद्रामेषु मुन्नछत्रादिश्च तस्मातस्य
तु न खमा
१ आदिशब्दात् व्याकरणकरणादि शिल्पमस्येति वैयाकरणिकादयः। २ द्रव्यस्य शिल्पायोगात्तद्विषयायाः क्रियायाः शिल्पलमिति वादनार्थवृत्तय इत्युक्तम् । ३ केषुचिद्रामेषु मृन्मया मदङ्गा भवन्ति, तेषु कुम्भकारादुत्पत्तिः । ४ न तु मृदशादिशब्दादित्यर्थः। ५ अङ्चासौ स्थाश्च । छत्रम् आदिर्यस्य, अस्थाश्च छत्रादिश्च तस्मात् । अन्तर्मध्ये स्थान भिदायकि 'व्यत्यये लुग्वा' इति रलोपः । अन्तस्थान वा अन्तस्था शीलमस्य । ६ शीलं हि प्राणिनां खभावः, छात्रस्य तु न स्वभाव इत्याशङ्कयोक्तम् ।
चक्षिः सौत्रो निर्मलीकरणे चुक्षा शोचम् । ८ चिक्षेति-केचित् शिक्षीत्यस्य स्थाने चिक्षीति पठन्ति । धावन्तरं चिक्षिः। चिक्षा शिक्षेत्यर्थः। ९ व्यापाश्चरणरूपः साध्यते येन तस्मात् , अयमर्थः-चरत्यर्थे व्यापारं साधयन्नेव शब्दः प्रत्ययमुत्पायति। १. प्रहरणस्य हि व्यापारः परप्रहरणरूपः, तस्याभावेऽपि प्रहरणाभावेऽपीत्यर्थः । विज्ञानातिशयश्च प्रहारवैचक्षण्यं
भावेऽपि तन्मात्रेऽपीत्यर्थः। ११ ननु टिकणिति मात्रालघुः प्रत्ययो विधीयताम् , एवमपि कृते शाकीकादयः सेत्स्यन्ति । नवाचाम 'अवर्णवर्णस्य-इत्यस्य प्रसङ्गः, यतष्टकारी हि व्यर्थः । स तु इकणद्वारा सिद्धः इत्यधिकस्य टकारस्यैतदेव फलं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org