________________
४०४
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
वृद्धिं गृह्णाति वार्बुषिकः; । अल्पं दत्त्वा प्रभूतं गृह्णन् अन्यायकारी निन्द्यते । अवृद्धेरिति किम् ? वृद्धिं गृह्णातीति वाक्यमेव । गर्ह्य इति किम् ? दत्तं गृह्णाति ॥ " कुसीदादिकट्” ( ६।४।३५ ) । कुसीदं वृद्धिस्तदर्थं द्रव्यमपि कुसीदम्, तं गृह्णातीति कुसीदिकः । कुसीदिकी-टकारो ङयर्थः ॥ "दशैकादशादिकश्च" ( ६ | ४ | ३६ ) । द्वितीयान्ताद्दशैकादशशब्दाद्नर्थे गृह्णात्यर्थे इकचकारादिकद च ५ स्याताम् । दशभिरेकादश दशैकादशाः, तान् गृह्णाति दशैकादशिकः, दशैकादशिका दशैकादशिकी । अत एव निपातनादकारान्तत्वम्, तच्च वाक्ये प्रयोगार्थम् - दशैकादशान् गृह्णाति । अन्ये दशैकादश गृह्णातीति विगृह्णन्ति, तदपि 'अबाधकान्यपि निपातनानि भवन्तीति' न्यायादुपपद्यते । "अर्थपदपदोत्तरपदललामप्रतिकण्ठात् ” ( ६।४।३७ ) । गर्ह्य इति निवृत्तम् । अर्थात्, पदात् पदशब्द उत्तरपदं यस्य तस्मात् ललामप्रतिकण्ठाभ्यां च गृहात्यर्थे इकण् स्यात् । अर्थं गृह्णाति आर्थिकः । १० पादिकः । पौर्वपदिकः, औत्तरपदिकः । लालामिकः । प्रातिकण्ठिकः । अव्ययीभावसमासाश्रयणादिह न भवति-प्रतिगतः कण्ठं प्रतिकण्ठस्तं गृह्णाति । उत्तरपदग्रहणात् बहुप्रत्ययपूर्वान्न भवति- बहुपदं गृह्णाति । पारदारिक इति - "परदारादिभ्यो गच्छति" ( ६।४।३८ ) । एभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण् स्यात् । परदारान् गच्छति पारदारिकः । एवं गौरुदारिकः, गौरुतल्पिकः । सभर्तृकां गच्छति साभर्तृकः, भ्रातृजायिकः । परदारादयः प्रयोगगम्याः ॥ " प्रतिपथादिकश्च" (६।४।३९) । चकाराद्य१५ थाप्राप्त इकणू । पन्थानं पन्थानं प्रति पथोऽभिमुखमिति वा प्रतिपथम्, तद्गच्छति प्रतिपथिकः प्रातिपथिको वा ॥ "माथोत्तरपदपदव्याक्रन्दाद्धावति” ( ६ |४| ४० ) । माथोत्तरपदात् पदव्याक्रन्दायां द्वितीयान्तेभ्यो धावत्यर्थे इकण् स्यात् । दण्डमाथं धावति दाण्डमाथिकः । माथशब्दः पथिपर्यायः । दण्ड इव माथो दण्डमाथः [ मध्यते अवगाह्यते पादैः धनि माथः । दण्ड इव माथ "उपमानं सामान्यैरे” वेति नियमादप्राप्तोऽपि 'मयूरव्यंसक' इति सः ] ऋजुमार्ग उच्यते । पदवीं धावति पादविकः । २० आक्रन्दति यत्र स देश आक्रन्दः, आक्रन्द्यत इति वा आक्रन्दः आर्त्तायनं शरणमुच्यते । आक्रन्द धावति आक्रन्दिकः । उत्तरपदग्रहणाद्बहुप्रत्ययपूर्वान्न भवति - बाहुमार्थ धावति । " पश्चात्यनुपदात् " ( ६।४।४१ ) । पश्चादर्थे वर्त्तमानादनुपदशब्दाद्धावत्यर्थे इकण् स्यात् । पदस्य पश्चादनुपदम्, अनुपदं धावति आनुपदिकः - प्रत्यासत्त्या धावतीत्यर्थः ॥ सौनातिक इति - " सुनातादिभ्यः पृच्छति " ( ६|४|४२ ) । एभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् स्यात् । सुस्नातं पृच्छति सौना - २५तिकः । सौखरात्रिकः, सौखशायनिकः, सौख्यशाय्यिक: । सुनातादयः प्रयोगगम्याः । प्राभूतिक इति - "प्रभूतादिभ्यो ब्रुवति” ( ६।४।४३ ) । एभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् स्यात् । प्रभूतं ब्रूते प्राभूतिकः । पार्याप्तिकः, वैपुलिकः, वैचित्रिकः, नैपुणिकः । क्रियाविशेषणादयमिष्यते, तेनेह न भवति-प्रभूतमर्थं ब्रूते पर्याप्तमर्थं ब्रूते इति । कश्चिदक्रियाविशेषणादपि स्वर्गमनं ब्रूते सौवर्गमनिकः । स्वागतिकः । सौवस्तिकः [ स्वस्तीति ब्रूते व्युत्पत्तिपक्षे 'य्वः पदान्तात्' इति, अव्युत्पत्तिपक्षे ३०तु 'द्वारादेः' इत्यौत् ] प्रभूतादयः प्रयोगगम्याः । " माशब्द इत्यादिभ्यः " ( ६ |४ |४४ ) । इति शब्दो वाक्यपरामर्शार्थः । मा शब्द इति ब्रूते माशब्दिक : - मा शब्दः क्रियतामिति ब्रूत इत्यर्थ: । कार्यः शब्द इति ब्रूते कार्यशब्दिकः । नित्यः शब्द इति ब्रूते नैत्यशब्दिकः । माशब्द इत्यादयः प्रयोगगम्याः । वाक्यात्प्रत्ययविधानार्थं वचनम् [ पूर्वेण हि पदात्प्रत्यय इत्यर्थः ] । " शाब्दिकदारिकलालाटिककौकुटिकम् ” ( ६ |४| ४५ ) । एते यथास्वं प्रसिद्धेऽर्थे इकणन्ता निपात्यन्ते । शब्द क शाब्दिकः ( यः कश्चिच्छब्दं करोति न स सर्व: शाब्दिकः किं तर्हि ) यः शब्दं जानाति वैयाकरणः स ३६ एवाविनष्टुं शब्दमुच्चारयन् शाब्दिक उच्यते । दर्दुरो घटो वादित्रं च तत्र वादित्रं कुर्वन् दार्दुरिक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org