________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । यथाखं प्रसिद्धाद्यर्थाः ४०५ उच्यते । ललाटं पश्यति लालाटिकः-ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेन च कार्येष्वमुपस्थानम् । यः सेवको दृष्टं स्वामिनो ललाटमिति दूरतो याति नतु कार्ये उपतिष्ठते स एवमुच्यते । ललाटमेव वा कोपप्रसादलक्षणाय यः पश्यति स एवमिति । कुकुटीशब्देन कुकुटीपातो लक्ष्यते, तेन च देशस्याल्पता । यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य पुरो युगमात्रदेशप्रेक्षी गच्छति स एवमुच्यते । यो वा तथाविधमात्मानमतथाविधोऽपि संदर्शयति सोऽपि कौकुटिकः । दाम्भिकचेष्टा वा मिथ्या५ शौचादिः कुकुटी, तामाचरन् कौकुटिकः । हृदयावयवो वा कुकुटी तां पश्यति कौकुटिको भिक्षुः, निभृत इत्यर्थः । तदेतत्सर्व निपातनाल्लभ्यते ॥ सैनिक इति-"समूहात्समवेते” (६।४।४६) द्वितीयान्तेभ्यः समूहवाचिभ्यः समवेते तादात्म्यात्तदेकदेशीभूतेऽर्थे इकण् स्यात् । समूह समवैति सामूहिकः । सामाजिकः, सांसदिकः, सामवायिक; गौष्ठिकः । तदेकदेशीभावमनुभवन्नेवमुच्यते । समवेत्यापगते तु समवेतशब्दो न वर्त्तते यथा सुप्तोत्थिते सुप्तशब्द इति तत्र न भवति ॥ “पर्षदो ण्यः"१० ( ६।४।४७) । समवेते । पर्षदं समवैति पार्षद्यः । परिषच्छब्दादपीच्छन्त्यन्ये ॥ "सेनाया वा" (६।४।४८) सेनाशब्दाद्वितीयान्तात्समवेतेऽर्थे ण्यः स्यात् । सेनां समवैति सैन्यः-पक्षे "समूहार्थात्समवेते” इतीकण सैनिकः । सेनैव सैन्यमिति भेषजादित्वात्स्वार्थे ट्यण् । धार्मिक-इति "धर्माधर्माचरति" (६।४।४९)। आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण् स्यात् । चरतिस्तात्पर्येणानुष्ठाने । धर्म चरति धार्मिकः । आधर्मिकः ॥
आदिशब्दात् “षष्टया धय(६।४।५०) । षष्ठ्यन्ताद्धम्र्येऽर्थे इकण् स्यात् । धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् । शुल्कशालाया धयं शोल्कशालिकम् । आपणिकम् , गौल्मिकम् , आतरिकम् । "शनरादेरण" (६।४।५१) । ऋकारान्तेभ्यो नरादिभ्यश्च षष्ठयन्तेभ्यो धर्थेऽर्थे अण् स्यात् । नुर्धर्म्य नारम् । स्त्रियां नारी । मातुर्मात्रम् । पितुः पैत्रम् । शास्तुः शास्त्रम् । विकर्तुर्वैकत्रम् । होतुर्होत्रम् । पोतुः पौत्रम् । उद्गातुः औद्गात्रम् । नरादि. नरस्य धयं नारम् , स्त्रियां नारी । २० नृशब्देनैव रूपद्वये सिद्धे नरशब्दादिकण माभूदिति तद्ब्रहणम् । महिण्या माहिषम् । नर, महिषी, प्रजावती, प्रजापति, विलेपिका, प्रलेपिका, अनुलेपिका, वर्णक, पेषिका, (वर्णकपेषिका ।) मणिपाली, पुरोहित, अनुचारक, अनुवाक, यजमान, होत्यजमान, १५ इति नरादयः पञ्चदश । “विभाजयित विशसितुण्ड्लु क च" (६।४।५२) आभ्यां षष्ठ्यन्ताभ्यां धर्थेऽर्थे अण् स्यात् , तत्संनियोगे च विभाजयितुर्णिलुक्, विशासितुश्चेड् लुक् स्यात् । विभाजयितुर्धर्म्य वैभाजित्रम् , विश-२५ सितुर्वैशस्त्रम् ॥ "अवक्रये" (६।४।५३ ) येनेच्छानियमितेन द्रव्येण कियन्तमपि कालमापणाद्यवक्रीयते सोऽवक्रयो (भोगनिवेशो) भाटकमिति । षष्ठयन्तादवक्रयेऽर्थे इकण् स्यात् । आपणस्यावक्रयः
आपणिकः । आतरिकः । लोकपीडया धर्मातिक्रमेणाप्यवक्रयो भवतीत्ययं धाद्भिद्यते ॥ आपूपिक इति-"तदस्य पण्यम्" (६।४।५४) तदिति प्रथमान्तादस्येति षष्ट्यर्थे इकण् स्यात् , प्रथमान्तं चेत्पण्यं विक्रेयं भवति । पण्यार्थो वृत्तावन्तर्भूत इति पण्यशब्दस्याप्रयोगः । एवं मौदकिकः, शाष्कु-३० लिकः लावणिकः ॥ "किशरादेरिक" (६।४।५५) । एभ्यस्तदस्य पण्यमित्यस्मिन्नर्थे इकट्र स्यात् । किशरः पण्यमस्य किशरिकः । किशरिकी । किशर, तगर, स्थगर, उशीर, हरिद्रा, (हरद्रु,)३२
१ कैश्चिदत्र प्रत्ययलोपःकृतः ततः खमते कथमित्याह-समः । २ विपूर्वो भजण् , ततो णिच् तृच् विभाजयितु । ३ नन्वत्र इडलोप एव विधीयता किं णिलोपेन, विभाजयित इत्यत्रापि इट्लोपे णिचा सखरखे वैभाजित्रमिति सिद्ध्यति ? नैवम् । णिलो पाभावे गुणः स्यात्ततोऽनिष्टं रूपं स्यात् । णिलोपे तु इटो धातुखाभावात् गुणो न भवतीति सिध्यति । ४ भुज्यते इति भोगो पहादि, निर्विश्यते अनेन व्यजना घमि निवेशः, ततः षष्ठीसमासः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org