________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । चरत्याद्यर्थाः
४०३ श्वायूथिकः । आदिग्रहणं किम् ? श्वभिश्चरति शौविकः । इतीति किम् ? श्वहानस्येदं शौवहानम् , शौवभत्रम् । श्वदंष्ट्राया विकारः शौवदंष्ट्रो मणिः । “इनः" (७।४।११) श्वादेरिन्प्रत्ययान्तस्य ब्णिति तद्धिते परे वकारात्प्रागौकारो न भवति । श्वाभलेरिदं श्वाभस्त्रम् , श्वाकर्णम् । इकारादौ निमित्ते उच्यमानः पूर्वेण प्रतिषेध इअन्तस्य प्रत्ययान्तरे न भवतीति वचनम् । “पदस्यानिति वा" (७।४।१२) पदशब्दान्तस्य श्वादेरिकारादिवर्जिते ब्णिति तद्धिते वकारात्प्रागौकारो वा भवति ।५ शुन इव पदमस्य श्वापदम्, तस्य विकारः श्वापदं शौवापदम् । अनितीति किम् ? श्वापदेन चरति श्वापदिकः । श्वनशब्दस्य द्वारादिषु पाठात्तत्र तदादिविधेापितत्वान्नित्यमौकारागमे प्राप्ते विकल्पः। वैतनिक-इति "वेतनादेर्जीवति" (३।४।१५) एभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकण् स्यात् । वेतन, वाह, अर्द्धवाह, धनुस् , दण्ड, धनुर्दण्ड, जाल, वेश, उपवेश, प्रेषण १० भृति, उपवेश, उपस्था, उपास्ति, उपस्थान, सुख, शय्या, सुखशय्या, शक्ति, उपनिषद् २० उपनिजस्तस्पिज (?) उपरिजन, १० स्फिज, स्फिग, वाल, पुतचाल, उपदेश, पाद, उपहस्त २८ इति वेतनादयोऽष्टाविंशतिः । ऋयिक इति-"व्यस्ताच क्रयविक्रयादिकः" (६।४।१६) । क्रयविक्रयशब्दात्समस्ताव्यस्ताच तेन जीवत्यर्थे इकः स्यात् । क्रयविक्रयेण जीवति क्रयविक्रयिकः । एवं क्रयिकः, विक्रयिकः ॥
अत्रादिशब्दसंनिधानात् “वलात्" ( ६।४।१७) । अस्मात्तेन जीवत्यर्थे इकः स्यात् । वस्त्रं मूल्यम् , तेन जीवति वस्निकः ॥ "आयुधादीयश्च" (६।४।१८)। चकारादिकः । आयुधेन १५ जीवति आयुधीयः आयुधिकः आयुधिका । आयुधादिकेकणोः स्त्रियां विशेषः । (नन्वायुधादीयो वेति क्रियतां पक्षे इकणापि सेत्स्यतीत्याशङ्का)॥"वातादीन" (६।४।१९) वातशब्दात्तेन जीवत्यर्थे ईनञ् स्यात् । नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वातास्तत्साहचर्यात्तत्कर्मापि जातं तेन जीवति (व्रातीनः ।) 'वातीनाः सङ्घजीविनः' इत्यभिधानचिन्तामणौ । बकारो वृद्ध्यर्थस्तेन "तद्धितः स्वरवृद्धि०” (३।२।५५) इत्यादिना पुंवद्भावो न स्यात्-त्रातीनाभार्यः । मैनिक२० इति-"पक्षिमत्स्यमृगार्थाद् नति” (६।४।३१)। द्वितीयान्तेभ्य एभ्यो प्रत्यर्थे इकण् स्यात् । पक्षिणो हन्ति पाक्षिकः । मासिकः, मार्गिकः । अर्थग्रहणात्पर्यायेभ्यो विशेषेभ्यश्च भवति-शाकुनिकः, मायूरिकः, तैत्तिरिकः, मैनिकः, शाफरिकः, शाकुलिकः, हारिणिकः, सौकरिकः । अथ अजिह्मान् हन्ति अनिमिषान् हन्तीत्यत्र कस्मान्न भवति ? नैतन्मत्स्येत्यस्य स्वरूपं (मत्स्यशब्दोऽयं न भवति) न विशेषो नं पर्यायः, अपि त्वसाधारणं विशेषणं यथा जिह्मगा भुजगाः, अनिमिषा देवा इति । “परिपन्था-२५ त्तिष्ठति च” (६।४।३२) । अस्माद्वितीयान्तात्तिष्ठति प्रति चार्थे इकण् स्यात् । परिपन्थं तिष्ठति हन्ति वा पारिपन्थिकश्चौरः; अत एव निर्देशात्परिपथशब्दस्य इकणोऽन्यत्रापि परिपन्थादेशः, तेन परिपन्थं गच्छति पश्यतीत्याद्यपि भवति। "परिपथात्" (६।४।३३)। अस्माहितीयान्तात्तिष्ठत्यर्थे इकण् स्यात् । परि वर्जने सर्वतो भावे वा। पथः परि सर्वतः पन्थानं परिपथं तिष्ठति पारिपथिकः-पन्थानं वर्जयित्वा व्याप्य वा तिष्ठतीत्यर्थः । “अवृद्धेहाति गर्ने” (६।४।३४)। द्वितीयान्तावृद्धिशब्दाद्गृह्णात्यर्थे इकण् स्यात् । यो गृह्णाति स चेदन्यायेन ग्रहणाद्यः स्यात् । द्विगुणं गृह्णाति द्वैगुणिकः । त्रैगुणिकः ॥ धुषी ३१
१ यः किल पर्यायशब्दः स व्युत्पत्तिमन्तरेणापि तावन्तमर्थ गमयत्ययं तु व्युत्पत्त्यपेक्ष एव गमयति । २ यत्रापि अजिह्मादिशब्देभ्यो मत्स्यादिप्रतीतिस्तत्राप्यसाधारणविशेषणत्वेनैव न पर्यायत्वेन । ३ पथः परिशब्दो वर्जनार्थस्तदा 'पर्यपाभ्यां वर्ये' इति पञ्चमी 'पर्यपाबहिः' इति समासः । यदा तु परितः पन्थानमिति सर्वतोऽर्थः परिः, तदा 'सर्वोभयाभिपरिणा तसा' इति द्वितीया । सूत्रसामर्थ्यादव्ययीभावः 'ऋक्पःपथ्यऽपोत्' । ४ प्रयुक्तं धनं पुष्णातीति प्रयुक्तधनपोषी तस्य पृषोदरादिखात् धुषीशब्द आदेशः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org